पञ्चमं मण्डलम् - सूक्तम् 11

6 ऋचः

ऋषिः: सुतंभर आत्रेयः देवता: अग्निः छन्दः: जगती

सूक्तम् 5.11 - सम्पूर्णम्

1 / 6
ऋक्: 5.11.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
5.11.1 समानपद
जन᳚स्य गो॒पा अ᳚जनिष्ट॒ जागृ᳚विर॒ग्निः सु॒दक्ष᳚ः सुवि॒ताय॒ नव्य᳚से ।
घृ॒तप्र᳚तीको बृह॒ता दि᳚वि॒स्पृशा᳚ द्यु॒मद्वि भा᳚ति भर॒तेभ्य॒ः शुचि᳚ः ॥
▶ पदपाठः (Word-by-word)
जन᳚स्य । गो॒पाः । अ॒ज॒नि॒ष्ट॒ । जागृ᳚विः । अ॒ग्निः । सु॒॑दक्षः᳚ । सु॒वि॒ताय᳚ । नव्य᳚से ।
घृ॒त॑प्र᳚तीकः । बृ॒ह॒ता । दि॒वि॒॑स्पृशा᳚ । द्यु॒॑मत् । वि । भा॒ति॒ । भ॒र॒तेभ्यः᳚ । शुचिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

जनस्यगोपाःगोपायिता रक्षिता गागृविः जागरणशीलः सदाप्रबुद्धः सुदक्षः सुबलः सर्वैः श्लाघनीयबलः सोग्निः नव्यसे नवतराय सुविताय लोकानांकल्याणायअजनिष्टजातः घृतप्रतीकः घृतेनप्रज्वालितांगः बृहतामहतादिविस्पृशा अभ्रंलिहेनतेजसायुक्तः शुचिः शुद्धः एवं विधोग्निः भरतेभ्यः ऋत्विग्भ्यः तदर्थंद्युमत् दीप्तिमत् यथाभवतितथाविभाति प्रकाशते ॥ गोपाः गुपूरक्षणे आयः प्रत्ययः गोपायतेःक्विप् प्रत्वादकारलोपः अत्र परत्वादपृक्तलोपेकृते वर्णाश्रयत्वात्प्रत्ययलक्षणाभावेनयलोपोनस्यात् लोपोव्योर्वलीतिप्रथमं -लोपग्रहणात् ज्ञापकात् यलोपएवभवति लोपाजादेशस्य यलोपविधिंप्रतिनस्थानिवद्भावः प्रत्ययस्वरः । जागृविः जागृनिद्राक्षये जॄशॄस्तॄजागृभ्यः क्विन्नितिक्विन्प्रत्ययः जाग्रोविञ्चिण्णल्ङित्स्वितिप्रतिषेधाद्रुणाभावः नित्त्वादाद्युदात्तः । सुदक्षः आद्युदात्तंड्मच् छन्दसीत्युत्तरपदाद्युदात्तत्वम् । सुविताय तन्वादीनांछन्दस्युपसंख्यानमितिसोरुवङादेशः सूपमानात् क्तइत्युत्तरपदाद्युदात्तत्वम् । नव्यसे नवशब्दादतिशायनेर्थेईयसुन् प्रत्ययः ईकारलोपश्छान्दसः अतोलोपः आद्युदात्तः । दिविस्पृशा हृद्युभ्यांङेरित्युपसंख्यानमित्यलुक् कृदुत्तरपदप्रकृतिस्वरत्वम् । द्युमत् ह्रस्वनुड्भ्यांञतुबितिह्रस्वात्परस्यमतुपः अन्तोदात्तत्वम् ॥ १ ॥

5.11.2
य॒ज्ञस्य᳚ के॒तुं प्र᳚थ॒मं पु॒रोहि᳚तम॒ग्निं नर᳚स्त्रिषध॒स्थे समी᳚धिरे ।
इन्द्रे᳚ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता᳚ य॒जथा᳚य सु॒क्रतु᳚ः ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञस्य᳚ । के॒तुम् । प्र॒थ॒मम् । पु॒रः॑हि᳚तम् । अ॒ग्निम् । नरः᳚ । त्रि॒॑स॒ध॒स्थे । सम् । ई॒धि॒रे॒ ।
इन्द्रे᳚ण । दे॒वैः । स॒रथ᳚म् । सः । ब॒र्हिषि᳚ । सीद᳚त् । नि । होता᳚ । य॒जथा᳚य । सु॒॑क्रतुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरः ऋत्विजः यज्ञस्ययागस्यकेतुं प्रज्ञापकं पुरोहितं यजमानैःपुरस्कृतं इंद्रेण देवैश्च सरथं तेषां मान्यत्वात्समानरथं अग्निं त्रिसधस्थे त्रिस्थाने विहारप्रदेशे प्रथमं समीधिरे समैन्धत सुक्रतुः शोभनकर्माहोता देवानामाह्वाता सोग्निः बर्हिषि बर्हिर्युक्तेतस्मिन्स्थाने यजथाय यज्ञाय निषीदत् प्रतिष्ठितोभवदितियावत् ॥ केतुं कितज्ञाने औणादिकउप्रत्ययः अन्तोदात्तः । पुरोहितं पुरोव्ययमितिगतिसंज्ञायांगति- रनन्तरइतिपूर्वपदप्रकृतिस्वरत्वम् । त्रिषधस्थ आहवनी यादिलक्षणेनत्रिप्रकारेण अग्निनासह तिष्ठतीति -त्रिषधस्थः कप्रत्ययःसधमादस्थ- योश्छन्दसीतिसधादेशः कृदुत्तरपदकृतिस्वरत्वम् । सीदत् सदेः प्राघ्नदिनासीदादेशः बहुलंछन्दस्यमाङ्योगेपीत्यडभावः पादादित्वा- न्निघाताभावः । यजथाय यजेरौणादिकः अथप्रत्ययः प्रत्ययस्वरेणान्तोदात्तः ॥ २ ॥

5.11.3
अस᳚म्मृष्टो जायसे मा॒त्रोः शुचि᳚र्म॒न्द्रः क॒विरुद᳚तिष्ठो वि॒वस्व᳚तः ।
घृ॒तेन᳚ त्वावर्धयन्नग्न आहुत धू॒मस्ते᳚ के॒तुर᳚भवद्दि॒वि श्रि॒तः ॥
▶ पदपाठः (Word-by-word)
अस᳚म्॑मृष्टः । जा॒य॒से॒ । मा॒त्रोः । शुचिः᳚ । म॒न्द्रः । क॒विः । उत् । अ॒ति॒ष्ठः॒ । वि॒वस्व᳚तः ।
घृ॒तेन᳚ । त्वा॒ । अ॒व॒र्ध॒य॒न् । अ॒ग्ने॒ । आ॒॑हु॒त॒ । धू॒मः । ते॒ । के॒तुः । अ॒भ॒व॒त् । दि॒वि । श्रि॒तः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने मात्रोररण्योः स्वजनननिमित्तत्वादरणीमातरवित्युच्येते ताभ्यां असंमृष्टः अबाधितएवजायसे प्रादुर्भूतोभवसि मंद्रः सर्वैःस्तुत्यः कविः क्रान्तः सर्वत्रव्याप्तः अथवा मेधावी शुचिस्त्वं विवस्वतः अग्निहोत्रार्थं गृहे विशेशेणवसतोयजमानात् उदतिष्ठः उदितो भवः पूर्वेमहर्षयः त्वा त्वां घृतेन अवर्धयन् वृद्धिमनयन् हेआहुत आहुतिभिर्हुत ते तवदिवि अन्तरिक्षे श्रितोव्याप्तः धूमःकेतुः प्रज्ञापकोअभवत् अग्र्यनुमापकत्वात् धूमस्य ॥ मात्रोः उदात्तयणोहल् पूर्वादितिविभक्तेरुदात्तत्वम् । मन्द्रः मदिस्तुतिमोदमदस्वप्रकान्तिगतिषु अत्रस्तुत्यर्थादस्मात् स्फायितंचीत्यादिनारक् अन्तोदात्तः । कविः कमेरिन् सर्वधातुभ्यइतीन् प्रत्ययः बाहुलकान्मकारस्यवत्वंरेफलोपश्च व्यत्ययेनान्तोदात्तत्वम् । उदतिष्ठः उत्पूर्वादूर्ध्वकर्मवाचिनस्तिष्ठतेरात्मनेपदाभावः । विवस्वतः विपूर्वाद्वसतेःसंपदादिलक्षणोभावेक्विप् तदस्यास्तीतिमतुप् मादुपधायाश्चेतिवत्वं मतुपोनुदात्तत्वाद्धातुस्वरः ॥ ३ ॥

5.11.4
अ॒ग्निर्नो᳚ य॒ज्ञमुप᳚ वेतु साधु॒याग्निं नरो॒ वि भ᳚रन्ते गृ॒हेगृ᳚हे ।
अ॒ग्निर्दू॒तो अ᳚भवद्धव्य॒वाह᳚नो॒॑ग्निं वृ᳚णा॒ना वृ᳚णते क॒विक्र᳚तुम् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । नः॒ । य॒ज्ञम् । उप᳚ । वे॒तु॒ । सा॒धु॒॑या । अ॒ग्निम् । नरः᳚ । वि । भ॒र॒न्ते॒ । गृ॒हे॑गृ᳚हे ।
अ॒ग्निः । दू॒तः । अ॒भ॒व॒त् । ह॒व्य॒॑वाह᳚नः । अ॒ग्निम् । वृ॒णा॒नाः । वृ॒ण॒ते॒ । क॒वि॑क्र᳚तुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

साधुया सर्वपुरुषार्थानांसाधकः अग्निर्नोयज्ञेअस्मदीयंयागंप्रति उपवेतु आगच्छतु नरः मनुष्याः गृहेगृहे अनुगृहं अग्निंविभरन्ते विहरन्ति विहरणंकुर्वंतीत्यर्थः हव्यवाहनः हव्यानांहविषांवोढाअग्निः दूतः देवानांदूतः अभवत् वृणानाः संभजमानाःसन्तः कविक्रतुं क्रान्तयज्ञं अग्निंवृणते संभजन्ते ॥ साधुया सुपांसुलुगित्यादिनाविभक्तेर्यादेशः ॥ ४ ॥

5.11.5
तुभ्ये॒दम᳚ग्ने॒ मधु᳚मत्तमं॒ वच॒स्तुभ्यं᳚ मनी॒षा इ॒यम᳚स्तु॒ शं हृ॒दे ।
त्वां गिर॒ः सिन्धु᳚मिवा॒वनी᳚र्म॒हीरा पृ᳚णन्ति॒ शव᳚सा व॒र्धय᳚न्ति च ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚ । इ॒दम् । अ॒ग्ने॒ । मधु᳚मत्॑तमम् । वचः᳚ । तुभ्य᳚म् । म॒नी॒षा । इ॒यम् । अ॒स्तु॒ । शम् । हृ॒दे ।
त्वाम् । गिरः᳚ । सिन्धु᳚म्॑इव । अ॒वनीः᳚ । म॒हीः । आ । पृ॒ण॒न्ति॒ । शव᳚सा । व॒र्धय᳚न्ति । च॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने तुभ्य तुभ्यं त्वदर्थं मधुमत्तमं अत्यन्तमधुरंइदंवचः क्रियते हृदे हृदि शंसुखंकुर्वती इयंमनीषास्तुतिः तुभ्यमस्तु गिरःस्तुतिरूपावाचःत्वांआपृणन्ति पूरयन्ति शवसाबलेनवर्धयन्तिच कथमिव महीः महत्यः अवनीः अवन्योनद्यः सिन्धुमिव समुद्रमिव ॥ ५ ॥

5.11.6
त्वाम᳚ग्ने॒ अङ्गि᳚रसो॒ गुहा᳚ हि॒तमन्व᳚विन्दञ्छिश्रिया॒णं वने᳚वने ।
स जा᳚यसे म॒थ्यमा᳚न॒ः सहो᳚ म॒हत्त्वामा᳚हु॒ः सह᳚सस्पु॒त्रम᳚ङ्गिरः ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । अङ्गि᳚रसः । गुहा᳚ । हि॒तम् । अनु᳚ । अ॒वि॒न्द॒न् । शि॒श्रि॒या॒णम् । वने᳚॑वने ।
सः । जा॒य॒से॒ । म॒थ्यमा᳚नः । सहः᳚ । म॒हत् । त्वाम् । आ॒हुः॒ । सह᳚सः । पु॒त्रम् । अ॒ङ्गि॒रः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने अंगिरसऋषयः गुहा गुहायां हितं निहितं निगूढं वनेवने वृक्षेवृक्षे शिश्रियाणं आश्रितं त्वां अन्वविंदन् अलभन्त महत् महता सहः सहसा बलेनयुक्तः सत्वं मथ्यमानोजायसे हेअंगिरः अंगिरसांप्रकृतिभूत त्वांसहसस्पुत्रमाहुः ॥ शिश्रियाणं श्रिञ् सेवायां लिटःकानच् शपःश्लुः श्लावितिद्विर्वचनं इयङादेशः चित्त्वादन्तोदात्तः ॥ ६ ॥

प्राग्नयेबृहतइतिषळृचंद्वादशंसूक्तं सुतंभरस्यार्षंत्रैष्टुभमाग्नेयं प्राग्नायइत्यनुक्रान्तम् । प्रातरनुवाकेआग्नेयेक्रतौत्रै ष्टुभेछन्दसि आश्विन –शस्त्रेचेदंसूक्तं सूत्रितंच-प्राग्नयेबृहतेप्रवेधसेकवयइति ।