पञ्चमं मण्डलम् - सूक्तम् 30

15 ऋचः

ऋषिः: बभ्रुरात्रेयः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 5.30 - सम्पूर्णम्

1 / 15
ऋक्: 5.30.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
5.30.1
क्व१॒᳚ स्य वी॒रः को अ᳚पश्य॒दिन्द्रं᳚ सु॒खर᳚थ॒मीय᳚मानं॒ हरि᳚भ्याम् ।
यो रा॒या व॒ज्री सु॒तसो᳚ममि॒च्छन्तदोको॒ गन्ता᳚ पुरुहू॒त ऊ॒ती ॥
▶ पदपाठः (Word-by-word)
क्व᳚ । स्यः । वी॒रः । कः । अ॒प॒श्य॒त् । इन्द्र᳚म् । सु॒ख॑र᳚थम् । ईय᳚मानम् । हरि᳚॑भ्याम् ।
यः । रा॒या । व॒ज्री । सु॒त॑सो᳚मम् । इ॒च्छन् । तत् । ओकः᳚ । गन्ता᳚ । पु॒रु॒॑हू॒तः । ऊ॒ती ॥
▶ सायणभाष्यम् (Sayana Commentary)

वज्री वज्रवान्पुरुहूतोबहुभिराहूतोयइन्द्रः राया देयेनधनेनसहसुतसोममिच्छन् अभिषुतसोमंयजमानमन्विच्छन् ऊती ऊत्यै रक्षायै तत् तस्ययजमानस्य ओकोगृहंगंता प्राप्तोभवति वीरोविक्रान्तस्यसइन्द्रः क्वकुत्रविद्यते सुखरथं शोभनाख्यद्वारोरथोयस्यससुखरथः भ्यां स्ववाहनाभ्यामश्वाभ्यांईयमानंगच्छन्तमिन्द्रंकोपश्यत् कश्चददृशे ॥ १ ॥

5.30.2 समानपद
अवा᳚चचक्षं प॒दम᳚स्य स॒स्वरु॒ग्रं नि᳚धा॒तुरन्वा᳚यमि॒च्छन् ।
अपृ᳚च्छम॒न्या{4} उ॒त ते म᳚ आहु॒रिन्द्रं॒ नरो᳚ बुबुधा॒ना अ᳚शेम ॥
▶ पदपाठः (Word-by-word)
अव᳚ । अ॒च॒च॒क्ष॒म् । प॒दम् । अ॒स्य॒ । स॒स्वः । उ॒ग्रम् । नि॒॑धा॒तुः । अनु᳚ । आ॒य॒म् । इ॒च्छन् ।
अपृ᳚च्छम् । अ॒न्यान् । उ॒त । ते । मे॒ । आ॒हुः॒ । इन्द्र᳚म् । नरः᳚ । बु॒बु॒धा॒नाः । अ॒शे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्येन्द्रस्य पदं स्थानं अवाचचक्षं अहमवाद्राक्षं कीदृशं सस्वोंतर्हितं उग्रमुद्गूर्णं किंच इच्छन्निन्द्रमन्विच्छन् अहं निधातुः स्वस्थापयितुरस्येन्द्रस्यपदमनवायं अन्वगमं अन्यानुत अन्यान् विदुषोपि मार्गं इन्द्रमपृच्छं पृष्टवानस्मि पृष्टास्ते मे मह्यं इन्द्रमाहुः किमाहुरितिउच्यतेनरोयज्ञानांनेतारोबुबुधानाः बुभुत्समानाः वयं अशेम इन्द्रंप्राप्तवन्तःस्म यद्यपीन्द्रोविद्यते तथापि दुर्लभश्चेदनुपगन्तव्यइति बुभुत्समानस्वभावमपृच्छत् पृष्टैश्चसुलभइत्युक्ते इन्द्रप्राप्त्यर्थंसूक्तशेषमपश्यदित्यर्थः ॥ २ ॥

5.30.3
प्र नु व॒यं सु॒ते या ते᳚ कृ॒तानीन्द्र॒ ब्रवा᳚म॒ यानि᳚ नो॒ जुजो᳚षः ।
वेद॒दवि᳚द्वाञ्छृ॒णव᳚च्च वि॒द्वान्वह᳚ते॒॑यं म॒घवा॒ सर्व᳚सेनः ॥
▶ पदपाठः (Word-by-word)
प्र । नु । व॒यम् । सु॒ते । या । ते॒ । कृ॒तानि᳚ । इन्द्र᳚ । ब्रवा᳚म । यानि᳚ । नः॒ । जुजो᳚षः ।
वेद᳚त् । अवि᳚द्वान् । शृ॒णव᳚त् । च॒ । वि॒द्वान् । वह᳚ते । अ॒यम् । म॒घ॑वा᳚ । सर्व᳚॑सेनः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र तेत्वदीयानि यानिकृतानि कर्माणि सन्ति नु अद्यवयं स्तोतारः सुतेसोमे अभिषुतेसति तानिकर्माणिप्रब्रवाम प्रकर्षेणवदाम त्वमपिनोस्मदर्थंयानिकर्माणिजुजोषः असेवथाः तानिकर्माणि अविद्वान् इतःपूर्वमजानन् जनःवेदत् जानातु श्रृणवच्च श्रृणुयाच्च यद्वा विद्वान् जानन् पुरुषःश्रृणवच्च अजानंतमपिजनंश्रावयेच्च सर्वसेनः सर्वाभिः सेनाभिर्युक्तः मघवाधनवान् विद्वान् जानन् अयमिन्द्रःजानतश्चश्रृण्वतश्च तान् जनान् प्रतिवहते अश्वैरुह्यते व्यत्ययेनकर्तृप्रत्ययः प्रापयति ॥ ३ ॥

5.30.4
स्थि॒रं मन᳚श्चकृषे जा॒त इ᳚न्द्र॒ वेषीदेको᳚ यु॒धये॒ भूय᳚सश्चित् ।
अश्मा᳚नं चि॒च्छव᳚सा दिद्युतो॒ वि वि॒दो गवा᳚मू॒र्वमु॒स्रिया᳚णाम् ॥
▶ पदपाठः (Word-by-word)
स्थि॒रम् । मनः᳚ । च॒कृ॒षे॒ । जा॒तः । इ॒न्द्र॒ । वेषि᳚ । इत् । एकः᳚ । यु॒धये᳚ । भूय᳚सः । चि॒त् ।
अश्मा᳚नम् । चि॒त् । शव᳚सा । दि॒द्यु॒तः॒ । वि । वि॒दः । गवा᳚म् । ऊ॒र्वम् । उ॒स्रिया᳚णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र जातःउत्पन्नमात्रएवत्वं स्थिरं चलनरहितंमनश्चित्तंचकृषे चकर्थ सर्वान् बलिष्ठान् जयेयमितीदृशं तथाहेइन्द्र एकइत् असहायएवत्वं युधये युद्धाय भूयसश्चित् बहुतरान्राक्षसादीनपिवेषि अवेः अगमः किंच अश्मानंचित् गवामावरकंपर्वतमपिशवसाबलेनविदिद्युतः व्यभिनः किंच उस्रियाणांक्षीरमुत्सारयन्तीनांगवांधेन् नांऊर्वंसमूहंविदः अवेदयः अलंभयः ॥ ४ ॥

5.30.5 समानपद
प॒रो यत्त्वं प᳚र॒म आ॒जनि᳚ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र᳚त् ।
अत᳚श्चि॒दिन्द्रा᳚दभयन्त दे॒वा विश्वा᳚ अ॒पो अ᳚जयद्दा॒सप᳚त्नीः ॥
▶ पदपाठः (Word-by-word)
प॒रः । यत् । त्वम् । प॒र॒मः । आ॒॑जनि᳚ष्ठाः । प॒रा॒॑वति᳚ । श्रुत्य᳚म् । नाम᳚ । बिभ्र᳚त् ।
अतः᳚ । चि॒त् । इन्द्रा᳚त् । अ॒भ॒य॒न्त॒ । दे॒वाः । विश्वाः᳚ । अ॒पः । अ॒ज॒य॒त् । दा॒स॑प᳚त्नीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा हेइन्द्र परः परस्तात् उपरिष्टात् स्थितः परमउत्कृश्टतमस्त्वं परावति दूरे श्रुत्यं श्रवणीयंनामनामधेयंबिभ्रत् धारयन् आजनिष्ठाःआसमंतादजायथाः शेषः परोक्षकृतः अतश्चित् अतआरभ्यैव देवाद्योतमानाःअग्न्यादयः इन्द्रादभयन्त बिभ्युःविश्वाअपः सर्वाण्युदकानि इन्द्रः अजयत् वशीचक्रे कीदृशाः दासपत्नीः दासोवृतः पतिः पालयितायासामपांता ॥ ५ ॥

5.30.6 समानपद
तुभ्येदे॒ते म॒रुतः᳚ सु॒शेवा॒ अर्च᳚न्त्य॒र्कं सु॒न्वन्त्यन्ध᳚ः ।
अहि᳚मोहा॒नम॒प आ॒शया᳚नं॒ प्र मा॒याभि᳚र्मा॒यिनं᳚ सक्ष॒दिन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚ । इत् । ए॒ते । म॒रुतः᳚ । सु॒॑शेवाः᳚ । अर्च᳚न्ति । अ॒र्कम् । सु॒न्वन्ति᳚ । अन्धः᳚ ।
अहि᳚म् । ओ॒हा॒नम् । अ॒पः । आ॒॑शया᳚नम् । प्र । मा॒याभिः᳚ । मा॒यिन᳚म् । स॒क्ष॒त् । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतेमरुतः महद्रवन्तिवदन्तीति मरुतस्तोतारःसुशेवाः शेवमितिसुखनामैतत् शोभनसुखाः सन्तः स्तोत्रेण शोभनं सुखमुत्पादयन्तइत्यर्थः हेइन्द्र तुभ्येत् तुभ्यमेव अर्कमर्चनीयंस्तोत्रं अर्चन्ति स्तुवन्ति कुर्वन्तीत्यर्थः अन्धः सोमलक्षणमन्नंसुन्वन्ति अभिषवंकुर्वन्ति इन्द्रः परमैश्वर्ययुक्तःमायाभिः स्वकीयाभिः शक्तिभिः अहिंवृत्रंप्रसक्षत् अभ्यभवत् कीदृशं ओहानं देवान् बाधमानं अपउदकानि आशयानं आबृत्यनंकुर्वन्तं मायिनं कपटवन्तमिति ॥ ६ ॥

5.30.7
वि षू मृधो᳚ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा᳚ मघवन्त्संचका॒नः ।
अत्रा᳚ दा॒सस्य॒ नमु᳚चे॒ः शिरो॒ यदव᳚र्तयो॒ मन᳚वे गा॒तुमि॒च्छन् ॥
▶ पदपाठः (Word-by-word)
वि । सु । मृधः᳚ । ज॒नुषा᳚ । दान᳚म् । इन्व᳚न् । अह᳚न् । गवा᳚ । म॒घ॒॑व॒न् । सम्॒॑च॒का॒नः ।
अत्र᳚ । दा॒सस्य᳚ । नमु᳚चेः । शिरः᳚ । यत् । अव᳚र्तयः । मन᳚वे । गा॒तुम् । इ॒च्छन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमघवन् धनवन्निन्द्र संचकानः अस्माभिःस्तूयमानस्त्वं संपूर्वः कायतिः शब्दकर्मा तस्यलडर्थेलिटिरूपं दानं देवानांबाधकंवृत्रमसुरंगवावज्रेणइन्वन् प्रेरयन् हिंसन् जनुषाजन्मनामृधः तदनुचरान् राक्षसादीन् शत्रून् सु सुष्टु व्यहन् विजघन्थ इन्द्रस्यासुराः जन्माअरभ्य शत्रवइत्यर्थःहेइन्द्र त्वं अत्रास्मिन्युद्धे मनवे नमुचिनापहृतगोधनायमह्यंगातुंसुखमिच्छन् अभिलषन् नमुचेरेतन्नामकस्य दासस्य उपक्षपयितुरसुरस्यसंबन्धिशिरः शीर्षं यद्यदाअवर्तयः अचूर्णयः तदाशत्रून्विजघन्थेतिपूर्वेणसंबन्धः ॥ ७ ॥

5.30.8
युजं॒ हि मामकृ᳚था॒ आदिदि᳚न्द्र॒ शिरो᳚ दा॒सस्य॒ नमु᳚चेर्मथा॒यन् ।
अश्मा᳚नं चित्स्व॒र्यं१॒᳚ वर्त᳚मानं॒ प्र च॒क्रिये᳚व॒ रोद᳚सी म॒रुद्भ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
युज᳚म् । हि । माम् । अकृ᳚थाः । आत् । इत् । इ॒न्द्र॒ । शिरः᳚ । दा॒सस्य᳚ । नमु᳚चेः । म॒था॒यन् ।
अश्मा᳚नम् । चि॒त् । स्व॒र्य᳚म् । वर्त᳚मानम् । प्र । च॒क्रिया᳚॑इव । रोद᳚सी॒ इति᳚ । म॒रुत्॑भ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं स्वर्यं स्वरेणसहितं वर्तमानं भ्रमन्तं अश्मानंचित् मेघमिवस्थितं दासस्य उपक्षपयितुर्नमुचेरसुरस्यशिरः मथायन् चूर्णयन् आदिदनन्तरमेवमां युजं सखायं अकृथाहि चकृषेखलु तदानींमरुद्भ्यः त्वत्सहायेभ्यः रोदसी द्यावापृथिव्यौचक्रियेव चक्रेइव प्रास्तां उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ ८ ॥

5.30.9
स्त्रियो॒ हि दा॒स आयु᳚धानि च॒क्रे किं मा᳚ करन्नब॒ला अ᳚स्य॒ सेना᳚ः ।
अ॒न्तर्ह्यख्य᳚दु॒भे अ᳚स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
स्त्रियः᳚ । हि । दा॒सः । आयु᳚धानि । च॒क्रे । किम् । मा॒ । क॒र॒न् । अ॒ब॒लाः । अ॒स्य॒ । सेनाः᳚ ।
अ॒न्तः । हि । अख्य᳚त् । उ॒भे इति᳚ । अ॒स्य॒ । धेने॒ इति᳚ । अथ᳚ । उप᳚ । प्र । ऐ॒त् । यु॒धये᳚ । दस्यु᳚म् । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

दासः उपक्षपयितानमुचिरसुरः स्त्रियः स्त्रीः आयुधानि यद्धसाधनानिचक्रेहि कृतवान् खलुइन्द्रेणसहयोद्धंप्रहितबानित्यर्थः अस्यासुरस्यसंबन्धिन्य अबलाः स्त्रीरूपाः सेनाः मा मां किंकरन् किंकुर्युरितिमन्यमानइन्द्रः तासांमध्येअस्यासुरस्यधेनेप्रीणयित्र्यौ सुरूपे उभेद्वेस्त्रियौ अन्तरख्यद्धि गृहमध्येनिदंधखलु अथानंतरमिन्द्रः दस्यंनमचिं यधये यद्धाय उपप्रैत् उपप्रागच्छत् ॥ ९ ॥

5.30.10
समत्र॒ गावो॒॑भितो᳚॑नवन्ते॒हेह᳚ व॒त्सैर्वियु᳚ता॒ यदास᳚न् ।
सं ता इन्द्रो᳚ असृजदस्य शा॒कैर्यदीं॒ सोमा᳚स॒ः सुषु᳚ता॒ अम᳚न्दन् ॥
▶ पदपाठः (Word-by-word)
सम् । अत्र᳚ । गावः᳚ । अ॒भितः᳚ । अ॒न॒व॒न्त॒ । इ॒ह॑इ᳚ह । व॒त्सैः । वि॑यु᳚ताः । यत् । आस᳚न् ।
सम् । ताः । इन्द्रः᳚ । अ॒सृ॒ज॒त् । अ॒स्य॒ । शा॒कैः । यत् । ई॒म् । सोमा᳚सः । सु॑सु᳚ताः । अम᳚न्दन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यदा गावः वत्सैः वियुताआसन् वियुक्ताअभवन् अत्रास्मिन्काले अभितः सर्वतोनमुचिनापहृतागावः इहेह इहचेहचसर्वतः समनवन्त अत्यन्तमगच्छन् यत् यदा सुषुताः बभ्रुनाम्नाऋषिणासुष्ठ्वभिषुताः सोमासः सोमाः ईमेनमिन्द्रं अमन्दन् अमादयन् तदाइन्द्रः शाकैः शक्तैर्मरुद्भिः सह अस्यबभ्रोःसंबन्धीर्नमुचिनापहृतास्तागाः समसृजत् वत्सैः सह समयोजयत् ॥ १० ॥

5.30.11 समानपद
यदीं॒ सोमा᳚ ब॒भ्रुधू᳚ता॒ अम᳚न्द॒न्नरो᳚रवीद्वृष॒भः साद᳚नेषु ।
पु॒रं॒द॒रः प᳚पि॒वा{4} इन्द्रो᳚ अस्य॒ पुन॒र्गवा᳚मददादु॒स्रिया᳚णाम् ॥
▶ पदपाठः (Word-by-word)
यत् । ई॒म् । सोमाः᳚ । ब॒भ्रु॑धू᳚ताः । अम᳚न्दन् । अरो᳚रवीत् । वृ॒ष॒भः । साद᳚नेषु ।
पु॒र॒म्॑द॒रः । प॒पि॒॑वान् । इन्द्रः᳚ । अ॒स्य॒ । पुनः᳚ । गवा᳚म् । अ॒द॒दा॒त् । उ॒स्रिया᳚णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदाबभ्रुधूताः बभ्रुणाभिषुताःसीमाः ईमेनमिन्द्रं अमन्दन् अमादयन् तदावृषभःकामानांवर्षितेन्द्रः सदनेषु युद्धेषु अरोरवीत् अत्यर्थंशब्दमकरोत् पुरंदरः पुरांदारयिता अस्येमंसोमंपपिवान् पीतवान् इन्द्रः पुनःउस्रियाणांक्षीरमुत्स्राविणीःगवांगाः अददात् बभ्रवेददौ ॥ ११ ॥

5.30.12
भ॒द्रमि॒दं रु॒शमा᳚ अग्ने अक्र॒न्गवां᳚ च॒त्वारि॒ दद᳚तः स॒हस्रा᳚ ।
ऋ॒णं॒च॒यस्य॒ प्रय᳚ता म॒घानि॒ प्रत्य᳚ग्रभीष्म॒ नृत᳚मस्य नृ॒णाम् ॥
▶ पदपाठः (Word-by-word)
भ॒द्रम् । इ॒दम् । रु॒शमाः᳚ । अ॒ग्ने॒ । अ॒क्र॒न् । गवा᳚म् । च॒त्वारि᳚ । दद᳚तः । स॒हस्रा᳚ ।
ऋ॒ण॒म्॑च॒यस्य᳚ । प्र॑य᳚ता । म॒घानि᳚ । प्रति᳚ । अ॒ग्र॒भी॒ष्म॒ । नृ॑त᳚मस्य । नृ॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

रुशमइतिकश्चिज्जनपदविशेषः अत्ररुशमशब्देनतत्रत्याजनाउच्यन्ते रुशमाः ऋणंचयनाम्नोराज्ञःकिंकराः हेअग्ने भद्रंकल्याणमिदंकर्म अक्रन् अकुर्वन् कीदृशाः गवांधेनूनांचत्वारि चतुःसंख्यायुक्तानि सहस्रासहस्राणि ददतः मह्यंप्रयच्छतः राज्ञाहिदीयमानानिधनानि राजपुरुषाएवप्रयच्छन्तीत्यर्थः नरांनेतॄणांमध्येनृतमस्य अतिशयेननेतृतमस्य ऋणंचयस्य एतन्नामकेनराज्ञाप्रयताप्रयतानिदत्तनिमघानि गोरूपाणिधनानि वयं प्रत्यग्रभीष्म प्रतिगृहीतवन्तःस्मपूजार्थंबहुवचनम् ॥ १२ ॥

5.30.13
सु॒पेश᳚सं॒ माव᳚ सृज॒न्त्यस्तं॒ गवां᳚ स॒हस्रै᳚ रु॒शमा᳚सो अग्ने ।
ती॒व्रा इन्द्र᳚मममन्दुः सु॒तासो॒॑क्तोर्व्यु᳚ष्टौ॒ परि᳚तक्म्यायाः ॥
▶ पदपाठः (Word-by-word)
सु॒॑पेश᳚सम् । मा॒ । अव᳚ । सृ॒ज॒न्ति॒ । अस्त᳚म् । गवा᳚म् । स॒हस्रैः᳚ । रु॒शमा᳚सः । अ॒ग्ने॒ ।
ती॒व्राः । इन्द्र᳚म् । अ॒म॒म॒न्दुः॒ । सु॒तासः᳚ । अ॒क्तोः । वि॑उ᳚ष्टौ । परि᳚॑तक्म्यायाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने रुशमासः रुशमाः ऋणंचयस्यकिंकराः सुपेशसं सुरूपमलंकाराच्छादनादिभिः सत्कृतं मा मांअस्तं गृहं गवांधेनूनांसहस्रैःसह अवसृजन्ति प्रापयन्तिस्म तदनंतरमेवतीव्राः रसवन्तः सुतासः लब्धबहुधनेनमयाभिषुताःसोमाः परितक्म्यायाः तमसाभूतानिपरितस्तकतिगच्छतीतिपरितक्म्या तस्याः अक्तोरात्रेः व्युष्टौ व्युच्छनेसति उषःकालइत्यर्थः इन्द्रमममन्दुः अमादयन् बभ्रुः गवांप्राप्त्यनन्तरमविलंबितमेवसोमेनेजइत्यर्थः ॥ १३ ॥

5.30.14
औच्छ॒त्सा रात्री॒ परि᳚तक्म्या॒ या{4} ऋ᳚णंच॒ये राज᳚नि रु॒शमा᳚नाम् ।
अत्यो॒ न वा॒जी र॒घुर॒ज्यमा᳚नो ब॒भ्रुश्च॒त्वार्य᳚सनत्स॒हस्रा᳚ ॥
▶ पदपाठः (Word-by-word)
औच्छ᳚त् । सा । रात्री᳚ । परि᳚॑तक्म्या । या । ऋ॒ण॒म्॑च॒ये । राज᳚नि । रु॒शमा᳚नाम् ।
अत्यः᳚ । न । वा॒जी । र॒घुः । अ॒ज्यमा᳚नः । ब॒भ्रुः । च॒त्वारि᳚ । अ॒स॒न॒त् । स॒हस्रा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

रुशमानां रुशमनाम्नांजनानांराजनिप्रभौ ऋणंचये एतत्संज्ञके तत्समीपएवयारात्रिः परितक्म्या परितोगंत्रीभवति सारात्री औच्छत् व्युष्टाअभवत् अत्यः सततगामी वाजीन अश्वइव रघुः शीघ्रगामी अज्यमानः प्रेर्यमाणः बभ्रुः एतन्नामकऋषिः चत्वारि चतुःसंख्याकानि सहस्रा सहस्राणि गोरूपाणिधनानि असनत् अलभत ॥ १४ ॥

5.30.15
चतु᳚ःसहस्रं॒ गव्य᳚स्य प॒श्वः प्रत्य᳚ग्रभीष्म रु॒शमे᳚ष्वग्ने ।
घ॒र्मश्चि᳚त्त॒प्तः प्र॒वृजे॒ य आसी᳚दय॒स्मय॒स्तम्वादा᳚म॒ विप्रा᳚ः ॥
▶ पदपाठः (Word-by-word)
चतुः᳚॑सहस्रम् । गव्य᳚स्य । प॒श्वः । प्रति᳚ । अ॒ग्र॒भी॒ष्म॒ । रु॒शमे᳚षु । अ॒ग्ने॒ ।
घ॒र्मः । चि॒त् । त॒प्तः । प्र॒॑वृजे᳚ । यः । आसी᳚त् । अ॒य॒स्मयः᳚ । तम् । ऊं॒ इति᳚ । आदा᳚म । विप्राः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने वयं रुशमेषु एतत्संज्ञकेषुजनेषु गव्यस्य गवात्मकस्यपश्वःपशोः पशूनां जातावेकवचनं चतुःसहस्रं चत्वारिसहस्राणि प्रत्यग्रभीष्म प्रतिगृहीतवन्तःस्म प्रवृजे प्रवृंजनार्थं तप्तः संतप्तः शॊभनवर्णोघर्मश्चित् महावीरइव अयस्मयः अयोमयः हिरण्मयोयःकलशआसीत् अभवत् तमुदोहनार्थं कलशंच विप्रामेधाविनोवयंरुशमेषुआदाम आदत्तवन्तः ॥ १५ ॥

इन्द्रोरथायेतित्रयोदशर्चंसप्तदशंसूक्तं अवस्युर्नामात्रेयऋषिः त्रिष्टुप् छन्दः इन्द्रोदेवता उग्रमयातंसंहयद्वामितिपादयोः क्रमेणकुत्सोशनसौविकल्पेनदेवता इन्दाकुत्सावहमानेत्यस्याइन्द्रः कुत्सश्च तथाचानुक्रान्तंइन्द्रोरथायसप्तोनावस्यु रुग्रमितिकौत्स्यौ -शनसौवापादौपरैन्द्राकौत्सीति । विनियोगोलैंगिकः ।