श्रवणम्

5.7.1
सखा᳚य॒ः सं वः᳚ स॒म्यञ्च॒मिषं॒ स्तोमं᳚ चा॒ग्नये᳚ ।
वर्षि᳚ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह᳚स्वते ॥
▶ पदपाठः (Word-by-word)
सखा᳚यः । सम् । वः॒ । स॒म्यञ्च᳚म् । इष᳚म् । स्तोम᳚म् । च॒ । अ॒ग्नये᳚ ।
वर्षि᳚ष्ठाय । क्षि॒ती॒नाम् । ऊ॒र्जः । नप्त्रे᳚ । सह᳚स्वते ॥
▶ सायणभाष्यम् (Sayana Commentary)

सखायः सं व इति दशर्चं सप्तमं सूक्तम् । आत्रेय इष ऋषिः । अन्त्या पङ्क्तिः शिष्टाः पङ्क्त्यन्तपरिभाषयानुष्टुभः । तथा चानुक्रान्तम् । सखाय इषः पङ्क्त्यन्तमिति । प्रातरनुवाक आग्नेये क्रतावानुष्टुभे च्छन्दस्याश्विनशस्त्रे चोत्तमावर्जमिदं सूक्तम् । सूत्रितं च । सखायः सं वस्त्वामग्ने हविष्मन्त इति सूक्ते । आ. ४-१३ । इति ॥

हे सखायः सखिभूता ऋत्विजो वो यूयं संस्कुरुत । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः । किञ्च सम्यञ्चमिषमन्नं स्तोमं स्तोत्रं चाग्नये वर्षिष्थायातिशयेन प्रवृद्धाय क्षितीनां यजमानानामर्थाय वर्षिष्थाय प्रवृद्धतमायोर्जो नप्त्रे बलस्य न पातयित्रे तत्पुत्राय वा सहस्वते बलवते संस्कुरुतेति ॥ १ ॥