पञ्चमं मण्डलम् - सूक्तम् 16

5 ऋचः

ऋषिः: पूरुरात्रेयः देवता: अग्निः छन्दः: अनुष्टुप्

सूक्तम् 5.16 - सम्पूर्णम्

1 / 5
ऋक्: 5.16.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
5.16.1 समानपद
बृ॒हद्वयो॒ हि भा॒नवे॑र्चा᳚ दे॒वाया॒ग्नये᳚ ।
यं मि॒त्रं न प्रश᳚स्तिभि॒र्मर्ता᳚सो दधि॒रे पु॒रः ॥
▶ पदपाठः (Word-by-word)
बृ॒हत् । वयः᳚ । हि । भा॒नवे᳚ । अर्च᳚ । दे॒वाय᳚ । अ॒ग्नये᳚ ।
यम् । मि॒त्रम् । न । प्रश᳚स्ति॑भिः । मर्ता᳚सः । द॒धि॒रे । पु॒रः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यज्ञे भानवे दीप्तिमते अग्नये बृहत् महते वयोहवीरूपमन्नंदीयतेहि अतस्त्वमपिदेवायद्योतमानायाग्नये अर्च प्रयच्छ मर्तासोमनुष्याःयमग्निंमित्रंन सखायमिव प्रशस्तिभिः प्रकृष्टाभिःस्तुतिभिः पुरोदधिरे पुरस्कुर्वन्ति ॥ १ ॥

5.16.2
स हि द्युभि॒र्जना᳚नां॒ होता॒ दक्ष᳚स्य बा॒ह्वोः ।
वि ह॒व्यम॒ग्निरा᳚नु॒षग्भगो॒ न वार᳚मृण्वति ॥
▶ पदपाठः (Word-by-word)
सः । हि । द्यु॑भिः᳚ । जना᳚नाम् । होता᳚ । दक्ष᳚स्य । बा॒ह्वोः ।
वि । ह॒व्यम् । अ॒ग्निः । आ॒नु॒षक् । भगः᳚ । न । वार᳚म् । ऋ॒ण्व॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निर्हव्यं हविः आनुषक् देवेष्वनुषक्तंकरोति बाह्वोर्भुजयोर्दक्षस्यबलस्यद्युभिः द्युतिभिर्युक्तःसोग्निः जनानांयजमानानांहोता देवानामाह्वाताभवति भगोन सूर्यइव वारं वरणीयंधनं न्यृण्वति विशेषेणप्रयच्छतिमनुष्येषु ॥ २ ॥

5.16.3
अ॒स्य स्तोमे᳚ म॒घोनः᳚ स॒ख्ये वृ॒द्धशो᳚चिषः ।
विश्वा॒ यस्मि᳚न्तुवि॒ष्वणि॒ सम॒र्ये शुष्म᳚माद॒धुः ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । स्तोमे᳚ । म॒घोनः᳚ । स॒ख्ये । वृ॒द्ध॑शो᳚चिषः ।
विश्वा᳚ । यस्मि᳚न् । तु॒वि॒॑स्वनि᳚ । सम् । अ॒र्ये । शुष्म᳚म् । आ॒॑द॒धुः ॥
▶ सायणभाष्यम् (Sayana Commentary)

मघोनोमघवतोधनवतः वृद्धशोचिषः वृद्धानिप्रवृद्धानिशोचींषितेजांसियस्यासौवृद्धशोचिः तस्यएवंविधस्यास्याग्नेः स्तोमे स्तोत्रे सख्येचस्याम तुविष्वणि बहुशब्दे अर्येस्वामिनि यस्मिन्नग्नौविश्वा सुपांसुलुगितिडादेशः विश्वेसर्वेऋत्विजः शुष्मंबलं हविर्भिःस्तोत्रैः समादधुः सम्यगादधति ॥ ३ ॥

5.16.4
अधा॒ ह्य᳚ग्न एषां सु॒वीर्य᳚स्य मं॒हना᳚ ।
तमिद्य॒ह्वं न रोद᳚सी॒ परि॒ श्रवो᳚ बभूवतुः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । हि । अ॒ग्ने॒ । ए॒षा॒म् । सु॒॑वीर्य᳚स्य । मं॒हना᳚ ।
तम् । इत् । य॒ह्वम् । न । रोद᳚सी॒ इति᳚ । परि᳚ । श्रवः᳚ । ब॒भू॒व॒तुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने अध अथ एषामस्माकंयजमानानांसुवीर्यस्य सर्वैःस्पृहणीयस्य बलस्य मंहना मंहनायै दानायभव मंहतिर्दानकर्मा रोदसीद्यावापृथिव्यौ यह्वंन महान्तंसूर्यमिव श्रवःसर्वैः श्रवणीयंतमित् तमग्निमेवपरिबभूवतुः परिगृह्णीतः ॥ ४ ॥

5.16.5
नू न॒ एहि॒ वार्य॒मग्ने᳚ गृणा॒न आ भ᳚र ।
ये व॒यं ये च᳚ सू॒रयः᳚ स्व॒स्ति धाम᳚हे॒ सचो॒तैधि᳚ पृ॒त्सु नो᳚ वृ॒धे ॥
▶ पदपाठः (Word-by-word)
नु । नः॒ । आ । इ॒हि॒ । वार्य᳚म् । अग्ने᳚ । गृ॒णा॒नः । आ । भ॒र॒ ।
ये । व॒यम् । ये । च॒ । सू॒रयः᳚ । स्व॒स्ति । धाम᳚हे । सचा᳚ । उ॒त । ए॒धि॒ । पृ॒त्॑सु । नः॒ । वृ॒धे ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने गृणानः स्तूयमानःसन् नुक्षिप्रं एहि यज्ञंप्रत्यागच्छ आगत्यच नोस्मभ्यंवार्यंवरणीयंधनं आभर संपादय येवयंयजमानाः येचसूरयः स्तोतारः सचाहविर्भिः सहिता उभे ये वयं स्वस्ति स्तोत्रंधामहे कुर्मः उतअपिच पृत्सु पृतनासुनोस्माकंवृधेसमृद्धये एधि भव ॥ ५ ॥

आयज्ञैरितिपंचर्चंतृतीयंसूक्तं आत्रेयस्यपूरोरार्षमाग्नेयम् अंत्यापंक्तिः शिष्टाः पंक्त्यंतपरिभाषयाअनुष्टुभः आयज्ञैरित्यनुक्रमणिका अंत्यावर्जंप्रातरनुवाकाश्विनशस्त्रयोर्बृहद्वयइत्यादिदशसूक्तमध्येविनियोगउक्तः ।