पञ्चमं मण्डलम् - सूक्तम् 71

3 ऋचः

ऋषिः: बाहुवृक्त आत्रेयः देवता: मित्रावरुणौ छन्दः: गायत्री

सूक्तम् 5.71 - सम्पूर्णम्

1 / 3
ऋक्: 5.71.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (3)
5.71.1
आ नो᳚ गन्तं रिशादसा॒ वरु᳚ण॒ मित्र᳚ ब॒र्हणा᳚ ।
उपे॒मं चारु᳚मध्व॒रम् ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । ग॒न्त॒म् । रि॒शा॒द॒सा॒ । वरु᳚ण । मित्र᳚ । ब॒र्हणा᳚ ।
उप᳚ । इ॒मम् । चारु᳚म् । अ॒ध्व॒रम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवरुण हेमित्र हेरिशादसा शत्रूणांप्रेरकौयुवां नोस्माकमिमं चारुं चरणीयं अध्वरं अहिंसकं यज्ञमुपागन्तं उपागच्छतं कीदृशौ बर्हणा परिबर्हणौ निबर्हणौ हन्तारौशत्रूणाम् ॥ १ ॥

5.71.2
विश्व᳚स्य॒ हि प्र᳚चेतसा॒ वरु᳚ण॒ मित्र॒ राज᳚थः ।
ई॒शा॒ना पि᳚प्यतं॒ धियः᳚ ॥
▶ पदपाठः (Word-by-word)
विश्व᳚स्य । हि । प्र॒॑चे॒त॒सा॒ । वरु᳚ण । मित्र᳚ । राज᳚थः ।
ई॒शा॒ना । पि॒प्य॒त॒म् । धियः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हवरुण हेमित्र हेप्रचेतसा प्रकृष्टज्ञानौयुवां विश्वस्यराजथः सर्वस्यस्वामिनौ भवथःहीति प्रसिद्धौ हेईशाना अस्माकमीश्वरौयुवां धि- योस्मदीयानिकर्माणि पिप्यतं प्याययतंफलैः ॥ २ ॥

5.71.3
उप᳚ नः सु॒तमा ग᳚तं॒ वरु᳚ण॒ मित्र᳚ दा॒शुषः᳚ ।
अ॒स्य सोम᳚स्य पी॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
उप᳚ । नः॒ । सु॒तम् । आ । ग॒त॒म् । वरु᳚ण । मित्र᳚ । दा॒शुषः᳚ ।
अ॒स्य । सोम᳚स्य । पी॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्माकं सुतमभिषुतं सोमंप्रति हेवरुण हेमित्र युवां उपागतं उपागच्छतं दाशुघोहविर्दातुर्ममास्यसोमस्य पीतये पानाय ॥ ३ ॥

आमित्रेवरुणइतितृचात्मकंषोडशंसूक्तं बाहुवृक्तस्यर्षमौष्णिहं मैत्रावरुणं आमित्रऔष्णिहमित्यनुक्रमणिका दशशत्रेतृतीयेहनिप्रउ- गशस्त्रेअयंमैत्रावरुणस्यतृचः सूत्रितंच-आमित्रेवरुणेवयमश्विनावेहगच्छतमिति ।