श्रवणम्

5.8.1
त्वाम᳚ग्न ऋता॒यव॒ः समी᳚धिरे प्र॒त्नं प्र॒त्नास᳚ ऊ॒तये᳚ सहस्कृत ।
पु॒रु॒श्च॒न्द्रं य᳚ज॒तं वि॒श्वधा᳚यसं॒ दमू᳚नसं गृ॒हप᳚तिं॒ वरे᳚ण्यम् ॥
▶ पदपाठः (Word-by-word)
त्वाम् । अ॒ग्ने॒ । ऋ॒त॒॑यवः᳚ । सम् । ई॒धि॒रे॒ । प्र॒त्नम् । प्र॒त्नासः᳚ । ऊ॒तये᳚ । स॒हः॒॑कृ॒त॒ ।
पु॒रु॒॑च॒न्द्रम् । य॒ज॒तम् । वि॒श्व॑धा᳚यसम् । दमू᳚नसम् । गृ॒ह॑प᳚तिम् । वरे᳚ण्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्वामग्न इति सप्तर्चमष्टमं सूक्तमात्रेयस्येषस्यार्षं जागतमाग्नेयम् । त्वामग्ने सप्त जागतमित्यनुक्रमणिका । प्रातरनुवाक आग्नेये क्रतौ जागते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । तथा च सूत्रम् । जनस्य गोपस्त्वामग्ने ऋतायवः । आ. ४-१३ । इति ॥

हे सहस्कृत बलस्य कर्तरग्ने प्रत्नं पुरातनं त्वां प्रत्नासः पुरातना ऋतायवो यज्ञकामा ऋषय ऊतये स्वरक्षणाय समीधिरे । सम्यग्दीपितवन्तः । कीदृशं त्वाम् । पुरुश्चन्द्रं बहुधनमतिशयेनाह्लादकं वा यजतं यष्टव्यं विश्वधायसं बह्वन्नं दमूनसं दानमनसं गृहपतिं यजमानगृहस्य पालकं वरेण्यं वरणीयं ॥ १ ॥