पञ्चमं मण्डलम् - सूक्तम् 2

12 ऋचः

ऋषिः: कुमार आत्रेयो वृशो वा जान उभौ वा देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 5.2 - सम्पूर्णम्

1 / 12
ऋक्: 5.2.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
5.2.1 समानपद
कु॒मा॒रं मा॒ता यु᳚व॒तिः समु᳚ब्धं॒ गुहा᳚ बिभर्ति॒ न द᳚दाति पि॒त्रे ।
अनी᳚कमस्य॒ न मि॒नज्जना᳚सः पु॒रः प᳚श्यन्ति॒ निहि᳚तमर॒तौ ॥
▶ पदपाठः (Word-by-word)
कु॒मा॒रम् । मा॒ता । यु॒व॒तिः । सम्॑उ᳚ब्धम् । गुहा᳚ । बि॒भ॒र्ति॒ । न । द॒दा॒ति॒ । पि॒त्रे ।
अनी᳚कम् । अ॒स्य॒ । न । मि॒नत् । जना᳚सः । पु॒रः । प॒श्य॒न्ति॒ । नि॑हि᳚तम् । अ॒र॒तौ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कुमारं मातेति द्वादशर्चं द्वितीयं सूक्तम् । अत्रेः पुत्रः कुमारः ऋषिर्जननाम्नः पुत्रो वृशो वोभौ वात्र ऋषी । कमेतं त्वं वि ज्योतिषेत्यनयोस्तु वृश एव नोभौ न कुमारः । अन्त्या षट्पञ्चाशदक्षरा शक्वरी शिष्टास्त्रिष्टुभः । अग्निर्देवता । अत्रानुक्रमणिका । कुमारं कुमारो वृशो वा जान उभौ वा शक्वर्यन्तं कं वीत्यृचोस्तु व्रुश एवेति । प्रातरनुवाकाश्विनशस्त्रयोरस्यापि सूक्तस्य विनियोग उक्तः पूर्वसूक्तेन सह ॥

शाट्यायनब्राह्मणोक्त इतिहास इहोच्यते । राजा त्रैवृष्ण ऐक्ष्वाकस्त्र्यरुणोऽभवदस्य च । पुरोहितो वृशो जान ऋषिरासीत्तदा खलु । सङ्गृह्णन्ति रथान्रज्ञां रक्षनाय पुरोहिताः । त्र्यरुणस्य वृशो रश्मिं सञ्जग्राह पुरोहितः । कुमारो वर्त्मनि क्रीडन्रथचक्रेन घातितः । छिन्नः कुमारश्चक्रेण ममाराथ पुरोहितः । त्वं हन्तास्येति राजानं राजा चापि पुरोहितम् । त्वं हन्तास्य कुमारस्य नाहमित्यब्रवीत्तदा । यतस्त्वं रथवेगस्य नियन्तातस्त्वया हतः । रथस्वामी यतो राजन् तस्मात्त्वं तस्य घातकः । एवं विवदमानौ ताविक्ष्वाकून्प्रष्टुमागतौ । तौ प्रप्रच्छतुरिक्ष्वाकून् केनासौ निहतो द्विजाः । तेऽब्रुवन्रथयन्तारं हन्तारं व्रुशसंज्ञकम् । स वृशो वार्शसाम्ना तं कुमारं समजीवयत् । एवमाख्याय तत्रैव पुनरन्यदुदीरितम् । यत इक्ष्वाकवो रागाद्धन्तारमृषिमब्रुवन् । तस्मात्तेषां गृहेष्वग्नेस्तेजो निर्गतमेशु च । ग्रुहे पाकादयो नासन् तत्कारनमचिन्तयन् । वृशं कुमारहन्तारं यदवोचाम तेन नः । अपाक्रमद्धरो वह्नेराह्वयाम वृशं वयम् । इति सञ्चिन्त्य तमृषिमाह्वयामासुरादरात् । समागत्य ततः शीघ्रं शेशामग्नेर्हरो भवेत् । इति वार्शेन साम्नासावकामयत पूर्ववत् । एवं गायन् स ऋषिर्ब्रह्महत्यां भार्याजातां त्रसदस्योर्नृपस्य । पिशाचवेषां हर आदाय चाग्नेर्गृहान्नीत्वा कशिपौ स्थापयन्तिम् । दृष्ट्वा सम्यक् तद्धरस्तोषयित्वा साम्ना पश्चाद्योजयामास चाग्निम् । ततः स तेजाः सञ्जातोऽभवत्पातादिः पूर्ववत् । एवं शाट्यायनेनोक्तं काण्डकोक्तमथोच्यते । वृशः पुरोधा अभवत्त्र सदस्योर्महीपतेः । स रथं धावयन्राजा ब्राह्मणस्य कुमारकम् । चिच्छेद रथचक्रेण प्रमादात्सोऽब्रवीद्वृशम् । पुरोहिते वर्तमाने त्वयि मां हन्ति रागता । एषा त्वयापनेतव्या ऋशिमित्यब्रवीन्नृपः । स ऋषिर्वार्शसाम्ना तं कुमारमुदजीवयत् । माता कुमारस्योत्पादयित्री युवतिर्यौवनोपेता कुमारं पथि सञ्चरन्तं समुब्धं चक्रेण हतं गुहा गुहायां भिभर्ति । धारयति । न ददाति पित्रे तस्य जनताय । यद्वा माता सर्वस्य निर्मात्री पृथिवी समुब्धं सम्यक् निगूढं गुहायां बिभर्ति । पित्र उत्पादकाय यजमानाय न ददाति । अस्याग्नेर्मिनत् हिंसत् दाहकमनीकं तेजो जना न पश्यन्ति । किन्तु अरतावरण्यां हितं पश्यन्ति ॥ १ ॥

5.2.2
कमे॒तं त्वं यु᳚वते कुमा॒रं पेषी᳚ बिभर्षि॒ महि᳚षी जजान ।
पू॒र्वीर्हि गर्भ᳚ः श॒रदो᳚ व॒वर्धाप᳚श्यं जा॒तं यदसू᳚त मा॒ता ॥
▶ पदपाठः (Word-by-word)
कम् । ए॒तम् । त्वम् । यु॒व॒ते॒ । कु॒मा॒रम् । पेषी᳚ । बि॒भ॒र्षि॒ । महि᳚षी । ज॒जा॒न॒ ।
पू॒र्वीः । हि । गर्भः᳚ । श॒रदः᳚ । व॒वर्ध᳚ । अप᳚श्यम् । जा॒तम् । यत् । असू᳚त । मा॒ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्राग्नेरुत्पाद्यमानत्वात्कुमारशब्देन व्यवहारः । हे युवते त्वं कमेतं कुमारं पेषी हिंसिका पिशाचिका सती बिभर्षि । एवं वृषाख्यो महर्षिः कशिपुनाच्छन्नमग्नेर्हरो ब्रूते । त्वयानुत्पादितत्वाद्धारणमनुचितमित्यर्थः । महिषी महती पूजनीयारणिरेनं जजान । अजनयत् । तदेवाह । बर्भः शिशोर्ग्राहकोऽरण्याः । सम्बन्धी गर्भो हि यस्मात्पूर्वीः शरदो गताननेकान् संवत्सरान्ववर्ध । ववृधे । अहं च ततो जातमपश्यम् । यद्यस्मान्मातारणिरसूत । उदपादयत् । राजकुमार पक्षे हे युवते भूदेवि कमेतं कुमारं पेषी सती बिभर्षि । अवशिष्टं कुमारजननपरतया योज्यम् । एवमुत्तरत्रापि कुमाराग्निहरसोः परत्वेन यथोचितं व्याख्येयम् ॥ २ ॥

5.2.3
हिर᳚ण्यदन्तं॒ शुचि᳚वर्णमा॒रात्क्षेत्रा᳚दपश्य॒मायु᳚धा॒ मिमा᳚नम् ।
द॒दा॒नो अ᳚स्मा अ॒मृतं᳚ वि॒पृक्व॒त्किं माम᳚नि॒न्द्राः कृ᳚णवन्ननु॒क्थाः ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑दन्तम् । शुचि᳚॑वर्णम् । आ॒रात् । क्षेत्रा᳚त् । अ॒प॒श्य॒म् । आयु᳚धा । मिमा᳚नम् ।
द॒दा॒नः । अ॒स्मै॒ । अ॒मृत᳚म् । वि॒पृक्व᳚त् । किम् । माम् । अ॒नि॒न्द्राः । कृ॒ण॒व॒न् । अ॒नु॒क्थाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हिरण्यदन्तं हिरण्यसदृशदन्तस्थानीयज्वालोपेतं शुचिर्णं प्रदीप्तवर्णमायुधायुधान्यायुधस्थानीयान् स्फुलिङ्गान् ज्वाला वा मिमानं निर्मिमाणमग्निमारात्समीपे क्षेत्रात् क्षेत्रे देशेऽपश्यम् । पश्येयम् । एवं वृशः कामयते । अहमस्मा अग्नयेऽमृतमविनाश्यमृतत्वसाधनं वा विपृक्वत्सर्वतो व्याप्तं हविः स्तोत्रं वा ददानः । दातास्मि । मामनिन्द्राः । इन्द्रः परमैश्वर्योऽग्निः । तद्रहिता अनिन्द्राः । इन्द्रमयजन्त इत्यर्थः । अनुक्था अस्तुतय इन्द्रमस्तुवन्तश्च किं कृणवन् । किं कुर्युः ॥ ३ ॥

5.2.4
क्षेत्रा᳚दपश्यं सनु॒तश्चर᳚न्तं सु॒मद्यू॒थं न पु॒रु शोभ᳚मानम् ।
न ता अ᳚गृभ्र॒न्नज᳚निष्ट॒ हि षः पलि᳚क्नी॒रिद्यु᳚व॒तयो᳚ भवन्ति ॥
▶ पदपाठः (Word-by-word)
क्षेत्रा᳚त् । अ॒प॒श्य॒म् । स॒नु॒तरिति᳚ । चर᳚न्तम् । सु॒॑मत् । यू॒थम् । न । पु॒रु । शोभ᳚मानम् ।
न । ताः । अ॒गृ॒भ्र॒न् । अज᳚निष्ट । हि । सः । पलि᳚क्नीः । इत् । यु॒व॒तयः᳚ । भ॒व॒न्ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अहं वृश इदानीं क्षेत्रात् क्षेत्रे सुनुतः । अन्तर्हितनामैतत् । निगूढं चरन्तमरण्यां यूथं न गवां समूहमिव समत्स्वयमेव पुरु बहु शोभमानमपश्यम् । पश्यामि । पुरा हरसः पिशाच्याक्रमणकाले ता ज्वाला निर्वीर्या नागृभ्रन् । नागृह्णन्त नराः । इदानीं सोऽग्निरजनिष्टहि । हरसा प्रादुरभूत्खलु । अत एव हेतोः पलिक्नीरित्पलिक्न्यः पलिता जीर्णा ज्वाला एवेदानीं युवतयो भवन्ति ॥ ४ ॥

5.2.5 समानपद
के मे᳚ मर्य॒कं वि य᳚वन्त॒ गोभि॒र्न येषां᳚ गो॒पा अर᳚णश्चि॒दास᳚ ।
य ईं᳚ जगृ॒भुरव॒ ते सृ᳚ज॒न्त्वाजा᳚ति प॒श्व उप᳚ नश्चिकि॒त्वान् ॥
▶ पदपाठः (Word-by-word)
के । मे॒ । म॒र्य॒कम् । वि । य॒व॒न्त॒ । गोभिः᳚ । न । येषा᳚म् । गो॒पाः । अर᳚णः । चि॒त् । आस᳚ ।
ये । ई॒म् । ज॒गृ॒भुः । अव᳚ । ते । सृ॒ज॒न्तु । आ । अ॒जा॒ति॒ । प॒श्वः । उप᳚ । नः॒ । चि॒कि॒त्वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

के मे मदीयं मर्यकं मर्त्यसङ्घं राष्ट्रं गोभिः सह वि यवन्त । वियुक्तमकुर्वन् । गा भृत्यांश्च व्ययोजयन् । येषां गोपा अस्माकं गोपयितारणश्चिदभिगन्ता नास । बभूव । सोऽयमग्निः । ये द्वॆषिण ईमेनं जनसङ्घं राष्ट्रं जग्रुभुः । गृह्णन्ति । तेऽव सृजन्तु । नश्यन्तु । किञ्च चिकित्वान् चेतनावानस्मद्विषयज्ञानवानग्निर्नोऽस्माकं पश्व पशूनुपाजाति । उपागच्छति ॥ ५ ॥

5.2.6 समानपद
व॒सां राजा᳚नं वस॒तिं जना᳚ना॒मरा᳚तयो॒ नि द᳚धु॒र्मर्त्ये᳚षु ।
ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ᳚जन्तु निन्दि॒तारो॒ निन्द्या᳚सो भवन्तु ॥
▶ पदपाठः (Word-by-word)
व॒साम् । राजा᳚नम् । व॒स॒तिम् । जना᳚नाम् । अरा᳚तयः । नि । द॒धुः॒ । मर्त्ये᳚षु ।
ब्रह्मा᳚णि । अत्रेः᳚ । अव᳚ । तम् । सृ॒ज॒न्तु॒ । नि॒न्दि॒तारः᳚ । निन्द्या᳚सः । भ॒व॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसां वसतां प्राणिनां राजानं स्वामिनं जनानां वसतिमावासभूतं त्र्यरुणमुक्तलक्शणमग्निं वारातयो नि दधुः । अगोपयन् । मर्त्येषु लोकेशु मध्ये । अत्रेरत्रिगोत्रस्य वृशस्य ब्रह्माणि मन्त्राः स्तोत्राणि वा तं कुमारमग्निं वाव सृजन्तु । अथवात्रेरत्रिगोत्रस्य कुमारं ब्र्ह्माणि । यद्वा । वृशस्य ब्रह्मण्यत्रेरत्रिगोत्रम् । क्रमणि षष्ठी । तं कुमारमव सृजन्तु । विस्रुजन्तु । निन्दितारोऽस्मन्निन्दका निन्द्यासोऽस्माभिर्निन्द्या भवन्तु । अत्रेर्ब्रह्माणीत्येतदुपजीव्य वृशमप्यात्रेयं वदन्ति । आत्रेयः कुमार इति पक्शे स एव प्रानमयमात्मानमवसृजन्त्वित्याशास्ते ॥ ६ ॥

5.2.7
शुन᳚श्चि॒च्छेपं॒ निदि᳚तं स॒हस्रा॒द्यूपा᳚दमुञ्चो॒ अश᳚मिष्ट॒ हि षः ।
ए॒वास्मद᳚ग्ने॒ वि मु᳚मुग्धि॒ पाशा॒न्होत᳚श्चिकित्व इ॒ह तू नि॒षद्य᳚ ॥
▶ पदपाठः (Word-by-word)
शुनः॒॑शेप᳚म् । चि॒त् । नि॑दि᳚तम् । स॒हस्रा᳚त् । यूपा᳚त् । अ॒मु॒ञ्चः॒ । अश᳚मिष्ट । हि । सः ।
ए॒व । अ॒स्मत् । अ॒ग्ने॒ । वि । मु॒मु॒ग्धि॒ । पाशा᳚न् । होत॒रिति᳚ । चि॒कि॒त्वः॒ । इ॒ह । तु । नि॒॑सद्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अंजःसव आवहनीयोपस्थाने शुनश्चिच्छेपमित्येषा । अग्निमाहवनीयमुपस्थापयाञ्चकार शुनश्चिच्छेपं निदितं सहस्रात् । ऐ. ब्रा. ७-१७ । इति ब्राह्मणम् ।

हे अग्ने निदितं नितरां बद्धं शुनःशेपमृषिं सहस्रादनेकरूपाद्यूपादमुञ्चः । अमोचयः । चिदिति पूरणः । शुनःशेपमिति पदस्य मध्ये पदान्तरस्य संहितायां व्यत्ययेनावस्थितिः । स ऋषिरशिमिष्ट हि । शान्तवान् खलु । यद्वा । स हि यस्मादशमिष्ट । स्तुतिकर्मैतत् । तस्तारवीत् । तस्मादमुञ्च इति सम्बन्धः । एवैवमस्मदस्मत्तः पाशान्वि मुमुग्धि । विमोचय । हे होतर्हे चिकित्वश्चेतनवान्नग्ने इह तु वेद्यां निषद्यावस्थाय ॥ ७ ॥

5.2.8
हृ॒णी॒यमा᳚नो॒ अप॒ हि मदैये॒ः प्र मे᳚ दे॒वानां᳚ व्रत॒पा उ᳚वाच ।
इन्द्रो᳚ वि॒द्वा{4} अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम᳚ग्ने॒ अनु᳚शिष्ट॒ आगा᳚म् ॥
▶ पदपाठः (Word-by-word)
हृ॒णी॒यमा᳚नः । अप᳚ । हि । मत् । ऐयेः᳚ । प्र । मे॒ । दे॒वाना᳚म् । व्र॒त॒॑पाः । उ॒वा॒च॒ ।
इन्द्रः᳚ । वि॒द्वान् । अनु᳚ । हि । त्वा॒ । च॒चक्ष᳚ । तेन᳚ । अ॒हम् । अ॒ग्ने॒ । अनु᳚॑शिष्टः । आ । अ॒गा॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने हृणीयमानः क्रुध्यन्स्त्वं मत मत्तोऽपैयेर्हि । अपागाः खलु । ई गतावित्यस्मात् श्यन्विकरणाल्लङि मध्यमे छान्दसे परस्मैपद आडागमे वृद्धौ व्यत्ययेन श्यनोऽकारस्य एकारे च कृते रूपम् । मे मह्यं देवानां व्रतपाः कर्मणः पालक इन्द्रः प्रोवाच हि । स एव विद्वान् त्वानु चचक्ष । त्वां ददर्श । तेनानुशिष्तोऽहं हे अग्ने त्वामागामिति । एवं वृश आह ॥ ८ ॥

5.2.9 समानपद
वि ज्योति᳚षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा᳚नि कृणुते महि॒त्वा ।
प्रादे᳚वीर्मा॒याः स᳚हते दु॒रेवा॒ः शिशी᳚ते॒ शृङ्गे॒ रक्ष᳚से वि॒निक्षे᳚ ॥
▶ पदपाठः (Word-by-word)
वि । ज्योति᳚षा । बृ॒ह॒ता । भा॒ति॒ । अ॒ग्निः । आ॒विः । विश्वा᳚नि । कृ॒णु॒ते॒ । म॒हि॒॑त्वा ।
प्र । अदे᳚वीः । मा॒याः । स॒ह॒ते॒ । दुः॒॑एवाः᳚ । शिशी᳚ते । शृङ्गे॒ इति᳚ । रक्ष᳚से । वि॒॑निक्षे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निर्ज्योतिषा तेजसा बृहता महता वि भाति । विशेषेण दीप्यते । अथ तथाभूतः सन् महित्वा स्वमहत्त्वेन विश्वानि सर्वाणि पदार्थाजातान्याविष्कृणुते । प्रकटीकरोति । एवं प्रवृद्धोऽग्निरदेवीरदेवनशीला असुरीर्माया दुरेवा दुःखगमनाः प्रसहते । अभिभवति । किञ्च शिशीते । तीक्ष्णीकरोति । शृङ्गे शृङ्गाणि । शृङ्गसदृशीर्हिंसिका वा ज्वालाः शिशीते । तीक्ष्णीकरोति । किमर्थम् । रक्षसे विनिक्षे रक्षसो नाशाय । निश्यति शृङ्गे रक्षसो विनिक्षणनाय । नि. ४-१८ । इति यास्कः ॥ ९ ॥

5.2.10
उ॒त स्वा॒नासो᳚ दि॒वि ष᳚न्त्व॒ग्नेस्ति॒ग्मायु᳚धा॒ रक्ष᳚से॒ हन्त॒वा उ᳚ ।
मदे᳚ चिदस्य॒ प्र रु᳚जन्ति॒ भामा॒ न व᳚रन्ते परि॒बाधो॒ अदे᳚वीः ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्वा॒नासः᳚ । दि॒वि । स॒न्तु॒ । अ॒ग्नेः । ति॒ग्म॑आ᳚युधाः । रक्ष᳚से । हन्त॒वै । ऊं॒ इति᳚ ।
मदे᳚ । चि॒त् । अ॒स्य॒ । प्र । रु॒ज॒न्ति॒ । भामाः᳚ । न । व॒र॒न्ते॒ । प॒रि॒॑बाधः᳚ । अदे᳚वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापि चाग्नेः स्वानसः शब्दं कुर्वाणा ज्वाला दिवि षन्तु । द्युलोके प्रादुर्भवन्तु । किमर्थम् । तिग्मायुधास्तीक्ष्णायुधास्थानीया ज्वालाः । रक्शसे हन्तवा उ रक्शसो हननाय । उ इति पूरणः । मदे चित् हर्षे सत्यस्याग्नेर्भामाः क्रोधा दीप्तयो वा प्र रुजन्ति । प्रकर्षेन भङ्ग गच्छन्ति पीडयन्ति वा रक्षांसि । परिबाधः परितो बाधिका अदेवीरदेवना आसुर्यः सेना न वरन्ते । न वारयन्त्येनम् । ॥ १० ॥

5.2.11
ए॒तं ते॒ स्तोमं᳚ तुविजात॒ विप्रो॒ रथं॒ न धीर॒ः स्वपा᳚ अतक्षम् ।
यदीद᳚ग्ने॒ प्रति॒ त्वं दे᳚व॒ हर्या॒ः स्व᳚र्वतीर॒प ए᳚ना जयेम ॥
▶ पदपाठः (Word-by-word)
ए॒तम् । ते॒ । स्तोम᳚म् । तु॒वि॒॑जा॒त॒ । विप्रः᳚ । रथ᳚म् । न । धीरः᳚ । सु॒॑अपाः᳚ । अ॒त॒क्ष॒म् ।
यदि᳚ । इत् । अ॒ग्ने॒ । प्रति᳚ । त्वम् । दे॒व॒ । हर्याः᳚ । स्वः᳚॑वतीः । अ॒पः । ए॒न॒ । ज॒ये॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे तुविजात बहुभावमापन्नाग्ने ते त्वदर्थमेतं स्तोममेतत्स्तोत्रं विप्रो मेधावी स्तोता रथं न रथमिव धीरः स्वपाः शोभनकर्माहमतक्षम् । समपादयम् । हे अग्ने देव त्वं यदीदेनं स्तोमं प्रति हर्याः । प्रतिकामयेथाः । तर्हि स्वर्वतोः स्वरणवतीर्व्याप्तिमतीरपि एनैनेन जयेम । प्राप्नुयाम । ॥ ११ ॥

5.2.12
तु॒वि॒ग्रीवो᳚ वृष॒भो वा᳚वृधा॒नो᳚॑श॒त्र्व१॒᳚र्यः सम᳚जाति॒ वेदः᳚ ।
इती॒मम॒ग्निम॒मृता᳚ अवोचन्ब॒र्हिष्म᳚ते॒ मन᳚वे॒ शर्म᳚ यंसद्ध॒विष्म᳚ते॒ मन᳚वे॒ शर्म᳚ यंसत् ॥
▶ पदपाठः (Word-by-word)
तु॒वि॒॑ग्रीवः᳚ । वृ॒ष॒भः । व॒वृ॒धा॒नः । अ॒श॒त्रु । अ॒र्यः । सम् । अ॒जा॒ति॒ । वेदः᳚ ।
इति᳚ । इ॒मम् । अ॒ग्निम् । अ॒मृताः᳚ । अ॒वो॒च॒न् । ब॒र्हिष्म᳚ते । मन᳚वे । शर्म᳚ । यं॒स॒त् । ह॒विष्म᳚ते । मन᳚वे । शर्म᳚ । यं॒स॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

तुविग्रीवो बहुज्वालः प्रभूतग्रिवो वा वृषभो वर्षिता कामानां ववृधानो वर्धमानोऽब्निरर्योऽरेर्वेदो धनमतत्ट्रकण्टकं समजाति । संयोजयति । इतीममर्थमग्निममृता अन्ये देवा आवोचन् । यस्मादेवं तस्माद्बर्हिष्मते यागवते मनवे मनुष्याय यजमानाय शर्म सुखं यं नत् । यच्छतु । हविष्मते च शर्म यंसत् ॥ १२ ॥