श्रवणम्

5.30.8
युजं॒ हि मामकृ᳚था॒ आदिदि᳚न्द्र॒ शिरो᳚ दा॒सस्य॒ नमु᳚चेर्मथा॒यन् ।
अश्मा᳚नं चित्स्व॒र्यं१॒᳚ वर्त᳚मानं॒ प्र च॒क्रिये᳚व॒ रोद᳚सी म॒रुद्भ्य᳚ः ॥
▶ पदपाठः (Word-by-word)
युज᳚म् । हि । माम् । अकृ᳚थाः । आत् । इत् । इ॒न्द्र॒ । शिरः᳚ । दा॒सस्य᳚ । नमु᳚चेः । म॒था॒यन् ।
अश्मा᳚नम् । चि॒त् । स्व॒र्य᳚म् । वर्त᳚मानम् । प्र । च॒क्रिया᳚॑इव । रोद᳚सी॒ इति᳚ । म॒रुत्॑भ्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं स्वर्यं स्वरेणसहितं वर्तमानं भ्रमन्तं अश्मानंचित् मेघमिवस्थितं दासस्य उपक्षपयितुर्नमुचेरसुरस्यशिरः मथायन् चूर्णयन् आदिदनन्तरमेवमां युजं सखायं अकृथाहि चकृषेखलु तदानींमरुद्भ्यः त्वत्सहायेभ्यः रोदसी द्यावापृथिव्यौचक्रियेव चक्रेइव प्रास्तां उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ ८ ॥