श्रवणम्

5.83.1
अच्छा᳚ वद त॒वसं᳚ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि᳚वास ।
कनि᳚क्रदद्वृष॒भो जी॒रदा᳚नू॒ रेतो᳚ दधा॒त्योष᳚धीषु॒ गर्भ᳚म् ॥
▶ पदपाठः (Word-by-word)
अच्छ᳚ । व॒द॒ । त॒वस᳚म् । गीः॒॑भिः । आ॒भिः । स्तु॒हि । प॒र्जन्य᳚म् । नम᳚सा । आ । वि॒वा॒स॒ ।
कनि᳚क्रदत् । वृ॒ष॒भः । जी॒र॑दा᳚नुः । रेतः᳚ । द॒धा॒ति॒ । ओष᳚धीषु । गर्भ᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्तोतस्तवसं बलवन्तं पर्जन्यं अच्छाभिप्राप्य वद प्रार्थय पर्जन्यशब्दोयास्केनबहुधानिरुक्तः पर्जन्यस्तृपेराद्यन्तविपरीतस्यतर्पयिता- जन्यः परोजेतावाजरयितावाप्रार्जयितावारसानामिति आभिर्गीर्भिः स्तुतिवाग्भिः स्तुहि नमसान्नेन हविर्लक्षणेनाविवास सर्वतःपरिचर यः पर्जन्योवृषभोपांवर्षिता जीरदानुः क्षिप्रदानः कनिक्रदत् गर्जनशब्दंकुर्वन्नोषधीषुगर्भं गर्भस्थानीयंरेतउदकं दधाति स्थापयति तंस्तुहि ॥ १ ॥