श्रवणम्

5.2.6 समानपद
व॒सां राजा᳚नं वस॒तिं जना᳚ना॒मरा᳚तयो॒ नि द᳚धु॒र्मर्त्ये᳚षु ।
ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ᳚जन्तु निन्दि॒तारो॒ निन्द्या᳚सो भवन्तु ॥
▶ पदपाठः (Word-by-word)
व॒साम् । राजा᳚नम् । व॒स॒तिम् । जना᳚नाम् । अरा᳚तयः । नि । द॒धुः॒ । मर्त्ये᳚षु ।
ब्रह्मा᳚णि । अत्रेः᳚ । अव᳚ । तम् । सृ॒ज॒न्तु॒ । नि॒न्दि॒तारः᳚ । निन्द्या᳚सः । भ॒व॒न्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वसां वसतां प्राणिनां राजानं स्वामिनं जनानां वसतिमावासभूतं त्र्यरुणमुक्तलक्शणमग्निं वारातयो नि दधुः । अगोपयन् । मर्त्येषु लोकेशु मध्ये । अत्रेरत्रिगोत्रस्य वृशस्य ब्रह्माणि मन्त्राः स्तोत्राणि वा तं कुमारमग्निं वाव सृजन्तु । अथवात्रेरत्रिगोत्रस्य कुमारं ब्र्ह्माणि । यद्वा । वृशस्य ब्रह्मण्यत्रेरत्रिगोत्रम् । क्रमणि षष्ठी । तं कुमारमव सृजन्तु । विस्रुजन्तु । निन्दितारोऽस्मन्निन्दका निन्द्यासोऽस्माभिर्निन्द्या भवन्तु । अत्रेर्ब्रह्माणीत्येतदुपजीव्य वृशमप्यात्रेयं वदन्ति । आत्रेयः कुमार इति पक्शे स एव प्रानमयमात्मानमवसृजन्त्वित्याशास्ते ॥ ६ ॥