पञ्चमं मण्डलम् - सूक्तम् 7

10 ऋचः

ऋषिः: इष आत्रेयः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 5.7 - सम्पूर्णम्

1 / 10
ऋक्: 5.7.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
5.7.1
सखा᳚य॒ः सं वः᳚ स॒म्यञ्च॒मिषं॒ स्तोमं᳚ चा॒ग्नये᳚ ।
वर्षि᳚ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह᳚स्वते ॥
▶ पदपाठः (Word-by-word)
सखा᳚यः । सम् । वः॒ । स॒म्यञ्च᳚म् । इष᳚म् । स्तोम᳚म् । च॒ । अ॒ग्नये᳚ ।
वर्षि᳚ष्ठाय । क्षि॒ती॒नाम् । ऊ॒र्जः । नप्त्रे᳚ । सह᳚स्वते ॥
▶ सायणभाष्यम् (Sayana Commentary)

सखायः सं व इति दशर्चं सप्तमं सूक्तम् । आत्रेय इष ऋषिः । अन्त्या पङ्क्तिः शिष्टाः पङ्क्त्यन्तपरिभाषयानुष्टुभः । तथा चानुक्रान्तम् । सखाय इषः पङ्क्त्यन्तमिति । प्रातरनुवाक आग्नेये क्रतावानुष्टुभे च्छन्दस्याश्विनशस्त्रे चोत्तमावर्जमिदं सूक्तम् । सूत्रितं च । सखायः सं वस्त्वामग्ने हविष्मन्त इति सूक्ते । आ. ४-१३ । इति ॥

हे सखायः सखिभूता ऋत्विजो वो यूयं संस्कुरुत । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । किञ्च सम्यञ्चमिषमन्नं स्तोमं स्तोत्रं चाग्नये वर्षिष्थायातिशयेन प्रवृद्धाय क्षितीनां यजमानानामर्थाय वर्षिष्थाय प्रवृद्धतमायोर्जो नप्त्रे बलस्य न पातयित्रे तत्पुत्राय वा सहस्वते बलवते संस्कुरुतेति ॥ १ ॥

5.7.2
कुत्रा᳚ चि॒द्यस्य॒ समृ᳚तौ र॒ण्वा नरो᳚ नृ॒षद᳚ने ।
अर्ह᳚न्तश्चि॒द्यमि᳚न्ध॒ते सं᳚ज॒नय᳚न्ति ज॒न्तवः᳚ ॥
▶ पदपाठः (Word-by-word)
कुत्र᳚ । चि॒त् । यस्य᳚ । सम्॑ऋ᳚तौ । र॒ण्वाः । नरः᳚ । नृ॒॑सद᳚ने ।
अर्ह᳚न्तः । चि॒त् । यम् । इ॒न्ध॒ते । स॒म्॑ज॒नय᳚न्ति । ज॒न्तवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोऽग्निः कुत्र चिद्वर्तत इति शेषः । कुत्रास्ते । यस्याग्नेः समृतौ सम्प्राप्तौ रन्वा रममाणा नरो नेतार ऋत्विजः । नृशदने यागगृहेऽर्हन्तश्चित् । चिदिति पूजायाम् । अर्हन्तः पूज्याः पूजयन्तो वा सन्तो यमिन्धते । दीपयन्ति । तदर्थं सञ्जनयन्ति चारण्यां जन्तवः प्राणिनः । स कुत्रेति सम्बन्धः ॥ २ ॥

5.7.3 समानपद
सं यदि॒षो वना᳚महे॒ सं ह॒व्या मानु᳚षाणाम् ।
उ॒त द्यु॒म्नस्य॒ शव᳚स ऋ॒तस्य᳚ र॒श्मिमा द᳚दे ॥
▶ पदपाठः (Word-by-word)
सम् । यत् । इ॒षः । वना᳚महे । सम् । ह॒व्या । मानु᳚षाणाम् ।
उ॒त । द्यु॒म्नस्य᳚ । शव᳚सा । ऋ॒तस्य᳚ । र॒श्मिम् । आ । द॒दे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदेषोऽन्नानि सं वनामहे । सम्भजामहे । यदा च मानुषाणामस्माकं हव्या हवींष्यग्निः सम्सेवते तव तदानीं द्युम्नस्य द्योतमानस्यान्नस्य शवसा बलेन सामर्थ्येन ऋतस्योदकस्य ग्राहकं रश्मिमा ददे । आदत्तेऽग्निः । फलजनकं तेजः स्वीकृतवानित्यर्थः । यद्वा । ऋतस्य यज्ञस्य रश्मिं रश्मिवद्ग्राहकं स्तवमा ददे । स्वीकरोति ॥ ३ ॥

5.7.4
स स्मा᳚ कृणोति के॒तुमा नक्तं᳚ चिद्दू॒र आ स॒ते ।
पा॒व॒को यद्वन॒स्पती॒न्प्र स्मा᳚ मि॒नात्य॒जरः᳚ ॥
▶ पदपाठः (Word-by-word)
सः । स्म॒ । कृ॒णो॒ति॒ । के॒तुम् । आ । नक्त᳚म् । चि॒त् । दू॒रे । आ । स॒ते ।
पा॒व॒कः । यत् । वन॒स्पती᳚न् । प्र । स्म॒ । मि॒नाति᳚ । अ॒जरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

स स्म स खल्वग्निः कृणोति । करोति । केतुं प्रज्ञानमा सर्वतः । केस्येत्युच्यते । चिदप्यर्थे । नक्तं चिद्रात्रावपि दूर आ सते । आ इति चार्थे । दूरेऽपि वर्तमानाय मनुष्याय । कदा । यद्यदा पावकोऽयमग्निरजरोऽजीर्णोऽनभिभाव्यः सन् वनस्पतीनेधांसि प्र स्म मिनाति । प्रकर्षेण दहति । स्मेति पूरणः ॥ ४ ॥

5.7.5 समानपद
अव᳚ स्म॒ यस्य॒ वेष᳚णे॒ स्वेदं᳚ प॒थिषु॒ जुह्व᳚ति ।
अ॒भीमह॒ स्वजे᳚न्यं॒ भूमा᳚ पृ॒ष्ठेव᳚ रुरुहुः ॥
▶ पदपाठः (Word-by-word)
अव᳚ । स्म॒ । यस्य᳚ । वेष᳚णे । स्वेद᳚म् । प॒थिषु᳚ । जुह्व᳚ति ।
अ॒भि । ई॒म् । अह᳚ । स्व॑जे᳚न्यम् । भूम᳚ । पृ॒ष्ठा॑इ᳚व । रु॒रु॒हुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्याग्नेर्वेषणे परिचर्यायां पथिषु होममार्गेषु रश्मिषु स्वेदं स्रवदाज्यमवाधोमुखं जुह्वत्यध्वर्यवः तदानीमीमेनमग्निमभि रुरुहुरह । अभ्यारोहन्त्येवाज्यधाराः । अह इति विनिग्रहार्थीयः । स्वजेन्यं स्वोत्पन्नं भूम । बहु भवतिति भूमापत्यम् । तत्पृष्थेव पितुः पृष्ठदेशानिव । पुत्रा यथा पितुरङ्कमारोहन्ति तद्वत् ॥ ५ ॥

5.7.6 समानपद
यं मर्त्य᳚ः पुरु॒स्पृहं᳚ वि॒दद्विश्व᳚स्य॒ धाय᳚से ।
प्र स्वाद᳚नं पितू॒नामस्त᳚तातिं चिदा॒यवे᳚ ॥
▶ पदपाठः (Word-by-word)
यम् । मर्त्यः᳚ । पु॒रु॒॑स्पृह᳚म् । वि॒दत् । विश्व᳚स्य । धाय᳚से ।
प्र । स्वाद᳚नम् । पि॒तू॒नाम् । अस्त᳚॑तातिम् । चि॒त् । आ॒यवे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यमग्निं पुरुस्पृहं बहुभिः स्पृहणीयं विदत् । वेत्ति । मर्त्यो यजमानो विश्वस्य धायसे सर्वस्य व्याप्त्यर्थं पितूनामन्नानां प्र स्वादनं प्रकर्षेण स्वादूकर्तारमस्ततातिमस्ते गृहे निवासकर्तारमायवेऽन्नार्थं यजमानार्थं वा ॥ ६ ॥

5.7.7
स हि ष्मा॒ धन्वाक्षि᳚तं॒ दाता॒ न दात्या प॒शुः ।
हिरि᳚श्मश्रु॒ः शुचि᳚दन्नृ॒भुरनि᳚भृष्टतविषिः ॥
▶ पदपाठः (Word-by-word)
सः । हि । स्म॒ । धन्व᳚ । आ॑क्षि᳚तम् । दाता᳚ । न । दाति᳚ । आ । प॒शुः ।
हिरि᳚॑श्मश्रुः । शुचि᳚॑दन् । ऋ॒भुः । अनि᳚भृष्ट॑तविषिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

स हि ष्म स खल्वग्निर्धन्व निरुदकप्रदेशमाक्षितं तृणकाष्ठादिभिराक्षिप्तमा दाति । सर्वतः खण्डयति । दहतीत्यर्थः । दाता तृणादिखण्डयिता पशुर्न पशुरिव । पशुर्यथा तृणजातं क्रमेण भक्षयति तद्वत् । हिरिश्मश्रुर्हिरण्यश्मश्रुः शुचिदन् दीप्तदन्त ऋभुरुरु भवन् । महानित्यर्थः । अनिभृष्टतविषिरपीडितबलः ॥ ७ ॥

5.7.8 समानपद
शुचि᳚ः ष्म॒ यस्मा᳚ अत्रि॒वत्प्र स्वधि᳚तीव॒ रीय᳚ते ।
सु॒षूर᳚सूत मा॒ता क्रा॒णा यदा᳚न॒शे भग᳚म् ॥
▶ पदपाठः (Word-by-word)
शुचिः᳚ । स्म॒ । यस्मै᳚ । अ॒त्रि॒॑वत् । प्र । स्वधि᳚तिः॑इव । रीय᳚ते ।
सु॒॑सूः । अ॒सू॒त॒ । मा॒ता । क्रा॒णा । यत् । आ॒न॒शे । भग᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयमग्निः शुचिः ष्म दीप्तः खलु । यस्मा अग्नयेऽत्रिवदत्रिरिव यजमानो हविर्दातुं प्र रीयते । प्रगच्छति । यद्वा । स्मेति पूरणः । शुचिर्यस्मै । प्रथमार्थे चतुर्थी । दीप्तो योऽत्रिवत् । अत्ति तृणमित्यत्रिः पशुः । स इव । स यथा तृणानि खादमानो गच्छति तद्वद्दहतीत्यर्थः । स्वधितिरिव परशुरिव छिन्दन् । सुषूः सुप्रसवा मातरणिरसूत क्राणा कुर्वाणं जगदुपकारकम् । यद्यस्मात् य इति वा । योऽग्निर्भगमन्नमानशे । अश्नुते ॥ ८ ॥

5.7.9
आ यस्ते᳚ सर्पिरासु॒ते॑ग्ने॒ शमस्ति॒ धाय᳚से ।
ऐषु᳚ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये᳚षु धाः ॥
▶ पदपाठः (Word-by-word)
आ । यः । ते॒ । स॒र्पिः॒॑आ॒सु॒ते॒ । अग्ने᳚ । शम् । अस्ति᳚ । धाय᳚से ।
आ । ए॒षु॒ । द्यु॒म्नम् । उ॒त । श्रवः᳚ । आ । चि॒त्तम् । मर्त्ये᳚षु । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सर्पिरासुते घृताख्यान्नाग्ने यस्त्वमा सर्वतो भवसि तादृशाय धायसे सर्वस्य धात्रे ते तुभ्यं शमस्ति । सुखमस्ति । स्तुतेः सकाशात् । तथा चेत् । एषु मर्त्येषु स्तोतृष्वात्रेयेषु द्युम्नं यश आ धाः । आधेहि । उतपि च श्रवोऽन्नमा धाः । चित्तं त्वदीयामनुग्रहबुद्धिमप्या धाः ॥ ९ ॥

5.7.10
इति᳚ चिन्म॒न्युम॒ध्रिज॒स्त्वादा᳚त॒मा प॒शुं द᳚दे ।
आद᳚ग्ने॒ अपृ᳚ण॒तो॑त्रि᳚ः सासह्या॒द्दस्यू᳚नि॒षः सा᳚सह्या॒न्नॄन् ॥
▶ पदपाठः (Word-by-word)
इति᳚ । चि॒त् । म॒न्युम् । अ॒ध्रिजः᳚ । त्वा॑दा᳚तम् । आ । प॒शुम् । द॒दे॒ ।
आत् । अ॒ग्ने॒ । अपृ᳚णतः । अत्रिः᳚ । स॒स॒ह्या॒त् । दस्यू᳚न् । इ॒षः । स॒स॒ह्या॒त् । नॄन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इति चित् इत्थं कृतप्रकारेण मन्युं मननसाधनं स्तोत्रमद्रिजः । अधृतमन्यैरग्निव्यतिरिक्तैरधृष्यं वा जनयिता ऋषिस्त्वादातं त्वया दातव्यं पशुमा ददे । आदत्ते । आददीत वा । आदनन्तरमेवाग्नेरपृणतोऽददतो दस्यूनत्रिस्तद्गोत्र इषः सासह्यात् । भृशमभिभवेत् । इष एष्टॄन्नॄन् विरोधिनः सासह्यात् । पुनरुक्तिरादरार्था ॥ १० ॥