श्रवणम्

5.6.9
उ॒भे सु᳚श्चन्द्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि᳚ ।
उ॒तो न॒ उत्पु᳚पूर्या उ॒क्थेषु᳚ शवसस्पत॒ इषं᳚ स्तो॒तृभ्य॒ आ भ᳚र ॥
▶ पदपाठः (Word-by-word)
उ॒भे इति᳚ । सु॒॑च॒न्द्र॒ । स॒र्पिषः᳚ । दर्वी॒ इति᳚ । श्री॒णी॒षे॒ । आ॒सनि᳚ ।
उ॒तो इति᳚ । नः॒ । उत् । पु॒पू॒र्याः॒ । उ॒क्थेषु᳚ । श॒व॒सः॒ । प॒ते॒ । इष᳚म् । स्तो॒तृ॑भ्यः᳚ । आ । भ॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिप्लविकेषुक्थ्येषु तृतीयसवने वैकल्पिकस्तोत्रियतृच उभे सुश्चन्द्रेत्येषा तृतीया । सूत्रमुक्तं ॥

हे सुश्चन्द्र शोभनाह्लादन शोभनहिरण्यवाग्ने उभे सर्पिषः पूर्णे दर्वी जुहूपभृतावासन्यास्ये श्रीणीषे । श्रयसि पचसि वा । उतो अपि च नोऽस्मानुक्थेषु यागेषूत्पुपूर्याः । उत्पूरय फलैः । हे शवसस्वते बलस्य पालयितः ॥ ९ ॥