श्रवणम्

5.6.3
अ॒ग्निर्हि वा॒जिनं᳚ वि॒शे ददा᳚ति वि॒श्वच᳚र्षणिः ।
अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या᳚ति॒ वार्य॒मिषं᳚ स्तो॒तृभ्य॒ आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । हि । वा॒जिन᳚म् । वि॒शे । ददा᳚ति । वि॒श्व॑च᳚र्षणिः ।
अ॒ग्निः । रा॒ये । सु॒॑आ॒भुव᳚म् । सः । प्री॒तः । या॒ति॒ । वार्य᳚म् । इष᳚म् । स्तो॒तृ॑भ्यः᳚ । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निर्ह्ययमग्निः खलु विशे यजमानाय वाजिनमन्नवन्तं पुत्रमश्वमन्नं वा ददाति । विश्वचर्षणिः । विश्वे चर्षनयो मनुष्या रक्षणीया अर्चका वा यस्य स तथोक्तः । यद्वा । पश्यतिकर्मैतत् । सर्वस्य द्रष्टाग्नी राये धनार्थिने । अथवा द्वितीयार्थे चतुर्थी । धनं स्वाभुवं सुष्ठु सर्वत्र व्याप्तं वार्यम् सर्वैर्वरणीयं प्रीतः सन् याति । यमयति । दातुं वा गच्छति । इषमित्यादिगतम् ॥ ३ ॥