अस्त॒मर्व᳚न्त आ॒शवो॑स्तं॒ नित्या᳚सो वा॒जिन॒ इषं᳚ स्तो॒तृभ्य॒ आ भ᳚र ॥
पदपाठः (Word-by-word)
अस्त᳚म् । अर्व᳚न्तः । आ॒शवः᳚ । अस्त᳚म् । नित्या᳚सः । वा॒जिनः᳚ । इष᳚म् । स्तो॒तृ॑भ्यः᳚ । आ । भ॒र॒ ॥
सायणभाष्यम् (Sayana Commentary)
अग्निं तं मन्य इति दशर्चं षष्ठं सूक्तं वसुश्रुतस्यार्षमाग्नेयं पाङ्ग्क्तम् । अग्निं तं दश पाङ्ग्क्तमित्यनुक्रमणिका । प्रातरनुवाक आग्नेये क्रतौ पाङ्के छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । अग्निं तं मन्य इति पाङ्क्तम् । आ. ४-१३ । इति हि सूत्रितं ॥ आश्वमेधिके मध्यमेऽहनिदमेवाज्यशस्त्रम् । सुत्रितं च । अग्निं तं मन्य इत्याज्यं तस्यैकाहिकमुपरिष्तात् । आ. १०-१० । इति । आद्य आभिप्लविकेषूक्थ्येषु मैत्रावरुणस्यानुरूपस्तृचः । सुत्रितं च । आग्निं तं मन्ये योवसुराग्ने स्थूरं रयिं भर । आ. ७-८ । इति ॥
तमग्निं मन्ये । स्त्ॐइ । योऽग्निर्वसुर्वासकः । यमस्तं सर्वेषां गृहवदाश्रयभूतं धेनवो यन्ति । गच्छन्ति प्रीणयितुम् । अस्तमुक्तलक्शणमर्वन्तोऽरणवन्तोऽश्वा आशवः शीघ्रगामिनो यन्ति । तथा नित्यासो नित्यप्रवृत्तयो वाजिनो हविर्लक्शणान्नवन्तो यजमाना यमस्तं यन्ति तं मन्ये । इषमन्नं स्तोतृभ्योऽस्मभ्यमा भराग्ने ॥ १ ॥