पञ्चमं मण्डलम् - सूक्तम् 83

10 ऋचः

ऋषिः: भौमोत्रिः देवता: पर्जन्यः छन्दः: त्रिष्टुप्

सूक्तम् 5.83 - सम्पूर्णम्

1 / 10
ऋक्: 5.83.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
5.83.1
अच्छा᳚ वद त॒वसं᳚ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि᳚वास ।
कनि᳚क्रदद्वृष॒भो जी॒रदा᳚नू॒ रेतो᳚ दधा॒त्योष᳚धीषु॒ गर्भ᳚म् ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । व॒द॒ । त॒वस᳚म् । गीः॒॑भिः । आ॒भिः । स्तु॒हि । प॒र्जन्य᳚म् । नम᳚सा । आ । वि॒वा॒स॒ ।
कनि᳚क्रदत् । वृ॒ष॒भः । जी॒र॑दा᳚नुः । रेतः᳚ । द॒धा॒ति॒ । ओष᳚धीषु । गर्भ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्तोतस्तवसं बलवन्तं पर्जन्यं अच्छाभिप्राप्य वद प्रार्थय पर्जन्यशब्दोयास्केनबहुधानिरुक्तः पर्जन्यस्तृपेराद्यन्तविपरीतस्यतर्पयिता- जन्यः परोजेतावाजरयितावाप्रार्जयितावारसानामिति आभिर्गीर्भिः स्तुतिवाग्भिः स्तुहि नमसान्नेन हविर्लक्षणेनाविवास सर्वतःपरिचर यः पर्जन्योवृषभोपांवर्षिता जीरदानुः क्षिप्रदानः कनिक्रदत् गर्जनशब्दंकुर्वन्नोषधीषुगर्भं गर्भस्थानीयंरेतउदकं दधाति स्थापयति तंस्तुहि ॥ १ ॥

5.83.2
वि वृ॒क्षान्ह᳚न्त्यु॒त ह᳚न्ति र॒क्षसो॒ विश्वं᳚ बिभाय॒ भुव᳚नं म॒हाव᳚धात् ।
उ॒ताना᳚गा ईषते॒ वृष्ण्या᳚वतो॒ यत्प॒र्जन्य᳚ः स्त॒नय॒न्हन्ति᳚ दु॒ष्कृतः᳚ ॥
▶ पदपाठः (Word-by-word)
वि । वृ॒क्षान् । ह॒न्ति॒ । उ॒त । ह॒न्ति॒ । र॒क्षसः᳚ । विश्व᳚म् । बि॒भा॒य॒ । भुव᳚नम् । म॒हा॑व᳚धात् ।
उ॒त । अना᳚गाः । ई॒ष॒ते॒ । वृष्ण्य᳚॑वतः । यत् । प॒र्जन्यः᳚ । स्त॒नय᳚न् । हन्ति᳚ । दुः॒॑कृतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अयंमंत्रोनिरुक्तेस्पष्टव्याख्यातत्वात्तदेवात्रलिख्यते पर्जन्यःविहन्ति वृक्षान्विहन्तिच रक्षांसि सर्वाणिचास्माद्भूतानिबिभ्यति महाव- धान्महान्ह्यस्यवधोप्यनपराधोभीतः पलायते वर्षकर्मवतोयत्पर्जन्यस्तनयन्हन्ति दुष्कृतः पापकृतइति ॥ २ ॥

5.83.3
र॒थीव॒ कश॒याश्वा{4}᳚ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ᳚णुते व॒र्ष्या{4}॒३॒᳚ अह᳚ ।
दू॒रात्सिं॒हस्य᳚ स्त॒नथा॒ उदी᳚रते॒ यत्प॒र्जन्य᳚ः कृणु॒ते व॒र्ष्यं१॒᳚ नभः᳚ ॥
▶ पदपाठः (Word-by-word)
र॒थी॑इ᳚व । कश᳚या । अश्वा᳚न् । अ॒भि॒॑क्षि॒पन् । आ॒विः । दू॒तान् । कृ॒णु॒ते॒ । व॒र्ष्या᳚न् । अह᳚ ।
दू॒रात् । सिं॒हस्य᳚ । स्त॒नथाः᳚ । उत् । ई॒र॒ते॒ । यत् । प॒र्जन्यः᳚ । कृ॒णु॒ते । व॒र्ष्य᳚म् । नभः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रथीव रथस्वामीव सयथा कशयाशानभिक्षिपन् दूतान्भटानाविष्करोतितद्वदसौपर्जन्योपि कशयाश्वान्मेघान् अभिक्षिपन् अभिप्रेरयन् वर्ष्यान् वर्षकान् दूतान् दूतवद्वृष्टिप्रेरकान् मेघान् मरुतोवा आविष्कृणुते प्रकटयति अहइतिपूरणः एवंसति सिंहस्य सहतेर्हिसतेर्वाशब्द- कर्मणःसिंहशब्दः अवर्षणेनाभिभवितुः शब्दयितुर्वामेघस्य स्तनथाः गर्जनशब्दाः दूरादुदीरते उद्गछन्ति कदा यद्यदापर्जन्योनभोन्तरिक्षं वर्ष्यं व्र्षोपेतं कृणुते करोति तदा ॥ ३ ॥ प्रवातावान्तीतिचतुर्थीपर्जन्यस्यचरोर्याज्या सूत्रितंच-प्रवातावान्तिपतयन्तिविद्युतइत्यग्र्याधेयप्रभृतीनितितत्पाठस्तु ।

5.83.4
प्र वाता॒ वान्ति᳚ प॒तय᳚न्ति वि॒द्युत॒ उदोष᳚धी॒र्जिह᳚ते॒ पिन्व᳚ते॒ स्व᳚ः ।
इरा॒ विश्व᳚स्मै॒ भुव᳚नाय जायते॒ यत्प॒र्जन्य᳚ः पृथि॒वीं रेत॒साव᳚ति ॥
▶ पदपाठः (Word-by-word)
प्र । वाताः᳚ । वान्ति᳚ । प॒तय᳚न्ति । वि॒॑द्युतः᳚ । उत् । ओष᳚धीः । जिह᳚ते । पिन्व᳚ते । स्वः᳚ ।
इरा᳚ । विश्व᳚स्मै । भुव᳚नाय । जा॒य॒ते॒ । यत् । प॒र्जन्यः᳚ । पृ॒थि॒वीम् । रेत᳚सा । अव᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाताःप्रवान्ति वातावृष्ट्यर्थंपतयन्ति गच्छन्ति समन्तात्संचरन्ति विद्युतओषधीरोषधयउज्जिहते उद्गच्छन्ति प्रवर्धन्ते स्वरन्तरिक्षं- पिन्वते क्षरति इराभूमिर्विश्वस्मैसर्वस्मै भुवनाय सर्वजगद्धिताय जायते समर्थाभवति कदैवामिति यद्यदापर्जन्योदेवः पृथिवीं रेतसोदके- नावतिरक्षति अभिगच्छतिवा तदैवंभवति ॥ ४ ॥

5.83.5
यस्य᳚ व्र॒ते पृ᳚थि॒वी नन्न᳚मीति॒ यस्य᳚ व्र॒ते श॒फव॒ज्जर्भु᳚रीति ।
यस्य᳚ व्र॒त ओष᳚धीर्वि॒श्वरू᳚पा॒ः स नः᳚ पर्जन्य॒ महि॒ शर्म᳚ यच्छ ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । व्र॒ते । पृ॒थि॒वी । नम्न᳚मीति । यस्य᳚ । व्र॒ते । श॒फ॑व᳚त् । जर्भु᳚रीति ।
यस्य᳚ । व्र॒ते । ओष᳚धीः । वि॒श्व॑रू᳚पाः । सः । नः॒ । प॒र्ज॒न्य॒ । महि᳚ । शर्म᳚ । य॒च्छ॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यपर्जन्यस्य व्रते कर्मणि पृथिवीनन्नमीति अत्यर्थंनमति सर्वेषामधोभवति यस्यव्रते शफवत् पादोपेतंगवादिकं जर्भुरीति भ्रियते पूर्यते गच्छतीतिवा यस्यव्रते कर्मण्योषधीरोषध्योविश्वरूपानानारूपाभवन्ति हेपर्जन्य समहांस्त्वं नोस्मभ्यं महिशर्म महत्सुखं यच्छप्रय- च्छ ॥ ५ ॥

5.83.6 समानपद
दि॒वो नो᳚ वृ॒ष्टिं म᳚रुतो ररीध्वं॒ प्र पि᳚न्वत॒ वृष्णो॒ अश्व᳚स्य॒ धारा᳚ः ।
अ॒र्वाङे॒तेन᳚ स्तनयि॒त्नुनेह्य॒पो नि᳚षि॒ञ्चन्नसु᳚रः पि॒ता नः᳚ ॥
▶ पदपाठः (Word-by-word)
दि॒वः । नः॒ । वृ॒ष्टिम् । म॒रु॒तः॒ । र॒री॒ध्व॒म् । प्र । पि॒न्व॒त॒ । वृष्णः᳚ । अश्व᳚स्य । धाराः᳚ ।
अ॒र्वाङ् । ए॒तेन᳚ । स्त॒न॒यि॒त्नुना᳚ । आ । इ॒हि॒ । अ॒पः । नि॒॑सि॒ञ्चन् । असु᳚रः । पि॒ता । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोयूयं दिवोन्तरिक्षसकाशात् नोस्मदर्थं वृष्टिं ररीध्वं दत्त वृष्णोवर्षकस्याश्वस्य व्यापकस्यमेघस्य संबन्धिन्योधाराउदकधाराः प्रपिन्वत प्रक्षरत हेपर्जन्य त्वमेतेन स्तनयित्नुना गर्जतामेघेन सहार्वागस्मदभिमुखमेहि आगच्छ किंकुर्वन् अपोंभांसिनिषिंचन् सदेवोसु- रः उदकानांनिरसितापिसन् नोस्माकं पितापालकश्च ॥ ६ ॥

5.83.7
अ॒भि क्र᳚न्द स्त॒नय॒ गर्भ॒मा धा᳚ उद॒न्वता॒ परि᳚ दीया॒ रथे᳚न ।
दृतिं॒ सु क᳚र्ष॒ विषि᳚तं॒ न्य᳚ञ्चं स॒मा भ᳚वन्तू॒द्वतो᳚ निपा॒दाः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । क्र॒न्द॒ । स्त॒नय᳚ । गर्भ᳚म् । आ । धाः॒ । उ॒द॒न्॑वता᳚ । परि᳚ । दी॒य॒ । रथे᳚न ।
दृति᳚म् । सु । क॒र्ष॒ । वि॑सि᳚तम् । न्य᳚ञ्चम् । स॒माः । भ॒व॒न्तु॒ । उ॒त्॑वतः᳚ । नि॒॑पा॒दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिभूम्यभिमुखं क्रन्द शब्दय तदेवपुनरुच्यतेदार्ढ्याय स्तनय गर्ज गर्भं गर्भस्थानीयमुदकमोषधीष्वाधाः आधेहि तदर्थमुदन्वता उद- कवतारथेन परिदीय परितोगच्छ दृतिं दृतिवदुदकधारकं मेघं विषितं सु सुष्ठु कर्ष आकर्षवृष्ट्यर्थं यद्वा विषितं विमुक्तबंधनं एवंकर्षएवं शेषेण तंबद्धं न्यंचं न्यक् अधोमुखं विकृत उद्वतः ऊर्ध्ववन्तः उन्नतप्रदेशाः निपादाः न्यग्भूतपादाः निकृष्टपादावा निम्नोन्नतप्रदेशाः समाए- कस्थाभवन्तु उदकपूर्णाभवंत्वित्यर्थः ॥ ७ ॥

5.83.8
म॒हान्तं॒ कोश॒मुद᳚चा॒ नि षि᳚ञ्च॒ स्यन्द᳚न्तां कु॒ल्या विषि᳚ताः पु॒रस्ता᳚त् ।
घृ॒तेन॒ द्यावा᳚पृथि॒वी व्यु᳚न्धि सुप्रपा॒णं भ᳚वत्व॒घ्न्याभ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
म॒हान्त᳚म् । कोश᳚म् । उत् । अ॒च॒ । नि । सि॒ञ्च॒ । स्यन्द᳚न्ताम् । कु॒ल्याः । वि॑सि᳚ताः । पु॒रस्ता᳚त् ।
घृ॒तेन᳚ । द्यावा᳚पृथि॒वी इति᳚ । वि । उ॒न्धि॒ । सु॒॑प्र॒पा॒नम् । भ॒व॒तु॒ । अ॒घ्न्याभ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपर्जन्य त्वं महान्तं प्रवृद्धं कोशं कोशस्थानीयंमेघं उत्कृष्टमुदच उद्गच्छ उद्गमयवा तथाकृत्वा निषिंच नीचैःक्षारय कुल्यानद्योविषि- ताविष्यूताःसत्यः स्यन्दन्तां प्रवहन्तु पुरस्तात्पूर्वाभिमुखं प्रायेण नद्यः प्राच्यः स्यन्दन्ते घृतेनोदकेन द्यावापृथिवी दिवंचप्रुथिवींच व्युन्धि क्लेदयात्यधिकं अघ्र्याभ्योगोभ्यः सुप्रपानं सुष्ठु प्रकर्षेण पातव्यमुदकं भवतु ॥ ८ ॥

5.83.9
यत्प᳚र्जन्य॒ कनि᳚क्रदत्स्त॒नय॒न्हंसि᳚ दु॒ष्कृतः᳚ ।
प्रती॒दं विश्वं᳚ मोदते॒ यत्किं च᳚ पृथि॒व्यामधि᳚ ॥
▶ पदपाठः (Word-by-word)
यत् । प॒र्ज॒न्य॒ । कनि᳚क्रदत् । स्त॒नय᳚न् । हंसि᳚ । दुः॒॑कृतः᳚ ।
प्रति᳚ । इ॒दम् । विश्व᳚म् । मो॒द॒ते॒ । यत् । किम् । च॒ । पृ॒थि॒व्याम् । अधि᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेपर्जन्य यद्यदा त्वं कनिक्रददत्यर्थंशब्दयन् स्तनयन् दुष्कृतः पापकृतोमेघान्हंसि विदारयसि तदानीमिदं विश्वं जग्त्प्रतिमोदते विश्वं- विशेष्यते यत्किंच पृथिव्यामधिभूम्यामधिष्ठितं यच्चराचरात्मकं तदिदंविश्वं मोदते हृष्यति वृष्टेः सर्वजगत्प्रीतिकारणत्वंप्रसिद्धम् ॥ ९ ॥

5.83.10
अव᳚र्षीर्व॒र्षमुदु॒ षू गृ᳚भा॒याक॒र्धन्वा॒न्यत्ये᳚त॒वा उ᳚ ।
अजी᳚जन॒ ओष᳚धी॒र्भोज᳚नाय॒ कमु॒त प्र॒जाभ्यो᳚॑विदो मनी॒षाम् ॥
▶ पदपाठः (Word-by-word)
अव᳚र्षीः । व॒र्षम् । उत् । ऊं॒ इति᳚ । सु । गृ॒भा॒य॒ । अकः᳚ । धन्वा᳚नि । अति᳚॑ए॒त॒वै । ऊं॒ इति᳚ ।
अजी᳚जनः । ओष᳚धीः । भोज᳚नाय । कम् । उ॒त । प्र॒॑जाभ्यः᳚ । अ॒वि॒दः॒ । म॒नी॒षाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमतिवृष्टिविमोचनी हेपर्जन्यत्वमवर्षीर्वृष्टवानसि वर्षमुदुषूगृभाय उदुत्कृष्टं सु सुष्ठुगृभाय गृहाण परिहरेत्यर्थः धन्वानि निरुदकप्रदे- शानकःजलवतःकृतवानसि किमर्थं अत्येतवाउ अतिक्रम्यगन्तुं ओषधीरजीजनः उदपादयः किमर्थं भोजनाय धनाय भोगायवा कमित्ययं- शिशिरंजीवनायकमितिवत्पादपूरणः उतापिच प्रजाभ्यः सकाशात् मनीषां स्तुतिमविदः प्राप्तवानसि ॥ १० ॥

बळित्थेतितृचात्मकंद्वादशंसूक्तं भौमस्यात्रेरार्षं पृथिवीदेवताकं आनुष्टुभं अनुक्रान्तंचबळित्थातृचंपार्थिवमानुष्टुभमिति सूक्तविनियो- गोलैंगिकः आद्यादेवानांहविःषुपृथिव्याअनुवाक्याबळित्थापर्वतानांदृह्ळाचिद्यावनस्पतीनितिहिसूत्रितम् । भूमिस्तोमेत्येषामरुत्वतीयश- स्त्रेसूक्तमुखीया ।