श्रवणम्

5.83.7
अ॒भि क्र᳚न्द स्त॒नय॒ गर्भ॒मा धा᳚ उद॒न्वता॒ परि᳚ दीया॒ रथे᳚न ।
दृतिं॒ सु क᳚र्ष॒ विषि᳚तं॒ न्य᳚ञ्चं स॒मा भ᳚वन्तू॒द्वतो᳚ निपा॒दाः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । क्र॒न्द॒ । स्त॒नय᳚ । गर्भ᳚म् । आ । धाः॒ । उ॒द॒न्॑वता᳚ । परि᳚ । दी॒य॒ । रथे᳚न ।
दृति᳚म् । सु । क॒र्ष॒ । वि॑सि᳚तम् । न्य᳚ञ्चम् । स॒माः । भ॒व॒न्तु॒ । उ॒त्॑वतः᳚ । नि॒॑पा॒दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिभूम्यभिमुखं क्रन्द शब्दय तदेवपुनरुच्यतेदार्ढ्याय स्तनय गर्ज गर्भं गर्भस्थानीयमुदकमोषधीष्वाधाः आधेहि तदर्थमुदन्वता उद- कवतारथेन परिदीय परितोगच्छ दृतिं दृतिवदुदकधारकं मेघं विषितं सु सुष्ठु कर्ष आकर्षवृष्ट्यर्थं यद्वा विषितं विमुक्तबंधनं एवंकर्षएवं शेषेण तंबद्धं न्यंचं न्यक् अधोमुखं विकृत उद्वतः ऊर्ध्ववन्तः उन्नतप्रदेशाः निपादाः न्यग्भूतपादाः निकृष्टपादावा निम्नोन्नतप्रदेशाः समाए- कस्थाभवन्तु उदकपूर्णाभवंत्वित्यर्थः ॥ ७ ॥