हृ॒णी॒यमा᳚नो॒ अप॒ हि मदैये॒ः प्र मे᳚ दे॒वानां᳚ व्रत॒पा उ᳚वाच ।
इन्द्रो᳚ वि॒द्वा{4} अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम᳚ग्ने॒ अनु᳚शिष्ट॒ आगा᳚म् ॥
इन्द्रो᳚ वि॒द्वा{4} अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम᳚ग्ने॒ अनु᳚शिष्ट॒ आगा᳚म् ॥
पदपाठः (Word-by-word)
हृ॒णी॒यमा᳚नः । अप᳚ । हि । मत् । ऐयेः᳚ । प्र । मे॒ । दे॒वाना᳚म् । व्र॒त॒॑पाः । उ॒वा॒च॒ ।
इन्द्रः᳚ । वि॒द्वान् । अनु᳚ । हि । त्वा॒ । च॒चक्ष᳚ । तेन᳚ । अ॒हम् । अ॒ग्ने॒ । अनु᳚॑शिष्टः । आ । अ॒गा॒म् ॥
इन्द्रः᳚ । वि॒द्वान् । अनु᳚ । हि । त्वा॒ । च॒चक्ष᳚ । तेन᳚ । अ॒हम् । अ॒ग्ने॒ । अनु᳚॑शिष्टः । आ । अ॒गा॒म् ॥
सायणभाष्यम् (Sayana Commentary)
हे अग्ने हृणीयमानः क्रुध्यन्स्त्वं मत मत्तोऽपैयेर्हि । अपागाः खलु । ई गतावित्यस्मात् श्यन्विकरणाल्लङि मध्यमे छान्दसे परस्मैपद आडागमे वृद्धौ व्यत्ययेन श्यनोऽकारस्य एकारे च कृते रूपम् । मे मह्यं देवानां व्रतपाः कर्मणः पालक इन्द्रः प्रोवाच हि । स एव विद्वान् त्वानु चचक्ष । त्वां ददर्श । तेनानुशिष्तोऽहं हे अग्ने त्वामागामिति । एवं वृश आह ॥ ८ ॥