श्रवणम्

5.77.3
हिर᳚ण्यत्व॒ङ्मधु᳚वर्णो घृ॒तस्नु॒ः पृक्षो॒ वह॒न्ना रथो᳚ वर्तते वाम् ।
मनो᳚जवा अश्विना॒ वात᳚रंहा॒ येना᳚तिया॒थो दु᳚रि॒तानि॒ विश्वा᳚ ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑त्वक् । मधु᳚॑वर्णः । घृ॒त॑स्नुः᳚ । पृक्षः᳚ । वह᳚न् । आ । रथः᳚ । व॒र्त॒ते॒ । वा॒म् ।
मनः᳚॑जवाः । अ॒श्वि॒ना॒ । वात᳚॑रंहाः । येन᳚ । अ॒ति॒॑या॒थः । दुः॒॑इ॒तानि᳚ । विश्वा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वांयुवयोरथः पृक्षोन्नममृतं वहन्नावर्ततेस्मदभिमुखंआगच्छति कीदृशोरथः हिरण्यत्वक् हिरण्याच्छादितरूपः हिरण्यावृतः मधुवर्णः मनोहरवर्णः घृतस्नुः उदकस्य ध्रस्नवनः मनोजवाः मनोवेगः वातरंहाः वातसदृशवेगः हेअश्विना येनरथेन विश्वा सर्वाणि दुरितानि पापा- नि दुर्गमनान्मार्गान्वा अतियाथः अतिक्रम्यगच्छथः ॥ ३ ॥