श्रवणम्

5.6.10
ए॒वा{4} अ॒ग्निम᳚जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि᳚रानु॒षक् ।
दध᳚द॒स्मे सु॒वीर्य᳚मु॒त त्यदा॒श्वश्व्य॒मिषं᳚ स्तो॒तृभ्य॒ आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
ए॒व । अ॒ग्निम् । अ॒जु॒र्य॒मुः॒ । गीः॒॑भिः । य॒ज्ञेभिः᳚ । आ॒नु॒षक् ।
दध᳚त् । अ॒स्मे इति᳚ । सु॒॑वीर्य᳚म् । उ॒त । त्यत् । आ॒शु॒॑अश्व्य᳚म् । इष᳚म् । स्तो॒तृ॑भ्यः᳚ । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एवोक्तरीत्याग्निं गीर्भिः स्तुतिभिर्यज्ञेभिर्यज्ञैर्वा तत्साधनैर्हविर्भिर्वानुषगनुषक्तमजुः । गच्छन्ति । तथा कृत्वा यमुः । यमयन्ति । स्थापयन्ति । हविर्भिर्यजन्तीत्यर्थः । एवमात्रेयाः स्वान्परोक्षतया निर्दिशन्ति । अजुर्यमुरित्यत्राख्यातमाख्यातेन क्रियासातत्य इति समासः । किञ्च अस्मे अस्मासु सुवीर्यं शोभनपुत्रादिकमुतापि च त्यत्तदाश्वश्व्यम् । आशवोऽश्वा यस्य भवन्ति स आश्वश्वः । तस्य भाव् आश्वश्व्यम् । तदपि दधत् । धारयति ॥ १० ॥