श्रवणम्

5.77.2
प्रा॒तर्य᳚जध्वम॒श्विना᳚ हिनोत॒ न सा॒यम᳚स्ति देव॒या अजु᳚ष्टम् ।
उ॒तान्यो अ॒स्मद्य᳚जते॒ वि चाव॒ः पूर्व᳚ःपूर्वो॒ यज᳚मानो॒ वनी᳚यान् ॥
▶ पदपाठः (Word-by-word)
प्रा॒तः । य॒ज॒ध्व॒म् । अ॒श्विना᳚ । हि॒नो॒त॒ । न । सा॒यम् । अ॒स्ति॒ । दे॒व॒॑याः । अजु᳚ष्टम् ।
उ॒त । अ॒न्यः । अ॒स्मत् । य॒ज॒ते॒ । वि । च॒ । आवः᳚ । पूर्वः᳚॑पूर्वः । यज᳚मानः । वनी᳚यान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमदीयाःपुरुषाः अश्विना अश्विनौ प्रातः प्रातरेव यजध्वं पूजयध्वं स्तुध्वं हिनोत प्रहिणुत हवींषि सायं सायंकाले हविर्देवयाः देवगामि नास्ति नविद्यते देवानस्वीकुर्वन्तीत्यर्थः अजुष्टं असेव्यं तद्भवति पूर्वाह्णोवैदेवानामितिहिश्रुतिः । उत अस्मदस्मत्तोन्यःकोपिय- जते यजेत सोमेन विचावः वितर्पयेच्चहविषा अतोस्मास्वन्येषुचमध्ये पूर्वः पूर्वोयजमानः यःपूर्वःपूर्वोयष्टा भवति सवनीयान् देवानांसंभ- जनीयः संभाव्योभवति ॥ २ ॥ हिरण्यत्वगित्येषाआश्विनेपशौहविषोयाज्या हिरण्यत्वङ्मधुवर्णोघृतस्नुरभिक्रत्वेन्द्रभूरधज्यन्नितिहिसूत्रितम् ।