अ॒ग्निर्जा॒तो अ᳚रोचत॒ घ्नन्दस्यू॒ञ्ज्योति᳚षा॒ तमः᳚ ।
अवि᳚न्द॒द्गा अ॒पः स्व᳚ः ॥
अवि᳚न्द॒द्गा अ॒पः स्व᳚ः ॥
पदपाठः (Word-by-word)
अ॒ग्निः । जा॒तः । अ॒रो॒च॒त॒ । घ्नन् । दस्यू᳚न् । ज्योति᳚षा । तमः᳚ ।
अवि᳚न्दत् । गाः । अ॒पः । स्वः᳚ ॥
अवि᳚न्दत् । गाः । अ॒पः । स्वः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
जातः अरण्योर्मथ्यमानेनप्रादुर्भूतोग्निः दस्यून्यज्ञविघ्नकारिणः शत्रून् घ्नन् हिंसन् ज्योतिषा स्वेनतेजसा तमोघ्नन् अरोचत अदीप्यत किंच गाः अपः उदकानि स्वः सूर्यंच अविन्दत् अवेदयत् ॥ ४ ॥