पञ्चमं मण्डलम् - सूक्तम् 79

10 ऋचः

ऋषिः: सत्यश्रवा आत्रेयः देवता: उषाः छन्दः: पंक्तिः

सूक्तम् 5.79 - सम्पूर्णम्

1 / 10
ऋक्: 5.79.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
5.79.1
म॒हे नो᳚ अ॒द्य बो᳚ध॒योषो᳚ रा॒ये दि॒वित्म᳚ती ।
यथा᳚ चिन्नो॒ अबो᳚धयः स॒त्यश्र᳚वसि वा॒य्ये सुजा᳚ते॒ अश्व᳚सूनृते ॥
▶ पदपाठः (Word-by-word)
म॒हे । नः॒ । अ॒द्य । बो॒ध॒य॒ । उषः᳚ । रा॒ये । दि॒वित्म᳚ती ।
यथा᳚ । चि॒त् । नः॒ । अबो᳚धयः । स॒त्य॑श्र᳚वसि । वा॒य्ये । सु॑जा᳚ते । अश्व᳚॑सूनृते ॥
▶ सायणभाष्यम् (Sayana Commentary)

अद्यास्मिन्यागदिने हेउषः उषोदेवि दिवित्मती दीप्तिमती त्वंनोस्मान् महे महते राये धनप्राप्तये बोधय प्रज्ञापय प्रकाशयेत्यर्थः सतिप्रकाशे क्रतुद्वाराद्रव्यस्योपार्जयितुंशक्यत्वात् यथाचित् यथैवपूर्वंनोस्मानबोधयः अतोतेषुदिवसेषुयथाबोधितवती तद्वत् अद्यापीत्य- र्थः हेसुजाते शोभनप्रादुर्भूते अश्वसूनृते अश्वार्थाप्रियसत्यात्मिकास्तुतिर्वाग्यस्याः सा हेतादृशिदेवि वाय्ये वभ्यपुत्रे सत्यश्रवसिमयि अनुगृ- हाणेत्यर्थः ॥ १ ॥

5.79.2
या सु᳚नी॒थे शौ᳚चद्र॒थे व्यौच्छो᳚ दुहितर्दिवः ।
सा व्यु᳚च्छ॒ सही᳚यसि स॒त्यश्र᳚वसि वा॒य्ये सुजा᳚ते॒ अश्व᳚सूनृते ॥
▶ पदपाठः (Word-by-word)
या । सु॒॑नी॒थे । शौ॒च॒त्॑र॒थे । वि । औच्छः᳚ । दु॒हि॒तः॒ । दि॒वः॒ ।
सा । वि । उ॒च्छ॒ । सही᳚यसि । स॒त्य॑श्र᳚वसि । वा॒य्ये । सु॑जा᳚ते । अश्व᳚॑सूनृते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदिवोदुहितः दिवः सूर्यस्यपुत्रीउषः यात्वं सुनीथे एतन्नामके शोचद्रथे शुचद्रथस्यापत्ये पूर्वंव्यौच्छः व्यवासयस्तमांसि सात्वं सहीय- सि अतिशयेनबलवति वाय्ये वय्यपुत्रे सत्यश्रवसि मयि व्युच्छ तमोविवासय उच्छीविवासे विवासोवर्जनं शिष्टमुक्तम् ॥ २ ॥

5.79.3
सा नो᳚ अ॒द्याभ॒रद्व᳚सु॒र्व्यु᳚च्छा दुहितर्दिवः ।
यो व्यौच्छ॒ः सही᳚यसि स॒त्यश्र᳚वसि वा॒य्ये सुजा᳚ते॒ अश्व᳚सूनृते ॥
▶ पदपाठः (Word-by-word)
सा । नः॒ । अ॒द्य । आ॒भ॒रत्॑व᳚सुः । वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
यो इति᳚ । वि । औच्छः᳚ । सही᳚यसि । स॒त्य॑श्र᳚वसि । वा॒य्ये । सु॑जा᳚ते । अश्व᳚॑सूनृते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदुहितर्दिवःउषः आभरद्वसुः आहृतधना सा प्रसिद्धात्वं नोस्माकं अद्यास्मिन् दिने व्युच्छ तमोविवासय हेसहीयसि यो या उकारोन- र्थकः यात्वं पूर्वं व्यौच्छः साद्यापीति ॥ ३ ॥

5.79.4
अ॒भि ये त्वा᳚ विभावरि॒ स्तोमै᳚र्गृ॒णन्ति॒ वह्न᳚यः ।
म॒घैर्म᳚घोनि सु॒श्रियो॒ दाम᳚न्वन्तः सुरा॒तय॒ः सुजा᳚ते॒ अश्व᳚सूनृते ॥
▶ पदपाठः (Word-by-word)
अ॒भि । ये । त्वा॒ । वि॒भा॒॑व॒रि॒ । स्तोमैः᳚ । गृ॒णन्ति᳚ । वह्न᳚यः ।
म॒घैः । म॒घो॒नि॒ । सु॒॑श्रियः᳚ । दाम᳚न्॑वन्तः । सु॒॑रा॒तयः᳚ । सु॑जा᳚ते । अश्व᳚॑सूनृते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेविभावरि प्रकाशोपेते विभाशब्दाच्छन्दसीवनिपावितिवनिप् भातेर्वाकर्तरिवनिप् उषः त्वा त्वां अभिप्रति येवह्नयोवोढारऋ- त्विजः स्तोतारः स्तोमैः स्तोत्रैः गृणन्ति स्तुवन्ति तेस्तोतारोमघैः हेमघोनि धनैर्धनवति त्वदनुग्रहात् सुश्रियोभवन्ति सुष्ठुअर्थिभिराश्र- यणीयाभवन्ति दामन्वन्तोदानवन्तोभवन्ति सुरातयः रातिर्दानं सुदानाश्चभवन्ति ॥ ४ ॥

5.79.5
यच्चि॒द्धि ते᳚ ग॒णा इ॒मे छ॒दय᳚न्ति म॒घत्त᳚ये ।
परि᳚ चि॒द्वष्ट᳚यो दधु॒र्दद᳚तो॒ राधो॒ अह्र᳚यं॒ सुजा᳚ते॒ अश्व᳚सूनृते ॥
▶ पदपाठः (Word-by-word)
यत् । चि॒त् । हि । ते॒ । ग॒णाः । इ॒मे । छ॒दय᳚न्ति । म॒घत्त᳚ये ।
परि᳚ । चि॒त् । वष्ट᳚यः । द॒धुः॒ । दद᳚तः । राधः᳚ । अह्र᳚यम् । सु॑जा᳚ते । अश्व᳚॑सूनृते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेउषः यच्चिद्धीतिपूरणः यत् येकेचन तेतव स्वभूताइमे पुरतोवर्तमानागणाः संघभूताः मघत्तये धनदातये धनदानाय धनवत्त्वायवा छदयन्ति उपच्छन्दयन्ति तेसर्वेपि अस्मान् परिदधुः परितोधारयन्ति वष्टयश्चिदस्मानेव कामयमानाः किंकुर्वन्तः अह्रयं अह्रियमाणं अ- क्षीणं अलज्जावहंवा राधोधनं हविर्लक्षणं ददतोयजन्तइत्यर्थः अर्थिभ्योक्षीणंददतोवा ये त्वां हविर्ददतः स्तुवन्ति तेसर्वेप्यस्मदर्थमेवबलं- धारयन्ति स्तुवन्तीत्यर्थः अथवा यद्धईत्यत्र यद्यपीतिव्याख्येयं तस्मिन् पक्षे उत्तरवाक्ये तथापीत्यध्याहार्यं अवशिष्टंसमानम् ॥ ५ ॥

5.79.6
ऐषु᳚ धा वी॒रव॒द्यश॒ उषो᳚ मघोनि सू॒रिषु᳚ ।
ये नो॒ राधां॒स्यह्र᳚या म॒घवा᳚नो॒ अरा᳚सत॒ सुजा᳚ते॒ अश्व᳚सूनृते ॥
▶ पदपाठः (Word-by-word)
आ । ए॒षु॒ । धाः॒ । वी॒र॑व᳚त् । यशः᳚ । उषः᳚ । म॒घो॒नि॒ । सू॒रिषु᳚ ।
ये । नः॒ । राधां᳚सि । अह्र᳚या । म॒घ॑वा᳚नः । अरा᳚सत । सु॑जा᳚ते । अश्व᳚॑सूनृते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेउषोदेवि मघोनि मघवति त्वं सूरिषुयागप्रेरकेषुयजमानेषु स्तोतृषुवा वीरवद्यशः वीरेः पुत्रादिभिरुपेतं अन्नंयशोवा आधाः आधेहि- आदेहि आनय येमघवानोधनवन्तः सूरयोनोस्मभ्यं तवस्तोतृभ्योराधांसि धनानि अह्रया अक्षीणानि अरासत ददुस्तेष्वित्यर्थः ॥ ६ ॥

5.79.7
तेभ्यो᳚ द्यु॒म्नं बृ॒हद्यश॒ उषो᳚ मघो॒न्या व᳚ह ।
ये नो॒ राधां॒स्यश्व्या᳚ ग॒व्या भज᳚न्त सू॒रय॒ः सुजा᳚ते॒ अश्व᳚सूनृते ॥
▶ पदपाठः (Word-by-word)
तेभ्यः᳚ । द्यु॒म्नम् । बृ॒हत् । यशः᳚ । उषः᳚ । म॒घो॒नि॒ । आ । व॒ह॒ ।
ये । नः॒ । राधां᳚सि । अश्व्या᳚ । ग॒व्या । भज᳚न्त । सू॒रयः᳚ । सु॑जा᳚ते । अश्व᳚॑सूनृते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेउषोमघोनि त्वं तेभ्योद्युम्नं द्योतमानं हिरण्यादिरूपंधनं बृहद्यशोमहदन्नं महतींकीर्तिं वा तेभ्योयजमानेभ्यआवह ये आढ्यानोस्मभ्यं राधांसि धनानि अश्व्या अश्वैर्युक्तानि गव्या गोभिर्युक्तानि गोसमूहानश्वसमूहांश्च भजन्त भजेरन् ददुः सूरयोदातारः ॥ ७ ॥

5.79.8
उ॒त नो॒ गोम᳚ती॒रिष॒ आ व᳚हा दुहितर्दिवः ।
सा॒कं सूर्य᳚स्य र॒श्मिभि᳚ः शु॒क्रैः शोच᳚द्भिर॒र्चिभि॒ः सुजा᳚ते॒ अश्व᳚सूनृते ॥
▶ पदपाठः (Word-by-word)
उ॒त । नः॒ । गो॑म᳚तीः । इषः᳚ । आ । व॒ह॒ । दु॒हि॒तः॒ । दि॒वः॒ ।
सा॒कम् । सूर्य᳚स्य । र॒श्मि॑भिः᳚ । शु॒क्रैः । शोच᳚त्॑भिः । अ॒र्चि॑भिः᳚ । सु॑जा᳚ते । अश्व᳚॑सूनृते ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच नोस्मभ्यं गोमतीर्गोभिरुपेतानि इषोन्नानि आवह आनय हेदिवोदुहितरुषः कदा सूर्यस्यरश्मिभिःसाकं शोचद्भिर्दीपयद्भिः शुक्रैर्निर्मलैरर्चिभिः अग्नेस्तेजोभिश्चसाकं सूर्योदयकाले अग्नीन्धनकालेचेत्यर्थः ॥ ८ ॥

5.79.9
व्यु᳚च्छा दुहितर्दिवो॒ मा चि॒रं त᳚नुथा॒ अपः᳚ ।
नेत्त्वा᳚ स्ते॒नं यथा᳚ रि॒पुं तपा᳚ति॒ सूरो᳚ अ॒र्चिषा॒ सुजा᳚ते॒ अश्व᳚सूनृते ॥
▶ पदपाठः (Word-by-word)
वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ । मा । चि॒रम् । त॒नु॒थाः॒ । अपः᳚ ।
न । इत् । त्वा॒ । स्ते॒नम् । यथा᳚ । रि॒पुम् । तपा᳚ति । सूरः᳚ । अ॒र्चिषा᳚ । सु॑जा᳚ते । अश्व᳚॑सूनृते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदिवोदुहितरुषः त्वं व्युच्छ विभातंकुरु अपोस्मदीयंकर्म प्रतिचिरं विलंबंमातनुथाः त्वा त्वां रिपुं स्तेनं यथासंतापयतिराजादिः तद्वत् सूरः सूर्यः अर्चिषा तेजसा नेत् नैवतपाति तप्यात् शीघ्रंनोदेत्वित्यर्थः ॥ ९ ॥

5.79.10
ए॒ताव॒द्वेदु᳚ष॒स्त्वं भूयो᳚ वा॒ दातु᳚मर्हसि ।
या स्तो॒तृभ्यो᳚ विभावर्यु॒च्छन्ती॒ न प्र॒मीय᳚से॒ सुजा᳚ते॒ अश्व᳚सूनृते ॥
▶ पदपाठः (Word-by-word)
ए॒ताव᳚त् । वा॒ । इत् । उ॒षः॒ । त्वम् । भूयः᳚ । वा॒ । दातु᳚म् । अ॒र्ह॒सि॒ ।
या । स्तो॒तृ॑भ्यः᳚ । वि॒भा॒॑व॒रि॒ । उ॒च्छन्ती᳚ । न । प्र॒॑मीय᳚से । सु॑जा᳚ते । अश्व᳚॑सूनृते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेउषः त्वं अस्मभ्यं वा अथवा दित्सितं किमेतावदेव इच्छब्दएवकारार्थः अस्मिन्त्सूक्ते प्रार्थितमेवेत्यर्थः अथवा भूयोदातुमर्हसि अप्रार्थितमपियद्दातव्यमस्तितत्सर्वंदेहीत्यर्थः हे विभावरिउषः यात्वं स्तोतृभ्यस्तेषांलौकिकवैदिकव्यवहारार्थं व्युच्छन्तीतमोविवासय- न्ती नप्रमीयसे नहन्ति नक्रुध्यसीत्यर्थः सात्वंदातुमर्हसीति मीञहिंसायामित्यस्मात् श्नास्थानेव्यत्ययेनश्यन् ॥ १० ॥

द्युतद्यामानमितिषळृचमष्टमंसूक्तं अत्रानुक्रमणिका-द्युतद्यामानंषळिति । सत्यश्रवाऋषिः अनुक्तत्वान्त्रिष्टुप् उषस्यंत्वित्युक्तत्वा- दुषोदेवता प्रातरनुवाकेउषस्येक्रतौत्रैष्टुभेछन्दसिआंश्विनशस्त्रेचेदंसूक्तं सूत्रितंच-द्युतद्यामानमुषोवाजेनेति ।