प्रा॒तर्हि य॒ज्ञम॒श्विना᳚ द॒धाते॒ प्र शं᳚सन्ति क॒वयः᳚ पूर्व॒भाजः᳚ ॥
पदपाठः (Word-by-word)
प्रा॒तः । हि । य॒ज्ञम् । अ॒श्विना᳚ । द॒धाते॒ इति᳚ । प्र । शं॒स॒न्ति॒ । क॒वयः᳚ । पू॒र्व॒॑भाजः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेमदीयाऋत्विजः प्रातर्यावाणा प्रातरेवयज्ञगन्तारौ प्रथमा अतएवेतरेभ्योदेवेभ्यः पूर्वंभाविनौ प्रकृष्टतमौवा अश्विनौ यजध्वं किमर्थं- प्रथमयागनियोगउच्यते गृध्रात् अभिकांक्षतः अररुषः अदातुः रक्षः प्रभृतेः पुरा पूर्वं पिबतः पिबतां अनागतौ कथंयष्टुंशक्यावित्यतआह अश्विना अश्विनौ प्रातर्हि यज्ञं दधाते धारयतः संभजतः पूर्वकालीनाः कवयः अनूचानाऋषयः प्रातरेवैतौ प्रशंसन्ति येवाअनूचानास्तेकव- यइतिहिनिगमः ॥ १ ॥