श्रवणम्

5.6.8
नवा᳚ नो अग्न॒ आ भ᳚र स्तो॒तृभ्य᳚ः सुक्षि॒तीरिषः᳚ ।
ते स्या᳚म॒ य आ᳚नृ॒चुस्त्वादू᳚तासो॒ दमे᳚दम॒ इषं᳚ स्तो॒तृभ्य॒ आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
नवाः᳚ । नः॒ । अ॒ग्ने॒ । आ । भ॒र॒ । स्तो॒तृ॑भ्यः᳚ । सु॒॑क्षि॒तीः । इषः᳚ ।
ते । स्या॒म॒ । ये । आ॒नृ॒चुः । त्वा॑दू᳚तासः । दमे᳚॑दमे । इष᳚म् । स्तो॒तृ॑भ्यः᳚ । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अग्ने सोत्तृभ्यो नोऽस्मभ्यं नवाः स्तुत्या नूत्ना वा सुक्षितीः सुनिवासाः सुप्रजा वा इष उक्तलक्षणान्यन्नान्या भर । प्रयच्छ । ये वयं दमे दमे सर्वेषु यागगृहेषु त्वामानृचुः । अर्चयन्ति । ते वयं त्वादूतासस्त्वां दूतं फलसूचकं लब्धवन्तः सन्तः स्याम । समृद्धा भूयास्म । दमे दमे स्यामेति वा योज्यं ॥ ८ ॥