ह॒व्या दे॒वेषु᳚ नो दधत् ॥
पदपाठः (Word-by-word)
ह॒व्या । दे॒वेषु᳚ । नः॒ । द॒ध॒त् ॥
सायणभाष्यम् (Sayana Commentary)
हेस्तोतः अमर्त्यं अमरणधर्माणमग्निंस्तोमेनस्तोत्रेणबोधय स्वाभिलषितार्थसिद्धयेप्रबोधय योग्निःसमिधानः स्तोत्रैःसम्यक् प्रकाशमानः सनोहव्या अस्मदीयानिहव्यानिहवींषि देवेषुदधत् निदधातु ॥ १ ॥