श्रवणम्

5.79.9
व्यु᳚च्छा दुहितर्दिवो॒ मा चि॒रं त᳚नुथा॒ अपः᳚ ।
नेत्त्वा᳚ स्ते॒नं यथा᳚ रि॒पुं तपा᳚ति॒ सूरो᳚ अ॒र्चिषा॒ सुजा᳚ते॒ अश्व᳚सूनृते ॥
▶ पदपाठः (Word-by-word)
वि । उ॒च्छ॒ । दु॒हि॒तः॒ । दि॒वः॒ । मा । चि॒रम् । त॒नु॒थाः॒ । अपः᳚ ।
न । इत् । त्वा॒ । स्ते॒नम् । यथा᳚ । रि॒पुम् । तपा᳚ति । सूरः᳚ । अ॒र्चिषा᳚ । सु॑जा᳚ते । अश्व᳚॑सूनृते ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेदिवोदुहितरुषः त्वं व्युच्छ विभातंकुरु अपोस्मदीयंकर्म प्रतिचिरं विलंबंमातनुथाः त्वा त्वां रिपुं स्तेनं यथासंतापयतिराजादिः तद्वत् सूरः सूर्यः अर्चिषा तेजसा नेत् नैवतपाति तप्यात् शीघ्रंनोदेत्वित्यर्थः ॥ ९ ॥