पञ्चमं मण्डलम् - सूक्तम् 38

5 ऋचः

ऋषिः: भौमोत्रिः देवता: इंद्रः छन्दः: अनुष्टुप्

सूक्तम् 5.38 - सम्पूर्णम्

1 / 5
ऋक्: 5.38.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
5.38.1
उ॒रोष्ट᳚ इन्द्र॒ राध᳚सो वि॒भ्वी रा॒तिः श᳚तक्रतो ।
अधा᳚ नो विश्वचर्षणे द्यु॒म्ना सु᳚क्षत्र मंहय ॥
▶ पदपाठः (Word-by-word)
उ॒रोः । ते॒ । इ॒न्द्र॒ । राध᳚सः । वि॒॑भ्वी । रा॒तिः । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
अध᳚ । नः॒ । वि॒श्व॒॑च॒र्ष॒णे॒ । द्यु॒म्ना । सु॒॑क्ष॒त्र॒ । मं॒ह॒य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र शतक्रतो बहुकर्मन् तेतव उरोः प्रभूतस्यराधसोधनस्य रातिर्दानं विभ्वीमहती अध अतःकारणात् नोस्मभ्यं हेविश्वचर्षणे सर्वस्यद्रष्टः सुक्षत्र शोभनधनेन्द्र क्षत्रमितिधननाम द्युम्ना द्युम्नानिधनानिमंहय प्रयच्छ ॥ १ ॥

5.38.2
यदी᳚मिन्द्र श्र॒वाय्य॒मिषं᳚ शविष्ठ दधि॒षे ।
प॒प्र॒थे दी᳚र्घ॒श्रुत्त᳚मं॒ हिर᳚ण्यवर्ण दु॒ष्टर᳚म् ॥
▶ पदपाठः (Word-by-word)
यत् । ई॒म् । इ॒न्द्र॒ । श्र॒वाय्य᳚म् । इष᳚म् । श॒वि॒ष्ठ॒ । द॒धि॒षे ।
प॒प्र॒थे । दी॒र्घ॒श्रुत्॑त᳚मम् । हिर᳚ण्य॑वर्ण । दु॒स्तर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र शविष्ठ अतिशयेनबलवन् यत् इषमन्नंश्रवाय्यंश्रवणीयं ईं सर्वतोदावो धारयसि ददासिवा इषशब्दोनपुंसकलिंगोप्यस्ति हेहिरण्यवर्णेन्द्र तदन्नं पप्रथेप्रथते कथदीर्घश्रुत्तमं अतिदूरश्रवणीयतमं सर्वत्रकीर्त्यमित्यर्थः दुष्टरं अनभिभाव्यं उक्तलक्षणंप्रथते ॥ २ ॥

5.38.3
शुष्मा᳚सो॒ ये ते᳚ अद्रिवो मे॒हना᳚ केत॒सापः᳚ ।
उ॒भा दे॒वाव॒भिष्ट᳚ये दि॒वश्च॒ ग्मश्च᳚ राजथः ॥
▶ पदपाठः (Word-by-word)
शुष्मा᳚सः । ये । ते॒ । अ॒द्रि॒॑वः॒ । मे॒हना᳚ । के॒त॒॑सापः᳚ ।
उ॒भा । दे॒वौ । अ॒भिष्ट᳚ये । दि॒वः । च॒ । ग्मः । च॒ । रा॒ज॒थः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअद्रिवोवज्रवन्निन्द्र तेत्वदीयाः येशुष्मासोबलभूतामरुतःसन्ति कीद्रुशास्ते मेहना मंहनीयाः केतसापः प्रज्ञापकंकर्मान्तरिक्षंवास्पृशन्त उभौदेवौ त्वंच मरुत्समूहश्चेत्युभौ युवांदिवश्च द्युलोकात् ग्मश्च भूमेःसकाशात् अभिष्टये अभितोगमनाय राजथः ईशाथे ॥ ३ ॥

5.38.4
उ॒तो नो᳚ अ॒स्य कस्य᳚ चि॒द्दक्ष᳚स्य॒ तव᳚ वृत्रहन् ।
अ॒स्मभ्यं᳚ नृ॒म्णमा भ᳚रा॒स्मभ्यं᳚ नृमणस्यसे ॥
▶ पदपाठः (Word-by-word)
उ॒तो इति᳚ । नः॒ । अ॒स्य । कस्य᳚ । चि॒त् । दक्ष᳚स्य । तव᳚ । वृ॒त्र॒॑ह॒न् ।
अ॒स्मभ्य᳚म् । नृ॒म्णम् । आ । भ॒र॒ । अ॒स्मभ्य᳚म् । नृ॒॑म॒न॒स्य॒से॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतो अपिच हेवृत्रहन्निन्द्र नोस्मभ्यं कस्यचिदनिर्देश्यस्यदक्षस्यप्रवृद्धस्यादातुर्वास्यतवस्वभूतेभ्योस्मभ्यं पुनः श्रुतिरादरार्था नृम्णं नृमणं धनमाभरआहर हेइन्द्र यतस्त्वमस्मभ्यंनृमणस्यसे धनमिच्छसि ॥ ४ ॥

5.38.5
नू त᳚ आ॒भिर॒भिष्टि᳚भि॒स्तव॒ शर्म᳚ञ्छतक्रतो ।
इन्द्र॒ स्याम᳚ सुगो॒पाः शूर॒ स्याम᳚ सुगो॒पाः ॥
▶ पदपाठः (Word-by-word)
नु । ते॒ । आ॒भिः । अ॒भिष्टि᳚॑भिः । तव᳚ । शर्म᳚न् । श॒त॒क्र॒तो॒ इति᳚ शत॑क्रतो ।
इन्द्र᳚ । स्याम᳚ । सु॒॑गो॒पाः । शूर᳚ । स्याम᳚ । सु॒॑गो॒पाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशतक्रतो इन्द्र ते तवाभिरभिष्टिभिः अभिगमनैर्नु शीघ्रं समृद्धाभवेमेतिशेषः हेइन्द्र तवशर्मन् शर्मणि सुखेसति सुगोपाः स्याम भवेम हेशूर तवशर्मणिसुगोपाः शोभनरक्षणाःस्याम भवेम पुनरुक्तिरादरार्था ॥ ५ ॥

यदिन्द्रचित्रेतिपंचर्चंसप्तमंसूक्तं अत्रेरार्षं ऎन्द्रं अंत्यापंक्तिः शिष्टापंत्यन्तरिभाषयानुष्टुभः यदिन्द्रपंक्तयन्तमित्यनुक्रमणिका आभिप्लविकेषुक्थ्येषुतृतीयसवनेआद्यस्तृचोच्छावाकस्यवैकल्पिकस्तोत्रियः सूत्रितंच-यदिन्द्रचित्रमेहनायस्तेसाधिष्ठोवसइति ।