श्रवणम्

5.83.10
अव᳚र्षीर्व॒र्षमुदु॒ षू गृ᳚भा॒याक॒र्धन्वा॒न्यत्ये᳚त॒वा उ᳚ ।
अजी᳚जन॒ ओष᳚धी॒र्भोज᳚नाय॒ कमु॒त प्र॒जाभ्यो᳚॑विदो मनी॒षाम् ॥
▶ पदपाठः (Word-by-word)
अव᳚र्षीः । व॒र्षम् । उत् । ऊं॒ इति᳚ । सु । गृ॒भा॒य॒ । अकः᳚ । धन्वा᳚नि । अति᳚॑ए॒त॒वै । ऊं॒ इति᳚ ।
अजी᳚जनः । ओष᳚धीः । भोज᳚नाय । कम् । उ॒त । प्र॒॑जाभ्यः᳚ । अ॒वि॒दः॒ । म॒नी॒षाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इयमतिवृष्टिविमोचनी हेपर्जन्यत्वमवर्षीर्वृष्टवानसि वर्षमुदुषूगृभाय उदुत्कृष्टं सु सुष्ठुगृभाय गृहाण परिहरेत्यर्थः धन्वानि निरुदकप्रदे- शानकःजलवतःकृतवानसि किमर्थं अत्येतवाउ अतिक्रम्यगन्तुं ओषधीरजीजनः उदपादयः किमर्थं भोजनाय धनाय भोगायवा कमित्ययं- शिशिरंजीवनायकमितिवत्पादपूरणः उतापिच प्रजाभ्यः सकाशात् मनीषां स्तुतिमविदः प्राप्तवानसि ॥ १० ॥

बळित्थेतितृचात्मकंद्वादशंसूक्तं भौमस्यात्रेरार्षं पृथिवीदेवताकं आनुष्टुभं अनुक्रान्तंचबळित्थातृचंपार्थिवमानुष्टुभमिति सूक्तविनियो- गोलैंगिकः आद्यादेवानांहविःषुपृथिव्याअनुवाक्याबळित्थापर्वतानांदृह्ळाचिद्यावनस्पतीनितिहिसूत्रितम् । भूमिस्तोमेत्येषामरुत्वतीयश- स्त्रेसूक्तमुखीया ।