श्रवणम्

5.83.6 समानपद
दि॒वो नो᳚ वृ॒ष्टिं म᳚रुतो ररीध्वं॒ प्र पि᳚न्वत॒ वृष्णो॒ अश्व᳚स्य॒ धारा᳚ः ।
अ॒र्वाङे॒तेन᳚ स्तनयि॒त्नुनेह्य॒पो नि᳚षि॒ञ्चन्नसु᳚रः पि॒ता नः᳚ ॥
▶ पदपाठः (Word-by-word)
दि॒वः । नः॒ । वृ॒ष्टिम् । म॒रु॒तः॒ । र॒री॒ध्व॒म् । प्र । पि॒न्व॒त॒ । वृष्णः᳚ । अश्व᳚स्य । धाराः᳚ ।
अ॒र्वाङ् । ए॒तेन᳚ । स्त॒न॒यि॒त्नुना᳚ । आ । इ॒हि॒ । अ॒पः । नि॒॑सि॒ञ्चन् । असु᳚रः । पि॒ता । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोयूयं दिवोन्तरिक्षसकाशात् नोस्मदर्थं वृष्टिं ररीध्वं दत्त वृष्णोवर्षकस्याश्वस्य व्यापकस्यमेघस्य संबन्धिन्योधाराउदकधाराः प्रपिन्वत प्रक्षरत हेपर्जन्य त्वमेतेन स्तनयित्नुना गर्जतामेघेन सहार्वागस्मदभिमुखमेहि आगच्छ किंकुर्वन् अपोंभांसिनिषिंचन् सदेवोसु- रः उदकानांनिरसितापिसन् नोस्माकं पितापालकश्च ॥ ६ ॥