श्रवणम्

5.30.4
स्थि॒रं मन᳚श्चकृषे जा॒त इ᳚न्द्र॒ वेषीदेको᳚ यु॒धये॒ भूय᳚सश्चित् ।
अश्मा᳚नं चि॒च्छव᳚सा दिद्युतो॒ वि वि॒दो गवा᳚मू॒र्वमु॒स्रिया᳚णाम् ॥
▶ पदपाठः (Word-by-word)
स्थि॒रम् । मनः᳚ । च॒कृ॒षे॒ । जा॒तः । इ॒न्द्र॒ । वेषि᳚ । इत् । एकः᳚ । यु॒धये᳚ । भूय᳚सः । चि॒त् ।
अश्मा᳚नम् । चि॒त् । शव᳚सा । दि॒द्यु॒तः॒ । वि । वि॒दः । गवा᳚म् । ऊ॒र्वम् । उ॒स्रिया᳚णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र जातःउत्पन्नमात्रएवत्वं स्थिरं चलनरहितंमनश्चित्तंचकृषे चकर्थ सर्वान् बलिष्ठान् जयेयमितीदृशं तथाहेइन्द्र एकइत् असहायएवत्वं युधये युद्धाय भूयसश्चित् बहुतरान्राक्षसादीनपिवेषि अवेः अगमः किंच अश्मानंचित् गवामावरकंपर्वतमपिशवसाबलेनविदिद्युतः व्यभिनः किंच उस्रियाणांक्षीरमुत्सारयन्तीनांगवांधेन् नांऊर्वंसमूहंविदः अवेदयः अलंभयः ॥ ४ ॥