श्रवणम्

5.8.2
त्वाम᳚ग्ने॒ अति᳚थिं पू॒र्व्यं विशः᳚ शो॒चिष्के᳚शं गृ॒हप᳚तिं॒ नि षे᳚दिरे ।
बृ॒हत्के᳚तुं पुरु॒रूपं᳚ धन॒स्पृतं᳚ सु॒शर्मा᳚णं॒ स्वव᳚सं जर॒द्विष᳚म् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । अति᳚थिम् । पू॒र्व्यम् । विशः᳚ । शो॒चिः॑के᳚शम् । गृ॒ह॑प᳚तिम् । नि । से॒दि॒रे॒ ।
बृ॒हत्॑के᳚तुम् । पु॒रु॒॑रूप᳚म् । ध॒न॒॑स्पृत᳚म् । सु॒॑शर्मा᳚णम् । सु॒॑अव᳚सम् । ज॒र॒त्॑विष᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने त्वां विशो यजमाना गृहपतिं गृहस्वामिनं नि षेदिरे । गार्हपत्यरूपेण स्थापितवन्त इत्यर्थः । कीदृशं त्वाम् । अतिथिमतिथिवत्पूज्यं पूर्व्यं पुरातनं शोचिष्केशं दीप्तज्वालं बृहत्केतुं प्रभूतप्रज्ञानं पुरुरूपमावहनीयादिरूपेण बहुरूपं धनस्पृतं धनानां स्पर्तारं सुशर्माणं शोभनसुखं स्ववसं सुरक्षनं जरद्विषं जरतां वृक्षाणां व्यापकं जीर्णॊदकं वा ॥ २ ॥