पञ्चमं मण्डलम् - सूक्तम् 8

7 ऋचः

ऋषिः: इष आत्रेयः देवता: अग्निः छन्दः: जगती

सूक्तम् 5.8 - सम्पूर्णम्

1 / 7
ऋक्: 5.8.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (7)
5.8.1
त्वाम᳚ग्न ऋता॒यव॒ः समी᳚धिरे प्र॒त्नं प्र॒त्नास᳚ ऊ॒तये᳚ सहस्कृत ।
पु॒रु॒श्च॒न्द्रं य᳚ज॒तं वि॒श्वधा᳚यसं॒ दमू᳚नसं गृ॒हप᳚तिं॒ वरे᳚ण्यम् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । ऋ॒त॒॑यवः᳚ । सम् । ई॒धि॒रे॒ । प्र॒त्नम् । प्र॒त्नासः᳚ । ऊ॒तये᳚ । स॒हः॒॑कृ॒त॒ ।
पु॒रु॒॑च॒न्द्रम् । य॒ज॒तम् । वि॒श्व॑धा᳚यसम् । दमू᳚नसम् । गृ॒ह॑प᳚तिम् । वरे᳚ण्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वामग्न इति सप्तर्चमष्टमं सूक्तमात्रेयस्येषस्यार्षं जागतमाग्नेयम् । त्वामग्ने सप्त जागतमित्यनुक्रमणिका । प्रातरनुवाक आग्नेये क्रतौ जागते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । तथा च सूत्रम् । जनस्य गोपस्त्वामग्ने ऋतायवः । आ. ४-१३ । इति ॥

हे सहस्कृत बलस्य कर्तरग्ने प्रत्नं पुरातनं त्वां प्रत्नासः पुरातना ऋतायवो यज्ञकामा ऋषय ऊतये स्वरक्षणाय समीधिरे । सम्यग्दीपितवन्तः । कीदृशं त्वाम् । पुरुश्चन्द्रं बहुधनमतिशयेनाह्लादकं वा यजतं यष्टव्यं विश्वधायसं बह्वन्नं दमूनसं दानमनसं गृहपतिं यजमानगृहस्य पालकं वरेण्यं वरणीयं ॥ १ ॥

5.8.2
त्वाम᳚ग्ने॒ अति᳚थिं पू॒र्व्यं विशः᳚ शो॒चिष्के᳚शं गृ॒हप᳚तिं॒ नि षे᳚दिरे ।
बृ॒हत्के᳚तुं पुरु॒रूपं᳚ धन॒स्पृतं᳚ सु॒शर्मा᳚णं॒ स्वव᳚सं जर॒द्विष᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । अति᳚थिम् । पू॒र्व्यम् । विशः᳚ । शो॒चिः॑के᳚शम् । गृ॒ह॑प᳚तिम् । नि । से॒दि॒रे॒ ।
बृ॒हत्॑के᳚तुम् । पु॒रु॒॑रूप᳚म् । ध॒न॒॑स्पृत᳚म् । सु॒॑शर्मा᳚णम् । सु॒॑अव᳚सम् । ज॒र॒त्॑विष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वां विशो यजमाना गृहपतिं गृहस्वामिनं नि षेदिरे । गार्हपत्यरूपेण स्थापितवन्त इत्यर्थः । कीदृशं त्वाम् । अतिथिमतिथिवत्पूज्यं पूर्व्यं पुरातनं शोचिष्केशं दीप्तज्वालं बृहत्केतुं प्रभूतप्रज्ञानं पुरुरूपमावहनीयादिरूपेण बहुरूपं धनस्पृतं धनानां स्पर्तारं सुशर्माणं शोभनसुखं स्ववसं सुरक्षनं जरद्विषं जरतां वृक्षाणां व्यापकं जीर्णॊदकं वा ॥ २ ॥

5.8.3
त्वाम᳚ग्ने॒ मानु᳚षीरीळते॒ विशो᳚ होत्रा॒विदं॒ विवि᳚चिं रत्न॒धात᳚मम् ।
गुहा॒ सन्तं᳚ सुभग वि॒श्वद᳚र्शतं तुविष्व॒णसं᳚ सु॒यजं᳚ घृत॒श्रिय᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । मानु᳚षीः । ई॒ळ॒ते॒ । विशः᳚ । हो॒त्रा॒॑विद᳚म् । विवि᳚चिम् । र॒त्न॒॑धात᳚मम् ।
गुहा᳚ । सन्त᳚म् । सु॒॑भ॒ग॒ । वि॒श्व॑द᳚र्शतम् । तु॒वि॒॑स्व॒नस᳚म् । सु॒॑यज᳚म् । घृ॒त॒॑श्रिय᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्नीनां परस्परं सम्सर्गे विविचयेऽग्नये काचिदिष्टिः । तत्र त्वामग्ने मानुषीरिति याज्या । सूत्रितं च । त्वामग्नेमानुषीरीळते विशोऽग्न आयाहि वीतये । आ. ३-१३ । इति ॥

हे अग्ने सुभग शोभनधन त्वां मानुषीर्विशो मानुषसम्बन्धिन्यः सर्वाः प्रजा ईळते । स्तुवन्ति । कीदृशं त्वां होत्राविदं होमानां सप्तहोत्रकाणां वा वेत्तारं विविचिं विवेचकं सदसतोः रत्नधातमं रमणीयानां धनानां दातृतमं गुहा गुहायामरण्यां हृदयेशु वा सन्तं सर्वदा वर्तमानं विश्वदर्शतं सर्वैर्द्रष्टव्यं तुविष्वणसं प्रभूतध्वनिं सुयजं सुष्ठु यष्टारं घृतश्रियं घृतं श्रयन्तम् ॥ ३ ॥

5.8.4
त्वाम᳚ग्ने धर्ण॒सिं वि॒श्वधा᳚ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप᳚ सेदिम ।
स नो᳚ जुषस्व समिधा॒नो अ᳚ङ्गिरो दे॒वो मर्त᳚स्य य॒शसा᳚ सुदी॒तिभि᳚ः ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । ध॒र्ण॒सिम् । वि॒श्वधा᳚ । व॒यम् । गीः॒॑भिः । गृ॒णन्तः᳚ । नम᳚सा । उप᳚ । से॒दि॒म॒ ।
सः । नः॒ । जु॒ष॒स्व॒ । स॒म्॑इ॒धा॒नः । अ॒ङ्गि॒रः॒ । दे॒वः । मर्त᳚स्य । य॒शसा᳚ । सु॒दी॒ति॑भिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने धर्णसिं सर्वस्य धारकं त्वां वयमात्रेया वा विश्वधा बहुप्रकारेण गीर्घिर्गृणन्तः स्तुवन्तो नमसा नमस्कारेणोप सेदिम । उपसन्नाभवेम । सत्वं नोऽस्मान् जुषस्व । सेवस्व धनादिभिः । समिधानः सम्यग्दीप्तो दीप्यमानोऽस्माभिर्हे अङ्गिरः सर्वत्र गन्तरङ्गिरसः पुत्र वा देवो दीप्यमानस्त्वं मर्त्यस्य यजमानस्य यशसा सुदीतिभिर्ज्वालाभिः सह जुषस्व ॥ ४ ॥

5.8.5
त्वम᳚ग्ने पुरु॒रूपो᳚ वि॒शेवि᳚शे॒ वयो᳚ दधासि प्र॒त्नथा᳚ पुरुष्टुत ।
पु॒रूण्यन्ना॒ सह᳚सा॒ वि रा᳚जसि॒ त्विषि॒ः सा ते᳚ तित्विषा॒णस्य॒ नाधृषे᳚ ॥
▶ पदपाठः (Word-by-word)
त्वम् । अ॒ग्ने॒ । पु॒रु॒॑रूपः᳚ । वि॒शे॑वि᳚शे । वयः᳚ । द॒धा॒सि॒ । प्र॒त्न॑था᳚ । पु॒रु॒॑स्तु॒त॒ ।
पु॒रूणि᳚ । अन्ना᳚ । सह᳚सा । वि । रा॒ज॒सि॒ । त्विषिः᳚ । सा । ते॒ । ति॒त्वि॒षा॒णस्य᳚ । न । आ॒॑धृषे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वं पुरुरूपः सन् विशे विशे सर्वस्मै यजमानाय प्रत्नथा पुराण इव वयोऽन्नं दधासि । धारयसि । हे पुरुष्टुत बहुभिः स्तुत्य पुरूणि बहून्यन्नान्नानि चरुपुरोडाशादीनि सहसा बलेन वि राजसि । ईश्वरो भवसि स्वीकर्तुम् । तित्विषाणस्य दीप्तस्य ते तव सा प्रसिद्धा त्विषिर्दीप्तिर्नाधृषे । अन्यैरधृष्या भवति ॥ ५ ॥

5.8.6
त्वाम᳚ग्ने समिधा॒नं य᳚विष्ठ्य दे॒वा दू॒तं च᳚क्रिरे हव्य॒वाह᳚नम् ।
उ॒रु॒ज्रय᳚सं घृ॒तयो᳚नि॒माहु᳚तं त्वे॒षं चक्षु᳚र्दधिरे चोद॒यन्म᳚ति ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । स॒म्॑इ॒धा॒नम् । य॒वि॒ष्ठ्य॒ । दे॒वाः । दू॒तम् । च॒क्रि॒रे॒ । ह॒व्य॒॑वाह᳚नम् ।
उ॒रु॒॑ज्रय᳚सम् । घृ॒त॑यो᳚निम् । आ॑हु᳚तम् । त्वे॒षम् । चक्षुः᳚ । द॒धि॒रे॒ । चो॒द॒यत्॑म᳚ति ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे यविष्ठ्य युवतमाग्ने समिधानं सम्यगिध्यमानं त्वां हव्यवाहनं हविषां वोढारम् दूतं चक्रिरे । कृतवन्तो देवाः । त्रयाणामग्नीनां मध्ये हव्यवाहनः खलु पूर्वं देवैर्हविर्वहनाय दूतः कृतः । हव्यवाहनो देवानाम् । तै. सं. २-५-८-६ । इति हि श्रुतिः । किञ्च उरुज्रयसं प्रभूतवेगं घृतयोनिम् । घृतं योनिः कारणं यस्य तम् । आहुतं त्वां चोदयन्मति । चोदयन्ती मतिर्यस्य तच्चोदयन्मति । त्वेषं दीप्तं चक्षुरुक्तलक्षणं सर्वप्रकाशकं चक्षुः स्थानीयं कृत्वा दधिरे देवा मनुष्याश्च । मर्त्या हि चक्शुश्चोद्यते ॥ ६ ॥

5.8.7 समानपद
त्वाम᳚ग्ने प्र॒दिव॒ आहु᳚तं घृ॒तैः सु᳚म्ना॒यवः᳚ सुष॒मिधा॒ समी᳚धिरे ।
स वा᳚वृधा॒न ओष᳚धीभिरुक्षि॒तो॒३॒᳚॑भि ज्रयां᳚सि॒ पार्थि᳚वा॒ वि ति᳚ष्ठसे ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । प्र॒॑दिवः᳚ । आ॑हु᳚तम् । घृ॒तैः । सु॒म्न॒॑यवः᳚ । सु॒॑स॒मिधा᳚ । सम् । ई॒धि॒रे॒ ।
सः । व॒वृ॒धा॒नः । ओष᳚धीभिः । उ॒क्षि॒तः । अ॒भि । ज्रयां᳚सि । पार्थि᳚वा । वि । ति॒ष्ठ॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने घृतैराहुतं त्वां प्रदिवः पुरातनाः सुम्नायवः सुखमिच्छन्तो यजमानाः सुशमिधा शोभनेनेध्मेन समिधिरे । सम्यक् दीपितवन्तः । स त्वं वावृधानो वर्धमान ओषधीभिरुक्षितः सिक्तो ज्रयांस्यन्नानि पार्थिवा पार्थिवान्वृक्षान् । यद्वा । पार्थिवेति ज्रयोविशेशणम् । पार्थिवानि चरुपुरोडाशादिकान्यभि वितिष्ठसे । अभिव्यज्य वर्तसे ॥ ७ ॥

वेदार्थस्य प्रकाशेन तमे हार्दं निवारयन्
पुमार्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥
श्रीमत्सायण मन्त्रीशो दाशतय्यास्तृतीयके । अश्टके सप्तमाध्यायं व्याकार्षीदतिपेशलम् ॥