पञ्चमं मण्डलम् - सूक्तम् 65

6 ऋचः

ऋषिः: रातहव्य आत्रेयः देवता: मित्रावरुणौ छन्दः: अनुष्टुप्

सूक्तम् 5.65 - सम्पूर्णम्

1 / 6
ऋक्: 5.65.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
5.65.1
यश्चि॒केत॒ स सु॒क्रतु᳚र्देव॒त्रा स ब्र᳚वीतु नः ।
वरु᳚णो॒ यस्य᳚ दर्श॒तो मि॒त्रो वा॒ वन᳚ते॒ गिरः᳚ ॥
▶ पदपाठः (Word-by-word)
यः । चि॒केत᳚ । सः । सु॒॑क्रतुः᳚ । दे॒व॒॑त्रा । सः । ब्र॒वी॒तु॒ । नः॒ ।
वरु᳚णः । यस्य᳚ । द॒र्श॒तः । मि॒त्रः । वा॒ । वन᳚ते । गिरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यःस्तोता चिकेत जानातिस्तुतिं युवयोः ससुक्रतुः सएवशोभनकर्मा देवत्रा देवेषु स्तोतृषुमध्ये यद्वा देवेषुमध्ये युवयोरेवस्तुतिंयश्चिके- तससुक्रतुरिति ससुकर्मा नोस्माकंब्रवीतु स्तुतिंपरमुपदिशतु यस्यदर्शतोदर्शनीयोवरुणोदर्शनीयोमित्रोवा मित्रश्च वाशब्दश्चार्थे गिरोस्म- दीयास्तुतीर्वनतेसंभजते ॥ १ ॥

5.65.2 समानपद
ता हि श्रेष्ठ᳚वर्चसा॒ राजा᳚ना दीर्घ॒श्रुत्त᳚मा ।
ता सत्प᳚ती ऋता॒वृध᳚ ऋ॒तावा᳚ना॒ जने᳚जने ॥
▶ पदपाठः (Word-by-word)
ता । हि । श्रेष्ठ᳚॑वर्चसा । राजा᳚ना । दी॒र्घ॒श्रुत्॑त᳚मा ।
ता । सत्प᳚ती॒ इति॒ सत्॑प᳚ती । ऋ॒त॒॑वृधा᳚ । ऋ॒त॑वा᳚ना । जने᳚॑जने ॥
▶ सायणभाष्यम् (Sayana Commentary)

ताहि तौखलुमित्रावरुणौ श्रेष्ठवर्चसा प्रशस्ततेजस्कौ राजाना ईश्वरौ दीर्घश्रुत्तमा दूरदेशादाह्वानश्रोतृतमौ ता तौ सत्पती सतांयज- मानानांस्वामिनौ ऋतावृधा यज्ञस्योदकस्यवावर्धयितारौ जने जने सर्वेषुस्तोतृषुनिमित्तेषु ऋतावाना गमनवन्तौ ॥ २ ॥

5.65.3
ता वा᳚मिया॒नो॑व᳚से॒ पूर्वा॒ उप᳚ ब्रुवे॒ सचा᳚ ।
स्वश्वा᳚स॒ः सु चे॒तुना॒ वाजा{4}᳚ अ॒भि प्र दा॒वने᳚ ॥
▶ पदपाठः (Word-by-word)
ता । वा॒म् । इ॒या॒नः । अव᳚से । पूर्वौ᳚ । उप᳚ । ब्रु॒वे॒ । सचा᳚ ।
सु॒॑अश्वा᳚सः । सु । चे॒तुना᳚ । वाजा᳚न् । अ॒भि । प्र । दा॒वने᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ पूर्वौ पुरातनौ वां युवां इयानोगच्छन् अवसे रक्षणाय सचा सह उपब्रुदे उपेत्यस्तौमि स्वश्वासः स्वश्वावयमात्रेयाः सुचेतुना शोभनप्रज्ञानौयुवां वाजान् अभि अन्नानिअभिलक्ष्य प्र प्रकर्षेण दावने दानाय स्तुमइतिशॆषः यद्वा स्वश्वासः स्वश्वौ द्वितीयाद्विवचनस्यश- सादेशः उपब्रुवइतिसंबन्धः ॥ ३ ॥

5.65.4
मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया᳚य गा॒तुं व᳚नते ।
मि॒त्रस्य॒ हि प्र॒तूर्व᳚तः सुम॒तिरस्ति᳚ विध॒तः ॥
▶ पदपाठः (Word-by-word)
मि॒त्रः । अं॒होः । चि॒त् । आत् । उ॒रु । क्षया᳚य । गा॒तुम् । व॒न॒ते॒ ।
मि॒त्रस्य᳚ । हि । प्र॒॑तूर्व᳚तः । सु॒॑म॒तिः । अस्ति᳚ । वि॒ध॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मित्रोदेवः अंहोश्चित् अंहस्वतोपिस्तोतुः आत् अनन्तरमेव उरुउरवे क्षयाव गृहाय निवासायवा गातुमुपायं वनते प्रयच्छति मित्रस्य- हि मित्रस्यसुमतिः शोभनबुद्धिः प्रतूर्वतः प्रकर्षेणहिंसतोपि विधतः परिचरतः शुश्रूषकस्य अस्तिहि भवतिखलु ॥ ४ ॥

5.65.5
व॒यं मि॒त्रस्याव᳚सि॒ स्याम᳚ स॒प्रथ᳚स्तमे ।
अ॒ने॒हस॒स्त्वोत᳚यः स॒त्रा वरु᳚णशेषसः ॥
▶ पदपाठः (Word-by-word)
व॒यम् । मि॒त्रस्य᳚ । अव᳚सि । स्याम᳚ । स॒प्रथः᳚॑तमे ।
अ॒ने॒हसः᳚ । त्वा॑ऊ᳚तयः । स॒त्रा । वरु᳚ण॑शेषसः ॥
▶ सायणभाष्यम् (Sayana Commentary)

वयंयजमानामित्रस्य दुःखनिवारकस्यदेवस्य सप्रथस्तमे सर्वतःपृथुतमे अवसि रक्षणे वयंस्याम भवेम किंच अनेहसःअपापाः त्वोतयः त्वयारक्षिताः वरुणशेषसः शेषइत्यपत्यनाम वारकाः पुत्रायेषांतेतादृशाः सत्रा वयंसर्वेसहैवभवेम ॥ ५ ॥

5.65.6
यु॒वं मि᳚त्रे॒मं जनं॒ यत᳚थ॒ः सं च᳚ नयथः ।
मा म॒घोन॒ः परि᳚ ख्यतं॒ मो अ॒स्माक॒मृषी᳚णां गोपी॒थे न᳚ उरुष्यतम् ॥
▶ पदपाठः (Word-by-word)
यु॒वम् । मि॒त्रा॒ । इ॒मम् । जन᳚म् । यत᳚थः । सम् । च॒ । न॒य॒थः॒ ।
मा । म॒घोनः᳚ । परि᳚ । ख्य॒त॒म् । मो इति᳚ । अ॒स्माक᳚म् । ऋषी᳚णाम् । गो॒॑पी॒थे । नः॒ । उ॒रु॒ष्य॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमित्रामित्रावरुणौ युवं युवं इमंजनंस्तोतारंमांप्रति यतथःआगच्छथः आगत्यच संचनयथः संनयथश्चकामान्प्रापयथः यद्वा यतथइत्यं- तर्णीतण्यर्थोयं अहनियतथः व्यापारेषुगमयथः रात्रौचसंनयथः निर्व्यापारंकारयथः मघोनः हविर्लक्षणान्नवतःअस्मान् मापरिख्यतं माप- रिख्यतं मापरित्यजतं मो मैव ऋषीणामस्माकं पुत्रानपि परिख्यतं किंतु गोपीथे गौः सोमरसः तस्यपानंयस्मिन् सगोपीथोयज्ञः तस्मिन् नः उरुष्यतंरक्षतम् ॥ ६ ॥

आचिकितानेतिषळृचंदशमंसूक्तं रातहव्यस्यार्षं आनुष्टुभं मैत्रावरुणं अत्रानुक्रमणिकाआचिकितानानुष्टुभन्त्विति । आद्यस्तृचोदशरा- त्रेचतुर्थेहनिप्रउगशस्त्रेमैत्रावरुणस्य सूत्रितंच-आचिकितानसुक्रतूत्यमुवोअप्रहणमिति ।