श्रवणम्

5.30.6 समानपद
तुभ्येदे॒ते म॒रुतः᳚ सु॒शेवा॒ अर्च᳚न्त्य॒र्कं सु॒न्वन्त्यन्ध᳚ः ।
अहि᳚मोहा॒नम॒प आ॒शया᳚नं॒ प्र मा॒याभि᳚र्मा॒यिनं᳚ सक्ष॒दिन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
तुभ्य᳚ । इत् । ए॒ते । म॒रुतः᳚ । सु॒॑शेवाः᳚ । अर्च᳚न्ति । अ॒र्कम् । सु॒न्वन्ति᳚ । अन्धः᳚ ।
अहि᳚म् । ओ॒हा॒नम् । अ॒पः । आ॒॑शया᳚नम् । प्र । मा॒याभिः᳚ । मा॒यिन᳚म् । स॒क्ष॒त् । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एतेमरुतः महद्रवन्तिवदन्तीति मरुतस्तोतारःसुशेवाः शेवमितिसुखनामैतत् शोभनसुखाः सन्तः स्तोत्रेण शोभनं सुखमुत्पादयन्तइत्यर्थः हेइन्द्र तुभ्येत् तुभ्यमेव अर्कमर्चनीयंस्तोत्रं अर्चन्ति स्तुवन्ति कुर्वन्तीत्यर्थः अन्धः सोमलक्षणमन्नंसुन्वन्ति अभिषवंकुर्वन्ति इन्द्रः परमैश्वर्ययुक्तःमायाभिः स्वकीयाभिः शक्तिभिः अहिंवृत्रंप्रसक्षत् अभ्यभवत् कीदृशं ओहानं देवान् बाधमानं अपउदकानि आशयानं आबृत्यनंकुर्वन्तं मायिनं कपटवन्तमिति ॥ ६ ॥