श्रवणम्

5.14.1
अ॒ग्निं स्तोमे᳚न बोधय समिधा॒नो अम᳚र्त्यम् ।
ह॒व्या दे॒वेषु᳚ नो दधत् ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । स्तोमे᳚न । बो॒ध॒य॒ । स॒म्॑इ॒धा॒नः । अम᳚र्त्यम् ।
ह॒व्या । दे॒वेषु᳚ । नः॒ । द॒ध॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्तोतः अमर्त्यं अमरणधर्माणमग्निंस्तोमेनस्तोत्रेणबोधय स्वाभिलषितार्थसिद्धयेप्रबोधय योग्निःसमिधानः स्तोत्रैःसम्यक् प्रकाशमानः सनोहव्या अस्मदीयानिहव्यानिहवींषि देवेषुदधत् निदधातु ॥ १ ॥