पञ्चमं मण्डलम् - सूक्तम् 68

5 ऋचः

ऋषिः: यजत आत्रेयः देवता: मित्रावरुणौ छन्दः: गायत्री

सूक्तम् 5.68 - सम्पूर्णम्

1 / 5
ऋक्: 5.68.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
5.68.1
प्र वो᳚ मि॒त्राय᳚ गायत॒ वरु᳚णाय वि॒पा गि॒रा ।
महि᳚क्षत्रावृ॒तं बृ॒हत् ॥
▶ पदपाठः (Word-by-word)
प्र । वः॒ । मि॒त्राय᳚ । गा॒य॒त॒ । वरु᳚णाय । वि॒पा । गि॒रा ।
महि᳚॑क्षत्रौ । ऋ॒तम् । बृ॒हत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमदीयाऋत्विजः वोयूयमित्यर्थः मित्रायवरुणायच विपा व्याप्तया गिरा स्तुत्या प्रगायत स्तुतिंकुरुत स्तुत्यास्तुवतेत्येतत्पाकंपचती- तिवत् हेमहिक्षत्रौ प्रभूतबलौ युवां ऋतं यज्ञं बृहत् महत् अतिप्रशस्तंस्तुत्यर्थमागच्छतमितिशेषः अथवा महत्प्रभूतं ऋतं स्तोत्रं श्रृणु- तमितिशेषः ॥ १ ॥

5.68.2
स॒म्राजा॒ या घृ॒तयो᳚नी मि॒त्रश्चो॒भा वरु᳚णश्च ।
दे॒वा दे॒वेषु᳚ प्रश॒स्ता ॥
▶ पदपाठः (Word-by-word)
स॒म्॑राजा᳚ । या । घृ॒तयो᳚नी॒ इति᳚ घृ॒त॑यो᳚नी । मि॒त्रः । च॒ । उ॒भा । वरु᳚णः । च॒ ।
दे॒वा । दे॒वेषु᳚ । प्र॒॑श॒स्ता ॥
▶ सायणभाष्यम् (Sayana Commentary)

या यौमित्रश्चवरुणश्च परस्परापेक्षयाचशब्दः उभा उभौ सम्राजा सर्वस्यस्वामिनौ घृतयोनी उदकस्योत्पदकौ देवौ द्योतमानौ देवेषु- मध्ये प्रशस्ता प्रकर्षेणस्तुत्यौ तौ गायतेतिपूर्वत्रान्वयः ॥ २ ॥

5.68.3
ता नः᳚ शक्तं॒ पार्थि᳚वस्य म॒हो रा॒यो दि॒व्यस्य᳚ ।
महि᳚ वां क्ष॒त्रं दे॒वेषु᳚ ॥
▶ पदपाठः (Word-by-word)
ता । नः॒ । श॒क्त॒म् । पार्थि᳚वस्य । म॒हः । रा॒यः । दि॒व्यस्य᳚ ।
महि᳚ । वा॒म् । क्ष॒त्रम् । दे॒वेषु᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ता तौ देवौ नोस्मदर्थं पार्थिवस्य पृथिवीसंबद्धस्य दिव्यस्य दिविभवस्यच महोमहतोरायोधनस्य शक्तं समर्थौभवतं दातुमितिशेषः हेदेवौ वांयुवयोर्महि महत्पूज्यं क्षत्रं बलं देवेषु प्रसिद्धंस्तुमइतिशेषः ॥ ३ ॥

5.68.4
ऋ॒तमृ॒तेन॒ सप᳚न्तेषि॒रं दक्ष᳚माशाते ।
अ॒द्रुहा᳚ दे॒वौ व᳚र्धेते ॥
▶ पदपाठः (Word-by-word)
ऋ॒तम् । ऋ॒तेन᳚ । सप᳚न्ता । इ॒षि॒रम् । दक्ष᳚म् । आ॒शा॒ते॒ इति᳚ ।
अ॒द्रुहा᳚ । दे॒वौ । व॒र्धे॒ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतेनोदकेननिमित्तेन ऋतं यज्ञं सपन्ता स्पृशन्तौ इषिरं एषणवन्तं दक्षं प्रवृद्धं यजमानं हविर्वा आशाते व्याप्नुतः अद्रुहा अद्रोग्धारौ देवौ मित्रावरुणौ युवांवर्धेते प्रवृद्धौभवतः ॥ ४ ॥

5.68.5
वृ॒ष्टिद्या᳚वा री॒त्या᳚पे॒षस्पती॒ दानु᳚मत्याः ।
बृ॒हन्तं॒ गर्त᳚माशाते ॥
▶ पदपाठः (Word-by-word)
वृ॒ष्टि॑द्या᳚वा । री॒ति॑आ᳚पा । इ॒षः । पती॒ इति᳚ । दानु᳚॑मत्याः ।
बृ॒हन्त᳚म् । गर्त᳚म् । आ॒शा॒ते॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृष्टिद्यावा वृष्ट्यर्थाद्यौःस्तुतिर्ययोस्तौवृष्टिद्यावा अथवा वृष्टिर्वर्षिका द्यौरन्तरिक्षं याभ्यां तौ तादृशौ रीत्यापा रीगतिरेषणयोः रीतिः प्राप्तिः सैवआपाआप्तिरभिमतप्राप्तिर्ययोस्तौ तादृशौ इषोन्नस्य पती स्वामिनौ वृष्टिप्रदत्वात् स्वामित्वं दानुमत्याः दानवत्याः दा- तृषुउचितायाइत्यर्थः एतदिड्विशेषणं एवंमहानुभावौ बृहन्तं महान्तं गर्तं रथमाशातेव्याप्नुतः अधितिष्ठतोयागार्थं ॥ ५ ॥

त्रीरोचनेतिचतुरृचंत्रयोदशंसूक्तं उरुचक्रिर्नामात्रेयऋषिः त्रिष्टुप् मित्रावरुणौदेवता अनुक्रम्यतेच-त्रीरोचनाचतुष्कमुरुचक्रिरिति । विनियोगोलैंगिकः ।