श्रवणम्

5.6.4
आ ते᳚ अग्न इधीमहि द्यु॒मन्तं᳚ देवा॒जर᳚म् ।
यद्ध॒ स्या ते॒ पनी᳚यसी स॒मिद्दी॒दय᳚ति॒ द्यवीषं᳚ स्तो॒तृभ्य॒ आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
आ । ते॒ । अ॒ग्ने॒ । इ॒धी॒म॒हि॒ । द्यु॒॑मन्त᳚म् । दे॒व॒ । अ॒जर᳚म् ।
यत् । ह॒ । स्या । ते॒ । पनी᳚यसी । स॒म्॑इत् । दी॒दय᳚ति । द्यवि᳚ । इष᳚म् । स्तो॒तृ॑भ्यः᳚ । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोत्रियतृचस्या ते अग्ने इधीमहीत्यादिके प्रथमाद्वितिये । सूत्रितं च भवति । आ ते अग्ने इधीमह्युभे सुश्चन्द्र सर्पिष इति द्वे एका च । आ. ७-८ । इति ॥

हे अग्ने देव द्युमन्तं दीप्तिमन्तमजरमजीर्णं ते त्वामा सर्वत इधीमहि । दीपयामः । यद्ध खलु स्या सा ते तव पनीयसी स्तुत्या समिद्दीप्तिर्दीदयति । दीप्यते । द्यवि द्युलोके ॥ ४ ॥