पञ्चमं मण्डलम् - सूक्तम् 57

8 ऋचः

ऋषिः: श्यावाश्व आत्रेयः देवता: मरुतः छन्दः: जगती

सूक्तम् 5.57 - सम्पूर्णम्

1 / 8
ऋक्: 5.57.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
5.57.1
आ रु᳚द्रास॒ इन्द्र᳚वन्तः स॒जोष᳚सो॒ हिर᳚ण्यरथाः सुवि॒ताय᳚ गन्तन ।
इ॒यं वो᳚ अ॒स्मत्प्रति᳚ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा᳚ उद॒न्यवे᳚ ॥
▶ पदपाठः (Word-by-word)
आ । रु॒द्रा॒सः॒ । इन्द्र᳚॑वन्तः । स॒॑जोष᳚सः । हिर᳚ण्य॑रथाः । सु॒वि॒ताय᳚ । ग॒न्त॒न॒ ।
इ॒यम् । वः॒ । अ॒स्मत् । प्रति᳚ । ह॒र्य॒ते॒ । म॒तिः । तृ॒ष्ण॑जे᳚ । न । दि॒वः । उत्साः᳚ । उ॒द॒न्यवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेरुद्रासोरुद्रपुत्राः इन्द्रवन्तः इन्द्रेणयुष्मत्स्वामिनातद्वन्तः सजोषसः प्रस्परंसमानप्रीतयोहिरण्यरथाः हिरण्यमयरथाःसन्तः सुविताय सुगमनाय तत्साधनाय सुष्ठु सर्वैर्गन्तव्याय यज्ञाय तदर्थं आगन्तन आगच्छत किमत्रविद्यतइतितदुच्यते इयं अस्मदस्मदीया मतिः स्तुतिर्वोयुष्मान् प्रतिहर्यते कामयते त्स्मादागच्छत उदन्यवे उदकेच्छवे तृष्णजे गोतमाय दिवः द्युलोकसकाशात् उत्साः उदकनिष्पन्दाय- थायुष्माभिः प्रेरितास्तद्वदस्मदर्थमप्यागत्याभिमतंददतेत्यर्थः ॥ १ ॥

5.57.2
वाशी᳚मन्त ऋष्टि॒मन्तो᳚ मनी॒षिणः᳚ सु॒धन्वा᳚न॒ इषु᳚मन्तो निष॒ङ्गिणः᳚ ।
स्वश्वा᳚ः स्थ सु॒रथा᳚ः पृश्निमातरः स्वायु॒धा म᳚रुतो याथना॒ शुभ᳚म् ॥
▶ पदपाठः (Word-by-word)
वाशी᳚॑मन्तः । ऋ॒ष्टि॒॑मन्तः᳚ । म॒नी॒षिणः᳚ । सु॒॑धन्वा᳚नः । इषु᳚॑मन्तः । नि॒ष॒ङ्गिणः᳚ ।
सु॒॑अश्वाः᳚ । स्थ॒ । सु॒॑रथाः᳚ । पृ॒श्नि॒॑मा॒त॒रः॒ । सु॒॑आ॒यु॒धाः । म॒रु॒तः॒ । या॒थ॒न॒ । शुभ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः यूयं वाशीमन्तः वाशीतितक्षणसाधनमायुधं तद्वन्तःस्थ ऋष्टिमन्तः ऋष्टिर्नाम छुरिका तद्वन्तःस्थ एवंसर्वत्रयोज्यं मनीषिणः मनसईश्वराः मनस्विनः सुधन्वानः शोभनधनुष्काः इषुमन्तोबाणवन्तः निषंगिणोनिषंगवन्तः स्वश्वाःस्थ शोभनाश्वाभवथ सुरथाः शोभ- नरथाः पृश्निमातरः पृश्नेःपुत्राः स्वायुधाः खड्गपरश्वादिसकलायुधोपेताः एवंमहात्मानःसन्तः शुभंशोभनंयथाभवतितथाशुभं उदकायवा रथेनयाथन गच्छथ ॥ २ ॥

5.57.3
धू॒नु॒थ द्यां पर्व᳚तान्दा॒शुषे॒ वसु॒ नि वो॒ वना᳚ जिहते॒ याम᳚नो भि॒या ।
को॒पय᳚थ पृथि॒वीं पृ᳚श्निमातरः शु॒भे यदु᳚ग्रा॒ः पृष᳚ती॒रयु᳚ग्ध्वम् ॥
▶ पदपाठः (Word-by-word)
धू॒नु॒थ । द्याम् । पर्व᳚तान् । दा॒शुषे᳚ । वसु᳚ । नि । वः॒ । वना᳚ । जि॒ह॒ते॒ । याम᳚नः । भि॒या ।
को॒पय᳚थ । पृ॒थि॒वीम् । पृ॒श्नि॒॑मा॒त॒रः॒ । शु॒भे । यत् । उ॒ग्राः॒ । पृष᳚तीः । अयु᳚ग्ध्वम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः द्यांदिवीत्यर्थः पर्वतान् मेघान् दाशुषे हविर्दात्रेयजमानाय वसु धनानिच धूनुथ प्रापयथ वोयुष्माकं यामनः गमनस्यभिया- भीत्या वना वनानि वृक्षादिसमूहानि निजिहते नितरांकंपते अवनताभृशंशंसंतीत्यर्थः हेपृश्निमातरः पृश्नेःपुत्राः पृश्नियैवैपयसोमरुतोजा- ताइतिहिश्रुतिः । हेमरुतः पृथिवीं कोपयथ अभिवृष्ट्या क्षोभयथ हेउग्राउद्गूर्णबलाः यूयं यद्यदा शुभे उदकार्थं पृषतीर्युष्मदीयाअश्वाः अयुग्ध्वं योजयथ तदा कोपयथपृथिवीं ॥ ३ ॥

5.57.4
वात᳚त्विषो म॒रुतो᳚ व॒र्षनि᳚र्णिजो य॒मा इ᳚व॒ सुस᳚दृशः सु॒पेश᳚सः ।
पि॒शङ्गा᳚श्वा अरु॒णाश्वा᳚ अरे॒पस॒ः प्रत्व᳚क्षसो महि॒ना द्यौरि᳚वो॒रवः᳚ ॥
▶ पदपाठः (Word-by-word)
वात᳚॑त्विषः । म॒रुतः᳚ । व॒र्ष॑नि᳚र्निजः । य॒माः॑इ᳚व । सु॑स᳚दृशः । सु॒॑पेश᳚सः ।
पि॒शङ्ग᳚॑अश्वाः । अ॒रु॒ण॑अ᳚श्वाः । अ॒रे॒पसः᳚ । प्र॑त्व᳚क्षसः । म॒हि॒ना । द्यौः॑इ᳚व । उ॒रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वातत्विषः सर्वदासंप्राप्तदीप्तयः वर्षनिर्णिजः वृष्टेःशोधयितारः अथवा निर्निगिति रूपनाम वर्षमेवरूपंयेषांतेतादृशाः वृष्टिप्रदाइत्यर्थः यमाइव युगलोत्पन्नाइव सुसदृशः परस्परंबलरूपादिभिरत्यन्तंसरूपाः सुपेशसःशोभरूपाः पिशंगाश्वाः पिशंगवर्णाश्वोपेताः तथा अरुणा- श्वाःअरेपसोअपापाः प्रत्बक्षसः प्रकृष्टंतनूकर्तारोद्वेष्टृणां महिना महत्त्वेन द्यौरिवान्तरिक्षमिव उरवः विस्तीर्णाउक्तलक्षणाः नामभेजिरे- इत्यत्तरेणसंबन्धः ॥ ४ ॥

5.57.5
पु॒रु॒द्र॒प्सा अ᳚ञ्जि॒मन्त᳚ः सु॒दान᳚वस्त्वे॒षसं᳚दृशो अनव॒भ्ररा᳚धसः ।
सु॒जा॒तासो᳚ ज॒नुषा᳚ रु॒क्मव᳚क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम᳚ भेजिरे ॥
▶ पदपाठः (Word-by-word)
पु॒रु॒॑द्र॒प्साः । अ॒ञ्जि॒॑मन्तः᳚ । सु॒॑दान᳚वः । त्वे॒ष॑स᳚न्दृशः । अ॒न॒व॒भ्र॑रा᳚धसः ।
सु॒जा॒तासः᳚ । ज॒नुषा᳚ । रु॒क्म॑व᳚क्षसः । दि॒वः । अ॒र्काः । अ॒मृत᳚म् । नाम᳚ । भे॒जि॒रे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरुद्रप्साः प्रभूतोदकाः अंजिमन्तः आभरणवन्तः सुदानवः शॊभनदानाः त्वेषसंदृशोदीप्तरूपाः अनवभ्रराधसोनवभ्रष्टधनाः सुजातासः शोभनजननाः जनुषा जन्मनैव उक्तरूपाः रुक्मवक्षसोहारवक्षस्काः अर्काः पूज्याः मरुतोदिवोद्युलोकादागत्य अमृतमरणसाधनंनामउदकं नमनहेतुकमुक्तलक्षणंहविर्वा भेजिरे लब्धवन्तः ॥ ५ ॥

5.57.6 समानपद
ऋ॒ष्टयो᳚ वो मरुतो॒ अंस᳚यो॒रधि॒ सह॒ ओजो᳚ बा॒ह्वोर्वो॒ बलं᳚ हि॒तम् ।
नृ॒म्णा शी॒र्षस्वायु᳚धा॒ रथे᳚षु वो॒ विश्वा᳚ व॒ः श्रीरधि᳚ त॒नूषु᳚ पिपिशे ॥
▶ पदपाठः (Word-by-word)
ऋ॒ष्टयः᳚ । वः॒ । म॒रु॒तः॒ । अंस᳚योः । अधि᳚ । सहः᳚ । ओजः᳚ । बा॒ह्वोः । वः॒ । बल᳚म् । हि॒तम् ।
नृ॒म्णा । शी॒र्ष॑सु᳚ । आयु᳚धा । रथे᳚षु । वः॒ । विश्वा᳚ । वः॒ । श्रीः । अधि᳚ । त॒नूषु᳚ । पि॒पि॒शे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः वोयुष्माकमंसयोरधि ऋष्टयआयुधविशेषाः हिताः आश्रिताः वक्ष्यमाणहितशब्दोविपरिणेतव्यः अधीतिसप्तम्यर्थानुवादी तथा वोबाह्वोरधिसहः शत्रूणामभिभावुकं ओजः ओजोनामाष्टमोधातुः तद्रूपंबलं हितं निहितं शीर्षसु शिरःसु नृम्णा नृम्णानि हिरण्यम- यानि पदृओष्णीषादीनि निहितानि रथेष्वायुधा आयुधानि युद्धसाधनानि निहितानि विश्वा सर्वा वःश्रीः युष्माकंकान्तिः तनूषु तदीयेषु अधिपिपिशे अधिष्ठिताआश्रिता ॥ ६ ॥

5.57.7
गोम॒दश्वा᳚व॒द्रथ᳚वत्सु॒वीरं᳚ च॒न्द्रव॒द्राधो᳚ मरुतो ददा नः ।
प्रश᳚स्तिं नः कृणुत रुद्रियासो भक्षी॒य वो॑व᳚सो॒ दैव्य᳚स्य ॥
▶ पदपाठः (Word-by-word)
गो॑म᳚त् । अश्व᳚॑वत् । रथ᳚॑वत् । सु॒॑वीर᳚म् । च॒न्द्र॑व᳚त् । राधः᳚ । म॒रु॒तः॒ । द॒द॒ । नः॒ ।
प्र॑श᳚स्तिम् । नः॒ । कृ॒णु॒त॒ । रु॒द्रि॒या॒सः॒ । भ॒क्षी॒य । वः॒ । अव᳚सः । दैव्य᳚स्य ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः नोस्मभ्यं गोमत् बहुभिर्गोभिरुपेतं अश्वावत् बहुभिरश्वैरुपेतं रथवत् रथोपेतं सुवीरं सुष्ठु पुत्रोपेतं चंद्रवत् हिरण्योपेतं राधोन्नं दद ददत व्यत्ययेनैकवचनं अथवालोडर्थस्य लिटोमध्यमबहुवचनं हेरुद्रियासोरुद्रपुत्रामरुतः नोस्मदीयां प्रशस्तिंसमृद्धिमित्यर्थः तांकृणुत कुरुत वोयुष्माकंस्वभूतं अवसोवोरक्षणं दैव्यस्य दैव्यं देवार्हंभक्षीय भजेय ॥ ७ ॥

5.57.8
ह॒ये नरो॒ मरु᳚तो मृ॒ळता᳚ न॒स्तुवी᳚मघासो॒ अमृ᳚ता॒ ऋत᳚ज्ञाः ।
सत्य᳚श्रुत॒ः कव᳚यो॒ युवा᳚नो॒ बृह᳚द्गिरयो बृ॒हदु॒क्षमा᳚णाः ॥
▶ पदपाठः (Word-by-word)
ह॒ये । नरः᳚ । मरु᳚तः । मृ॒ळत᳚ । नः॒ । तुवि᳚॑मघासः । अमृ᳚ताः । ऋत᳚॑ज्ञाः ।
सत्य᳚॑श्रुतः । कव᳚यः । युवा᳚नः । बृह᳚त्॑गिरयः । बृ॒हत् । उ॒क्षमा᳚णाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हये हेनरोनेतारः नःमरुतोस्मान् मृळत सुखयत अस्मभ्यंहितायवा सुखिनोभवत हेतुवीमघासः प्रभूतधनाः अमृताः अमरणस्वभावाः ऋतज्ञाः उदकस्ययज्ञस्यवा ज्ञातारः कर्तारइत्यर्थः सत्यश्रुतः सत्येनसत्यफलत्वेनप्रसिद्धाः कवयोमेधाविनः युवानोनित्यतरुणाः बृहद्गिर- यः प्रभूतस्तुतयः बृहदत्यधिकं उक्षमाणाः हविर्भिःसेविताः उदकं वासिंचन्तोयूयंमृळत ॥ ७ ॥

तमुनूनमित्यष्टर्चंद्वितीयंसूक्तं श्यावाश्वस्यार्षंत्रैष्टुभंमारुतं तम्वित्यनुक्रमणिका विनियोगोलैंगिकः ।