पञ्चमं मण्डलम् - सूक्तम् 33

10 ऋचः

ऋषिः: संवरणः प्राजापत्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 5.33 - सम्पूर्णम्

1 / 10
ऋक्: 5.33.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
5.33.1
महि᳚ म॒हे त॒वसे᳚ दीध्ये॒ नॄनिन्द्रा᳚ये॒त्था त॒वसे॒ अत᳚व्यान् ।
यो अ᳚स्मै सुम॒तिं वाज᳚सातौ स्तु॒तो जने᳚ सम॒र्य᳚श्चि॒केत᳚ ॥
▶ पदपाठः (Word-by-word)
महि᳚ । म॒हे । त॒वसे᳚ । दी॒ध्ये॒ । नॄन् । इन्द्रा᳚य । इ॒त्था । त॒वसे᳚ । अत᳚व्यान् ।
यः । अ॒स्मै॒ । सु॒॑म॒तिम् । वाज᳚॑सातौ । स्तु॒तः । जने᳚ । स॒॑म॒र्यः᳚ । चि॒केत᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

य्स्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् । निर्ममेतमहंवन्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

चतुर्थेप्रथमाध्यायंव्याख्यायव्याकृतिक्षमः । सुधीःश्रीसायणाचार्योद्वितीयंव्याचिकीर्षति ॥ २ ॥

तत्रात्रेः पंचमेमंडलेतृतीयेनुवाकेद्वादशसूक्तानि तत्रमहिमहइतिदशर्चंप्रथमंसूक्तं प्रजापतिपुत्रः संवरणऋषिः त्रिष्टुप् छन्दः इन्द्रोदेवता तथाचानुक्रान्तं – महिदशप्राजापत्यः संवरणइति । विनियोगोलैंगिकः ।

अहंसंवरणः अतव्यान् अत्यन्तमिवदुर्बलः सन् महि महत् प्रभूतंस्तोत्रं महे महते तवसे बलवतइन्द्रायेत्था इत्थंवक्ष्यमाणप्रकारेणदीध्ये दीपयामि प्रकाशयामि किमर्थं नॄन् षष्ठ्यर्थेद्वितीया मनुष्याणामस्मदीयानांत्वसेबलाय यद्वा नॄनस्मद्विरोधिनामभिभवायेतिशेषः तदर्थंतवसेस्मद्बलाय इन्द्रोस्मैजने जनायसंवरणाय वाजसातौ संग्रामे वाजस्यान्नस्यवालाभेनिमित्तेसतिस्तुतः सन् सुमतिं समर्थः मर्त्यैः स्तोतृभिः सहितः यद्वा सहम्रियमाणैर्युध्यमानैर्मरुदादिभिः अथवा समरार्हः चिकेत जानाति ॥ १ ॥

5.33.2
स त्वं न᳚ इन्द्र धियसा॒नो अ॒र्कैर्हरी᳚णां वृष॒न्योक्त्र᳚मश्रेः ।
या इ॒त्था म᳚घव॒न्ननु॒ जोषं॒ वक्षो᳚ अ॒भि प्रार्यः स᳚क्षि॒ जना᳚न् ॥
▶ पदपाठः (Word-by-word)
सः । त्वम् । नः॒ । इ॒न्द्र॒ । धि॒य॒सा॒नः । अ॒र्कैः । हरी᳚णाम् । वृ॒ष॒न् । योक्त्र᳚म् । अ॒श्रेः॒ ।
याः । इ॒त्था । म॒घ॒॑व॒न् । अनु᳚ । जोष᳚म् । वक्षः᳚ । अ॒भि । प्र । अ॒र्यः । स॒क्षि॒ । जना᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेवृषन् वर्षकेन्द्र सप्रसिद्धस्त्वंनोस्मान्धियसानोध्यायन् अर्कैरर्चनसाधनैः स्तोत्रैर्निमित्तभूतैः हरीणांथेनियोज्यानामश्वानां -योक्त्रंनियोजनरज्जुमश्रेःआश्रयसि याः लिंगव्यत्ययः यानर्कान् हेभघवन् इत्थाइत्थं जोषं प्रीतिं अनुवक्षोऽवहस्तैर्निमित्तैर्योक्त्रमश्रेरिति तथाकृत्वा अर्योस्मदरीन् जनान् अभि आभिमुख्येन प्र प्रकृष्टं सक्षि पराभव ॥ २ ॥

5.33.3
न ते त᳚ इन्द्रा॒भ्य१॒᳚स्मदृ॒ष्वायु᳚क्तासो अब्र॒ह्मता॒ यदस᳚न् ।
तिष्ठा॒ रथ॒मधि॒ तं व᳚ज्रह॒स्ता र॒श्मिं दे᳚व यमसे॒ स्वश्व᳚ः ॥
▶ पदपाठः (Word-by-word)
न । ते । ते॒ । इ॒न्द्र॒ । अ॒भि । अ॒स्मत् । ऋ॒ष्व॒ । अयु᳚क्तासः । अ॒ब्र॒ह्मता᳚ । यत् । अस᳚न् ।
तिष्ठ᳚ । रथ᳚म् । अधि᳚ । तम् । व॒ज्र॒॑ह॒स्त॒ । आ । र॒श्मिम् । दे॒व॒ । य॒म॒से॒ । सु॒॑अश्वः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋष्व महन् इन्द्र यत् ये अस्मदस्मत्तः त्वद्भक्तेभ्योन्ये अयुक्तासः त्वया असंयुक्ताअसन् आसन् अभवन् अब्रह्मता ब्रह्मपरिवृढंकर्मतद्रहितत्वात् तेनरास्तेत्वदीयानभवन्ति अतोस्मद्यज्ञमभ्यागन्तुं तं प्रसिद्धं रथं अधितिष्ठ हेवज्रह्स्तेन्द्र देव स्वश्वः त्वंयंरथमारोढुंरश्मिंप्रग्रहं आयमसे नियमयसितमधितिष्ठ ॥ ३ ॥

5.33.4 समानपद
पु॒रू यत्त᳚ इन्द्र॒ सन्त्यु॒क्था गवे᳚ च॒कर्थो॒र्वरा᳚सु॒ युध्य᳚न् ।
त॒त॒क्षे सूर्या᳚य चि॒दोक᳚सि॒ स्वे वृषा᳚ स॒मत्सु᳚ दा॒सस्य॒ नाम᳚ चित् ॥
▶ पदपाठः (Word-by-word)
पु॒रु । यत् । ते॒ । इ॒न्द्र॒ । सन्ति᳚ । उ॒क्था । गवे᳚ । च॒कर्थ᳚ । उ॒र्वरा᳚सु । युध्य᳚न् ।
त॒त॒क्षे । सूर्या᳚य । चि॒त् । ओक᳚सि । स्वे । वृषा᳚ । स॒मत्॑सु᳚ । दा॒सस्य᳚ । नाम᳚ । चि॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र ते तव यद्यदास्वभूतानि पुरु पुरूणि बहूनि उक्था उक्थानिशस्त्रांणसन्ति तदा उर्वरासु सस्योपेतासुभूमिषु निमित्तभूतासु गवे वृष्ट्युदकाय युध्यन् जलप्रतिबन्धकान् संहरन् चकर्थ करोषि भेदनं कुत्रेतिसूर्याय सूर्यस्यस्वेस्वकीयेओकसिस्थाने वृषा वर्षितासन् ततक्षे भेदनं संपादयसि समत्सु संग्रामेषु दासस्य वृष्टिप्रतिबन्धकर्तुरेतन्नामकस्यासुरस्य नामचित् नामापि ततक्षे नाशयसीत्यर्थः ॥ ४ ॥

5.33.5
व॒यं ते त᳚ इन्द्र॒ ये च॒ नर॒ः शर्धो᳚ जज्ञा॒ना या॒ताश्च॒ रथा᳚ः ।
आस्माञ्ज᳚गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्य᳚ः प्रभृ॒थेषु॒ चारु᳚ः ॥
▶ पदपाठः (Word-by-word)
व॒यम् । ते । ते॒ । इ॒न्द्र॒ । ये । च॒ । नरः᳚ । शर्धः᳚ । ज॒ज्ञा॒नाः । या॒ताः । च॒ । रथाः᳚ ।
आ । अ॒स्मान् । ज॒ग॒म्या॒त् । अ॒हि॒॑शु॒ष्म॒ । सत्वा᳚ । भगः᳚ । न । हव्यः᳚ । प्र॒॑भृ॒थेषु᳚ । चारुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र येचनरः कर्मणांनेतारऋत्विग्यजमानाः वयंस्मः तेवयं ते त्वदीयाः कीदृशावयं शधोंबलंजज्ञानाः उत्पादयन्तः स्तुतिभिः याताश्चहोतुंत्वांप्राप्ताश्च रथाः रंहणशीलाश्च किंच हेअहिशुष्मअहिरयनात् सर्वतोव्याप्तबलेन्द्र त्वदनुग्रहात् हव्यः स्तुत्यः प्रतिभटैराह्वातव्योवा चारुः संगंता सत्वाभृत्यादिः प्रभृथेषुसंग्रामेषुवा अस्मानाजगम्यात आगच्छेत् भगोन भगइव हव्यश्चारुः भगदेवोयथास्मत्सहायआगच्छति तथा भृत्यादिरागच्छेदित्यर्थः ॥ ५ ॥

5.33.6
प॒पृ॒क्षेण्य᳚मिन्द्र॒ त्वे ह्योजो᳚ नृ॒म्णानि᳚ च नृ॒तमा᳚नो॒ अम᳚र्तः ।
स न॒ एनीं᳚ वसवानो र॒यिं दा॒ः प्रार्यः स्तु᳚षे तुविम॒घस्य॒ दान᳚म् ॥
▶ पदपाठः (Word-by-word)
प॒पृ॒क्षेण्य᳚म् । इ॒न्द्र॒ । त्वे इति᳚ । हि । ओजः᳚ । नृ॒म्णानि᳚ । च॒ । नृ॒तमा᳚नः । अम᳚र्तः ।
सः । नः॒ । एनी᳚म् । व॒स॒वा॒नः॒ । र॒यिम् । दाः॒ । प्र । अ॒र्यः । स्तु॒षे॒ । तु॒वि॒॑म॒घस्य᳚ । दान᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र पपृक्षेण्यं संपर्कार्हं पूज्यंवा ओजोबलंत्वेहि त्वयिखलु त्वदधीनमित्यर्थः नृतमानोनृत्यन्नमर्तोमरणधर्मा सत्वं वसवानः आच्छादयन् स्वतेजसाजगत् नृम्णानि नृमणानि द्रविणानि वक्ष्यमाणरय्यपेक्षयाचशब्दः एनीं एनवर्णां श्वेतवर्णां नोस्मभ्यंरयिंधनंदाः देहि अहंच अर्यईश्वरस्यतुविमघ्रस्य प्रभूतधनस्यचदानंप्रस्तुषे स्तौमि ॥ ६ ॥

5.33.7
ए॒वा न᳚ इन्द्रो॒तिभि᳚रव पा॒हि गृ᳚ण॒तः शू᳚र का॒रून् ।
उ॒त त्वचं॒ दद᳚तो॒ वाज᳚सातौ पिप्री॒हि मध्व॒ः सुषु᳚तस्य॒ चारो᳚ः ॥
▶ पदपाठः (Word-by-word)
ए॒व । नः॒ । इ॒न्द्र॒ । ऊ॒ति॑भिः᳚ । अ॒व॒ । पा॒हि । गृ॒ण॒तः । शू॒र॒ । का॒रून् ।
उ॒त । त्वच᳚म् । दद᳚तः । वाज᳚॑सातौ । पि॒प्री॒हि । मध्वः᳚ । सु॑सु᳚तस्य । चारोः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशूरेन्द्र एव एवं नोस्मान्गृणतः स्तुवतः कारून् कर्तॄन् ऋत्विजः ऊतिभिः रक्षणैः अवपाहि अवपालय उतापिच वाजसातौ संग्रामे त्वचं आच्छादकंरूपंददतः प्रयच्छतः सुषुतस्यसुष्ठ्वभिषुतस्यचारोर्मनोहरस्यमध्वः सोमस्य पिप्रीहि प्रीणयात्मानं द्वितीयार्थेषष्ठी उक्तलक्षणंसोमंपिबेत्यर्थः अथवा तृतीयार्थेषष्ठी उक्तलक्षणेनसोमपानेनप्रीणय ॥ ७ ॥

5.33.8
उ॒त त्ये मा᳚ पौरुकु॒त्स्यस्य᳚ सू॒रेस्त्र॒सद᳚स्योर्हिर॒णिनो॒ ररा᳚णाः ।
वह᳚न्तु मा॒ दश॒ श्येता᳚सो अस्य गैरिक्षि॒तस्य॒ क्रतु᳚भि॒र्नु स᳚श्चे ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्ये । मा॒ । पौ॒रु॒॑कु॒त्स्यस्य᳚ । सू॒रेः । त्र॒सद᳚स्योः । हि॒र॒णिनः᳚ । ररा᳚णाः ।
वह᳚न्तु । मा॒ । दश᳚ । श्येता᳚सः । अ॒स्य॒ । गै॒रि॒॑क्षि॒तस्य᳚ । क्रतु᳚॑भिः । नु । स॒श्चे॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

त्रसदुस्युश्चविदथोध्वन्यश्चेतित्रयोनृपाः अश्वान् धनानिगाश्चादुरृषये त्द्वदत्यृषिः उतअपिच त्ये ते मा चतुर्थ्यर्थेद्वितीया मह्यमित्यर्थः रराणाःरातेर्दानार्थस्यकर्मणिलिटः कानचिरूपं दत्ताइत्यर्थः पौरुकुत्स्यस्य पुरुकुत्सापत्यस्य सूरेः प्रेरकस्य हिरणिनोहिरण्यवतोस्य त्रसदस्योः एतन्नामकस्यराजर्षेः गैरिक्षितस्य मिरिक्षितगोत्रोत्पन्नस्य श्येतासः शुभ्रवर्णाः दशाश्वाः मा मां वहन्तु प्रापयन्तु अहंचक्रतुभिः कर्मभीरथयोजनादिभिः यज्ञादिभिर्वानु क्षिप्रं सश्चे गच्छेयम् ॥ ८ ॥

5.33.9
उ॒त त्ये मा᳚ मारु॒ताश्व᳚स्य॒ शोणा॒ः क्रत्वा᳚मघासो वि॒दथ᳚स्य रा॒तौ ।
स॒हस्रा᳚ मे॒ च्यव᳚तानो॒ ददा᳚न आनू॒कम॒र्यो वपु᳚षे॒ नार्च᳚त् ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्ये । मा॒ । मा॒रु॒त॑अ᳚श्वस्य । शोणाः᳚ । क्रत्वा᳚॑मघासः । वि॒दथ᳚स्य । रा॒तौ ।
स॒हस्रा᳚ । मे॒ । च्यव᳚तानः । ददा᳚नः । आ॒नू॒कम् । अ॒र्यः । वपु᳚षे । न । आ॒र्च॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उत अपिच त्ये येअश्वाः वक्ष्यमाणाः मारुताश्वस्य मरुत्सदृशवेगाश्ववान् मरुताश्वः तदपत्यस्यविदथस्यैतन्नामकस्यराज्ञःशोणाः शोणवर्णाः क्रत्वामघासः क्रतुनाकर्मणाशीघ्रगमनादिलक्षणेनमहनीयाः अश्वाः रातौदानेविनियुक्तामांवहन्तीतिशेषः किंच सहस्रा सहस्राणि अपरिमितानिधानानिअर्यः पूज्यस्य मे च्तुर्थ्यर्थेषष्ठी पूज्याय मह्यंच्यवतानः च्यावयन् ददानः प्रयच्छन् सः आनूकं आभरणंच वपुषे स्वशरीरालंकाराय आर्चत् प्रायच्छत् नेतिचार्थे ॥ १ ॥

5.33.10
उ॒त त्ये मा᳚ ध्व॒न्य᳚स्य॒ जुष्टा᳚ लक्ष्म॒ण्य᳚स्य सु॒रुचो॒ यता᳚नाः ।
म॒ह्ना रा॒यः सं॒वर᳚णस्य॒ ऋषे᳚र्व्र॒जं न गाव॒ः प्रय᳚ता॒ अपि᳚ ग्मन् ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्ये । मा॒ । ध्व॒न्य᳚स्य । जुष्टाः᳚ । ल॒क्ष्म॒ण्य᳚स्य । सु॒॑रुचः᳚ । यता᳚नाः ।
म॒ह्ना । रा॒यः । स॒म्॑वर᳚णस्य । ऋषेः᳚ । व्र॒जम् । न । गावः᳚ । प्र॑य᳚ताः । अपि᳚ । ग्म॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच त्ये ते वक्ष्यमाणारायः ध्वन्यस्य ध्वन्यनामकस्यलक्ष्मण्यस्य लक्ष्मणपुत्रस्य राज्ञःसंबन्धिनोश्वाः जुष्ठाः मांप्राप्ताः सुरुचः शोभनदीप्तयः यतानाः वहमानाययतमानाः रायः मह्नामहत्त्वेनयुक्तारायः प्रयताः दत्ताः सत्यः संवरणस्यऋषेःअपिग्मन् अपिगताः प्राप्तामद्गृहमितिशेषःव्रजंनगावः गोष्ठंगावइव यद्वा नेतिचार्थे गावश्चममव्रजंअपिग्मन् अत्रैन्द्रेसूक्तेप्रायेणैन्द्रमरुतोराज्ञांचदानस्तुतय -इत्युक्तत्वाद्राज्ञांदानस्तुतिरविरुद्धा ॥ १० ॥

अजातश मितिनवर्चंद्वितीयंसूक्तं प्राजापत्यस्यसंवरणस्यार्षमैन्द्रं नवमीत्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषयाजगत्यः अजातशत्रुंनवत्रिष्टुबन्तमित्युनुक्रमणिका । विनियोगोलैंगिकः ।