उ॒त स्वा॒नासो᳚ दि॒वि ष᳚न्त्व॒ग्नेस्ति॒ग्मायु᳚धा॒ रक्ष᳚से॒ हन्त॒वा उ᳚ ।
मदे᳚ चिदस्य॒ प्र रु᳚जन्ति॒ भामा॒ न व᳚रन्ते परि॒बाधो॒ अदे᳚वीः ॥
मदे᳚ चिदस्य॒ प्र रु᳚जन्ति॒ भामा॒ न व᳚रन्ते परि॒बाधो॒ अदे᳚वीः ॥
पदपाठः (Word-by-word)
उ॒त । स्वा॒नासः᳚ । दि॒वि । स॒न्तु॒ । अ॒ग्नेः । ति॒ग्म॑आ᳚युधाः । रक्ष᳚से । हन्त॒वै । ऊं॒ इति᳚ ।
मदे᳚ । चि॒त् । अ॒स्य॒ । प्र । रु॒ज॒न्ति॒ । भामाः᳚ । न । व॒र॒न्ते॒ । प॒रि॒॑बाधः᳚ । अदे᳚वीः ॥
मदे᳚ । चि॒त् । अ॒स्य॒ । प्र । रु॒ज॒न्ति॒ । भामाः᳚ । न । व॒र॒न्ते॒ । प॒रि॒॑बाधः᳚ । अदे᳚वीः ॥
सायणभाष्यम् (Sayana Commentary)
उतापि चाग्नेः स्वानसः शब्दं कुर्वाणा ज्वाला दिवि षन्तु । द्युलोके प्रादुर्भवन्तु । किमर्थम् । तिग्मायुधास्तीक्ष्णायुधास्थानीया ज्वालाः । रक्शसे हन्तवा उ रक्शसो हननाय । उ इति पूरणः । मदे चित् हर्षे सत्यस्याग्नेर्भामाः क्रोधा दीप्तयो वा प्र रुजन्ति । प्रकर्षेन भङ्ग गच्छन्ति पीडयन्ति वा रक्षांसि । परिबाधः परितो बाधिका अदेवीरदेवना आसुर्यः सेना न वरन्ते । न वारयन्त्येनम् । ॥ १० ॥