क्षेत्रा᳚दपश्यं सनु॒तश्चर᳚न्तं सु॒मद्यू॒थं न पु॒रु शोभ᳚मानम् ।
न ता अ᳚गृभ्र॒न्नज᳚निष्ट॒ हि षः पलि᳚क्नी॒रिद्यु᳚व॒तयो᳚ भवन्ति ॥
न ता अ᳚गृभ्र॒न्नज᳚निष्ट॒ हि षः पलि᳚क्नी॒रिद्यु᳚व॒तयो᳚ भवन्ति ॥
पदपाठः (Word-by-word)
क्षेत्रा᳚त् । अ॒प॒श्य॒म् । स॒नु॒तरिति᳚ । चर᳚न्तम् । सु॒॑मत् । यू॒थम् । न । पु॒रु । शोभ᳚मानम् ।
न । ताः । अ॒गृ॒भ्र॒न् । अज᳚निष्ट । हि । सः । पलि᳚क्नीः । इत् । यु॒व॒तयः᳚ । भ॒व॒न्ति॒ ॥
न । ताः । अ॒गृ॒भ्र॒न् । अज᳚निष्ट । हि । सः । पलि᳚क्नीः । इत् । यु॒व॒तयः᳚ । भ॒व॒न्ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
अहं वृश इदानीं क्षेत्रात् क्षेत्रे सुनुतः । अन्तर्हितनामैतत् । निगूढं चरन्तमरण्यां यूथं न गवां समूहमिव समत्स्वयमेव पुरु बहु शोभमानमपश्यम् । पश्यामि । पुरा हरसः पिशाच्याक्रमणकाले ता ज्वाला निर्वीर्या नागृभ्रन् । नागृह्णन्त नराः । इदानीं सोऽग्निरजनिष्टहि । हरसा प्रादुरभूत्खलु । अत एव हेतोः पलिक्नीरित्पलिक्न्यः पलिता जीर्णा ज्वाला एवेदानीं युवतयो भवन्ति ॥ ४ ॥