तम᳚ध्व॒रेष्वी᳚ळते दे॒वं मर्ता॒ अम᳚र्त्यम् ।
यजि᳚ष्ठं॒ मानु᳚षे॒ जने᳚ ॥
यजि᳚ष्ठं॒ मानु᳚षे॒ जने᳚ ॥
पदपाठः (Word-by-word)
तम् । अ॒ध्व॒रेषु᳚ । ई॒ळ॒ते॒ । दे॒वम् । मर्ताः᳚ । अम᳚र्त्यम् ।
यजि᳚ष्ठम् । मानु᳚षे । जने᳚ ॥
यजि᳚ष्ठम् । मानु᳚षे । जने᳚ ॥
सायणभाष्यम् (Sayana Commentary)
मर्ताः मनुष्याः देवंद्योतमानममर्त्यं अमरणधर्माणं मानुषे मनुष्याणांसंबन्धिनि जने लोके यजिष्ठं यष्टृतमं तमग्निं अध्वरेषु सप्ततंतुषु ईळते स्तुवन्ति ॥ २ ॥