पञ्चमं मण्डलम् - सूक्तम् 29

15 ऋचः

ऋषिः: गौरवीतिः शाक्त्यः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 5.29 - सम्पूर्णम्

1 / 15
ऋक्: 5.29.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
5.29.1
त्र्य᳚र्य॒मा मनु᳚षो दे॒वता᳚ता॒ त्री रो᳚च॒ना दि॒व्या धा᳚रयन्त ।
अर्च᳚न्ति त्वा म॒रुतः᳚ पू॒तद᳚क्षा॒स्त्वमे᳚षा॒मृषि᳚रिन्द्रासि॒ धीरः᳚ ॥
▶ पदपाठः (Word-by-word)
त्री । अ॒र्य॒मा । मनु᳚षः । दे॒व॑ता᳚ता । त्री । रो॒च॒ना । दि॒व्या । धा॒र॒य॒न्त॒ ।
अर्च᳚न्ति । त्वा॒ । म॒रुतः᳚ । पू॒त॑द᳚क्षाः । त्वम् । ए॒षा॒म् । ऋषिः᳚ । इ॒न्द्र॒ । अ॒सि॒ । धीरः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

मनुषोमनोःसंबंधिनिदेवताता देवतातौ यज्ञे त्री त्रीणि अर्यमा अर्यमाणि यानितेजांसि सन्ति तथा त्री त्रीणि रोचना रोचनानि वाय्वग्निसूर्यात्मकानि दिव्या दिव्यान्यंतरिक्षेभवानि तानि तेजांसि धारयन्त मरुतोधारयन्ति पूतदक्षाः शुद्धबलामरुतः त्वा त्वां अर्चन्ति स्तुवन्ति हेइन्द्र धीरः धीमांस्त्वं एषांमरुतांऋषिरसि द्रष्टाभवसि ॥ १ ॥

5.29.2
अनु॒ यदीं᳚ म॒रुतो᳚ मन्दसा॒नमार्च॒न्निन्द्रं᳚ पपि॒वांसं᳚ सु॒तस्य᳚ ।
आद᳚त्त॒ वज्र᳚म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर᳚सृज॒त्सर्त॒वा उ᳚ ॥
▶ पदपाठः (Word-by-word)
अनु᳚ । यत् । ई॒म् । म॒रुतः᳚ । म॒न्द॒सा॒नम् । आर्च᳚न् । इन्द्र᳚म् । प॒पि॒॑वांस᳚म् । सु॒तस्य᳚ ।
आ । अ॒द॒त्त॒ । वज्र᳚म् । अ॒भि । यत् । अहि᳚म् । हन् । अ॒पः । य॒ह्वीः । अ॒सृ॒ज॒त् । सर्त॒वै । ऊं॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदामरुतः मन्दसानं तृप्यन्तं सुतस्याभिषुतंसोमं पपिवांसं पीतवन्तं ईमेनमिन्द्रं अन्वार्चन् अन्वस्तुवन् तदेन्द्रः वज्रमादत्त आददौ ततोयद्यदाअहिंवृत्रंअहिहन् अभ्यहन् अभिहतवान् तदायह्वीर्महतीरपः वृत्रेणनिरुद्धान्युदकानि सर्तवैस्वैरत्वेनसर्तुंगन्तुंअसृजत् निरोधाच्चामुंचत् ॥ २ ॥

5.29.3
उ॒त ब्र᳚ह्माणो मरुतो मे अ॒स्येन्द्र॒ः सोम᳚स्य॒ सुषु᳚तस्य पेयाः ।
तद्धि ह॒व्यं मनु᳚षे॒ गा अवि᳚न्द॒दह॒न्नहिं᳚ पपि॒वा{4} इन्द्रो᳚ अस्य ॥
▶ पदपाठः (Word-by-word)
उ॒त । ब्र॒ह्मा॒णः॒ । म॒रु॒तः॒ । मे॒ । अ॒स्य । इन्द्रः᳚ । सोम᳚स्य । सु॑सु᳚तस्य । पे॒याः॒ ।
तत् । हि । ह॒व्यम् । मनु᳚षे । गाः । अवि᳚न्दत् । अह᳚न् । अहि᳚म् । प॒पि॒॑वान् । इन्द्रः᳚ । अ॒स्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतापिच हेब्रह्मणोबृहन्तोहेमरुतोयूयमिन्द्रश्च सुसुतस्य सुष्ठुअभिषुतस्य मे मदीयस्यास्य सोमस्य इमंसोमं द्वितीयार्थेषष्ठी पेयाः पिबत पिबतेराशीर्लिङिमध्यमबहुवचनस्यैकवचनं तद्धि ततखलु हव्यं युष्माभिःपीतंसोमात्मकंहविः मनुषे मनुष्याय यजमानाय गाः धेनूः वृष्टिलक्षणान्युदकानि वा अविन्दत् वेदयति यजमानंगालंभयतीत्यर्थः किंचास्येमंसोमंप पिवान् पीतवानिन्द्रः अहिंवृत्रं अहन् अवधीत् ॥ ३ ॥

5.29.4
आद्रोद᳚सी वित॒रं वि ष्क᳚भायत्संविव्या॒नश्चि᳚द्भि॒यसे᳚ मृ॒गं कः᳚ ।
जिग᳚र्ति॒मिन्द्रो᳚ अप॒जर्गु᳚राण॒ः प्रति᳚ श्व॒सन्त॒मव᳚ दान॒वं ह᳚न् ॥
▶ पदपाठः (Word-by-word)
आत् । रोद᳚सी॒ इति᳚ । वि॒॑त॒रम् । वि । स्क॒भा॒य॒त् । स॒म्॑वि॒व्या॒नः । चि॒त् । भि॒यसे᳚ । मृ॒गम् । क॒रिति᳚ कः ।
जिग᳚र्तिम् । इन्द्रः᳚ । अ॒प॒॑जर्गु᳚राणः । प्रति᳚ । श्व॒सन्त᳚म् । अव᳚ । दा॒न॒वम् । ह॒न्निति᳚ हन् ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्द्रः परमैश्वर्ययुक्तः आत् सोमपानानंतरं रोदसी द्यावापृथिव्यौ वितरमतिशयेन अमुचच्छन्दसीतिवेस्तरपिकृते अमुप्रत्ययः विष्कभायत् व्यस्तभ्रात् चलनरहिते अकरोत् संविव्यानश्चित् संवृण्वानः संगच्छमानोवेन्द्रः व्ययतेर्वासंवरणकर्मणोवेतेर्वागतिकर्मणोरूपं चिदित्येवेत्यस्यार्थेवर्तते मृगं मृगवत्पलायमानं वृत्रं भियसे भयाय कःअकार्षीत् करोतेर्लुङि मंत्रेघसह्वरे त्यादिनाच्लेर्लोपः बहुलंछन्दस्यमाङ् योगेपीत्यडभावः इन्द्रः जिगर्तिं गिरंतमाच्छादयन्तं श्वसंतं भयार्थंश्वासं अकुर्वन्तं दानवं दनोःपुत्रं वृत्रं अपजर्गुराणः आच्छादनाद्विमोचयन् प्रति प्रतिगत्य अवहन् अवहतवान् ॥ ४ ॥

5.29.5 समानपद
अध॒ क्रत्वा᳚ मघव॒न्तुभ्यं᳚ दे॒वा अनु॒ विश्वे᳚ अददुः सोम॒पेय᳚म् ।
यत्सूर्य᳚स्य ह॒रित॒ः पत᳚न्तीः पु॒रः स॒तीरुप᳚रा॒ एत᳚शे॒ कः ॥
▶ पदपाठः (Word-by-word)
अध᳚ । क्रत्वा᳚ । म॒घ॒॑व॒न् । तुभ्य᳚म् । दे॒वाः । अनु᳚ । विश्वे᳚ । अ॒द॒दुः॒ । सो॒म॒॑पेय᳚म् ।
यत् । सूर्य᳚स्य । ह॒रितः᳚ । पत᳚न्तीः । पु॒रः । स॒तीः । उप᳚राः । एत᳚शे । करिति॒ कः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अधापिच हेमघवन् धनवन्निन्द्र क्रत्वा क्रतुना त्वदीयेनकर्मणा विश्वे सर्वे देवाः द्योतमानावह्न्यादयः तुभ्यं त्वदर्थं सोमपेयं सोमपानं अन्वददुः आनुपूर्व्येणदत्तवन्तः ततःप्रभृतीन्द्रोदेवेभ्यः सर्वेभ्योधिकोभवदित्यर्थः तथाचश्रूयते-समहान्भूत्वादेवता अब्रवीदुद्धारंम -उद्धरतेत्यादि । हेइन्द्र यत् यस्त्वं पतन्तीरागच्छन्तीःपुरःसतीःपुरस्ताद्भवतीः सूर्यस्यसंबन्धिनीः हरितोवडवाः उपराउपरतीः मंदगतीःएतशे एतशाख्यायऋषये अकःअकार्षीत् एतशोहि स्वभावेनसूर्येणसहस्पर्धामकरोदितियावत् तथाचनिगमांतरे-प्रैतशंसूर्येपस्पृधानंसौवश्व्येसुष्विमावदिन्द्रइति ॥ ५ ॥

5.29.6
नव॒ यद᳚स्य नव॒तिं च᳚ भो॒गान्त्सा॒कं वज्रे᳚ण म॒घवा᳚ विवृ॒श्चत् ।
अर्च॒न्तीन्द्रं᳚ म॒रुतः᳚ स॒धस्थे॒ त्रैष्टु᳚भेन॒ वच᳚सा बाधत॒ द्याम् ॥
▶ पदपाठः (Word-by-word)
नव᳚ । यत् । अ॒स्य॒ । न॒व॒तिम् । च॒ । भो॒गान् । सा॒कम् । वज्रे᳚ण । म॒घ॑वा᳚ । वि॒॑वृ॒श्चत् ।
अर्च᳚न्ति । इन्द्र᳚म् । म॒रुतः᳚ । स॒ध॑स्थे᳚ । त्रैस्तु᳚भेन । वच᳚सा । बा॒ध॒त॒ । द्याम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा मघवा धनवानिन्द्रः अस्येत्यनेनशंबरउच्यते अस्यशंबरस्यसंबन्धीनि नवनवसंख्याकानि नवतिंच नवतिसंख्याकानिच भोगान् पुराणि भोगानित्यन्तोदात्तः पुरवचनः साकं युगपदेव वज्रेण विवृश्चत् व्यवृश्चत् अभिनत् तदामरुतःसधस्थे सहस्थाने युद्धेवा स्थितमिन्द्रं त्रैष्टुभेन त्रिष्टुछन्दस्केनवचसा वाग्रूपेण स्तोत्रेणार्चन्ति अस्तुवन् इन्द्रः एवंस्तुतःसन् द्यां मरुद्भिःप्रयज्यमानेन- मंत्रेणदीप्तंशंबराख्यमसुरं बाधताबाधत पिपीडे ॥ ६ ॥

5.29.7
सखा॒ सख्ये᳚ अपच॒त्तूय᳚म॒ग्निर॒स्य क्रत्वा᳚ महि॒षा त्री श॒तानि᳚ ।
त्री सा॒कमिन्द्रो॒ मनु᳚ष॒ः सरां᳚सि सु॒तं पि᳚बद्वृत्र॒हत्या᳚य॒ सोम᳚म् ॥
▶ पदपाठः (Word-by-word)
सखा᳚ । सख्ये᳚ । अ॒प॒च॒त् । तूय᳚म् । अ॒ग्निः । अ॒स्य । क्रत्वा᳚ । म॒हि॒षा । त्री । श॒तानि᳚ ।
त्री । सा॒कम् । इन्द्रः᳚ । मनु᳚षः । सरां᳚सि । सु॒तम् । पि॒ब॒त् । वृ॒त्र॒॑हत्या᳚य । सोम᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सखा इन्द्रस्यमित्रभूतोग्निः महिषा महिषाणांपशूनां त्री त्रीणि शतानि शतसंख्याकानि सख्ये सख्युर्मित्रभूतस्यास्येन्द्रस्य क्रत्वा कर्मणा निमित्तभूतेन तूयं क्षिप्रं अपचत् पपाच किंच इन्द्रःपरमैश्वर्ययुक्तः मनुषोमनोःसंबंधीनि त्री त्रीणिसरांसि पात्राणि अत्रसरस् शब्देन पूतभृदाधवनीयद्रोणकलशसंज्ञानिपात्राण्युच्यन्ते तेषुस्थितंसुतम भिषुतंसोमंसाकं युगपदेव वृत्रहत्याय वृत्रहननाय पिबदपिबत् पपौ ॥ ७ ॥

5.29.8
त्री यच्छ॒ता म᳚हि॒षाणा॒मघो॒ मास्त्री सरां᳚सि म॒घवा᳚ सो॒म्यापा᳚ः ।
का॒रं न विश्वे᳚ अह्वन्त दे॒वा भर॒मिन्द्रा᳚य॒ यदहिं᳚ ज॒घान᳚ ॥
▶ पदपाठः (Word-by-word)
त्री । यत् । श॒ता । म॒हि॒षाणा᳚म् । अघः᳚ । माः । त्री । सरां᳚सि । म॒घ॑वा᳚ । सो॒म्या । अपाः᳚ ।
का॒रम् । न । विश्वे᳚ । अ॒ह्व॒न्त॒ । दे॒वाः । भर᳚म् । इन्द्रा᳚य । यत् । अहि᳚म् । ज॒घान᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र त्वं यद्यदा त्री त्रयाणांशता शतसंख्याकानांमहिषाणांपशूनांमाः मांसानि अघःभक्षितवानसि घसेरत्तेर्वारूपं यदाच मघवाधनवांस्त्वं सोम्या सोममयानि त्री त्रीणि सरांसि पात्राणि अपाः पीतवानसि यद्यदाइन्द्रोहिंवृत्रं जघान हतवान् तदाविश्वेसर्वेदेवाः भरं सोमपानादिनापूर्णं इन्द्रायेन्द्रं युद्धार्थं अह्वंत आह्वयंत तत्रदृष्टान्तः-कारंन स्वामिनःकर्मकरमिव तद्वत् ॥ ८ ॥ उशनसःस्तोमेउशनायत् सहस्यैरितिमरुत्वतीयेसूक्तमुखीया सूत्रितंच-उशनसःस्तोमे नगरगीर्णमिवत्मानंमन्यमानोयजे तोशनाय -त्सहस्यैरयातमिति ।

5.29.9
उ॒शना॒ यत्स᳚ह॒स्यै॒३॒᳚रया᳚तं गृ॒हमि᳚न्द्र जूजुवा॒नेभि॒रश्वै᳚ः ।
व॒न्वा॒नो अत्र᳚ स॒रथं᳚ ययाथ॒ कुत्से᳚न दे॒वैरव᳚नोर्ह॒ शुष्ण᳚म् ॥
▶ पदपाठः (Word-by-word)
उ॒शना᳚ । यत् । स॒ह॒स्यैः᳚ । अया᳚तम् । गृ॒हम् । इ॒न्द्र॒ । जू॒जु॒वा॒नेभिः᳚ । अश्वैः᳚ ।
व॒न्वा॒नः । अत्र᳚ । स॒रथ᳚म् । य॒या॒थ॒ । कुत्से᳚न । दे॒वैः । अव᳚नोः । ह॒ । शुष्ण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यद्यदा हेइन्द्र त्वं उशनाकाव्यश्च सहस्यैरभिभवनशीलैःजूजुवानेभिः जूजुवानैर्गच्छद्भिः अश्वैः कुर्सस्यगृहं अयातं अगच्छतं तदा हेइन्द्र त्वं अस्मिन्काले वन्वानः शत्रून्हिंसन् कुत्सेन देवैश्चसह सरथं समानमेकंरथं ययाथ जगन्थ किंच शुष्णमेतन्ना मानमसुरं अवनोर्ह अहिंसीःखलु ॥ ९ ॥

5.29.10
प्रान्यच्च॒क्रम᳚वृह॒ः सूर्य᳚स्य॒ कुत्सा᳚या॒न्यद्वरि᳚वो॒ यात᳚वे॑कः ।
अ॒नासो॒ दस्यू{4}᳚रमृणो व॒धेन॒ नि दु᳚र्यो॒ण आ᳚वृणङ्मृ॒ध्रवा᳚चः ॥
▶ पदपाठः (Word-by-word)
प्र । अ॒न्यत् । च॒क्रम् । अ॒वृ॒हः॒ । सूर्य᳚स्य । कुत्सा᳚य । अ॒न्यत् । वरि᳚वः । यात᳚वे । अ॒क॒रित्य᳚कः ।
अ॒नासः᳚ । दस्यू᳚न् । अ॒मृ॒णः॒ । व॒धेन᳚ । नि । दु॒र्यो॒णे । अ॒वृ॒ण॒क् । मृ॒ध्र॑वा᳚चः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र पूर्वं द्विचक्रस्यसूर्यस्य अन्यदेकंचकक्रं प्रावृहः पृथक् चकर्थ अन्यदेकंचक्रं कुत्साय कुत्सस्यवरिवोधनं यातवे प्राप्तुं अकः अकार्षीः किंच अनासः आस्यरहितान् आस्यशब्देनशब्दोलक्ष्यते अशब्दान् मूकान् दस्यान् असुरान् वधेनायुधेनवज्रेण अमृणः अहिंसीः दुर्योणे संग्रामे मृध्रवाचः हिंसितवागिन्द्रियानसुरान् न्यवृणक् नितरांछिन्नवानसि अमृणोन्यवृणगितिद्विरुक्तिरादरार्था ॥ १० ॥

5.29.11
स्तोमा᳚सस्त्वा॒ गौरि᳚वीतेरवर्ध॒न्नर᳚न्धयो वैदथि॒नाय॒ पिप्रु᳚म् ।
आ त्वामृ॒जिश्वा᳚ स॒ख्याय᳚ चक्रे॒ पच᳚न्प॒क्तीरपि᳚ब॒ः सोम᳚मस्य ॥
▶ पदपाठः (Word-by-word)
स्तोमा᳚सः । त्वा॒ । गौरि᳚॑वीतेः । अ॒व॒र्ध॒न् । अर᳚न्धयः । वै॒द॒थि॒नाय᳚ । पिप्रु᳚म् ।
आ । त्वाम् । ऋ॒जिश्वा᳚ । स॒ख्याय᳚ । च॒क्रे॒ । पच᳚न् । प॒क्तीः । अपि᳚बः । सोम᳚म् । अ॒स्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र गौरिवीतेः एतन्नामकस्यमंत्रद्रष्टुर्ममसंबन्धीनिस्तोमासः स्तोत्राणि त्वा त्वां अवर्धन् वर्धयन्तु वैदथिनाय विदथिनःपुत्राय ऋजिश्वनाम्ने पिप्रुंएतन्नामकमसुरं अरंधयः वशमनयः हेइन्द्र ऋजिश्वनामकश्चिदृषिः सख्याय तवसखित्वाय पक्तीःपक्तव्यानि पुरोडाशादीनि पचन् पाकं कुर्वन् त्वा त्वां आचके अभिमुखीचकार किंच त्वं अस्य ऋजिश्वनः संबन्धिनं सोमं अपिबः अपाः ॥ ११ ॥ दशपेयेहनिमरुत्वतीयशस्त्रेनवग्वासइतिसूक्तमुखीया सूत्रितंच-नवग्वासःसुतसोमासइन्द्रंसखाहयत्रसखिभिर्नवग्वै रितिनिविद्धान -योराज्येइति ।

5.29.12
नव᳚ग्वासः सु॒तसो᳚मास॒ इन्द्रं॒ दश᳚ग्वासो अ॒भ्य᳚र्चन्त्य॒र्कैः ।
गव्यं᳚ चिदू॒र्वम᳚पि॒धान᳚वन्तं॒ तं चि॒न्नरः᳚ शशमा॒ना अप᳚ व्रन् ॥
▶ पदपाठः (Word-by-word)
नव᳚॑ग्वासः । सु॒त॑सो᳚मासः । इन्द्र᳚म् । दश᳚॑ग्वासः । अ॒भि । अ॒र्च॒न्ति॒ । अ॒र्कैः ।
गव्य᳚म् । चि॒त् । ऊ॒र्वम् । अ॒पि॒धान᳚॑वन्तम् । तम् । चि॒त् । नरः᳚ । श॒श॒मा॒नाः । अप᳚ । व्र॒न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नवग्वासः सत्रयागमनुतिष्ठन्तोयेनवभिर्मासैःसमाप्यगताः तेनवग्वाः दशभिर्मासैःसमाप्ययेगतास्तेदशग्वाः एतेउभयविधाअंगिरसः सुतसोमासः अभिषुतसोमाःसन्तः इन्द्रमर्कैरर्चनीयैःस्तोत्रैरभ्यर्चन्ति अभिष्टुवन्ति तथा शशमानाः स्तुवन्तः नरोनेतारोंगिरसः अपिधानवन्तं बलेनासुरेणाच्छादितवन्तं तंचित् बहुषुप्रदेशेषुप्रसिद्धमपि गव्यंचित् गोसंबंधिनमपि ऊर्वं समूहं अपव्रन् अपावृण्वन् ॥ १२ ॥ परिक्रीनाम्न्येकाहेमरुत्वतीयनिष्केवल्ययोःसूक्तमुखीये कथोनुतइत्याद्येद्वेऋचो सूत्रितंच- कथोनतेपरिचराणिविद्वानितिद्वेइति ।

5.29.13
क॒थो नु ते॒ परि᳚ चराणि वि॒द्वान्वी॒र्या᳚ मघव॒न्या च॒कर्थ᳚ ।
या चो॒ नु नव्या᳚ कृ॒णवः᳚ शविष्ठ॒ प्रेदु॒ ता ते᳚ वि॒दथे᳚षु ब्रवाम ॥
▶ पदपाठः (Word-by-word)
क॒थो इति᳚ । नु । ते॒ । परि᳚ । च॒रा॒णि॒ । वि॒द्वान् । वी॒र्या᳚ । म॒घ॒॑व॒न् । या । च॒कर्थ᳚ ।
या । चो॒ इति᳚ । नु । नव्या᳚ । कृ॒णवः᳚ । श॒वि॒ष्ठ॒ । प्र । इत् । ऊं॒ इति᳚ । ता । ते॒ । वि॒दथे᳚षु । ब्र॒वा॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमघवन् धनवन्निन्द्र त्वं या यानि वीर्या वीर्याणि चकर्थ चकृषे अहं तानि वीर्याणि विद्वान् जानन् ते तुभ्यं कथोनु कथंनु परिचराणी परिचर्यांकरवाणि हेशविष्ठ बलवत्तमेन्द्र याचो यानिचैव नव्या नव्यानि नूतनानि वीर्याणि नु क्षिप्रं कृणवः कुर्याः ते त्वदीयानि ता तानि वीर्याणि विदथेषु यज्ञेषु प्रेदु ब्रवाम प्रैववदाम ॥ १३ ॥

5.29.14
ए॒ता विश्वा᳚ चकृ॒वा{4} इ᳚न्द्र॒ भूर्यप᳚रीतो ज॒नुषा᳚ वी॒र्ये᳚ण ।
या चि॒न्नु व᳚ज्रिन्कृ॒णवो᳚ दधृ॒ष्वान्न ते᳚ व॒र्ता तवि᳚ष्या अस्ति॒ तस्या᳚ः ॥
▶ पदपाठः (Word-by-word)
ए॒ता । विश्वा᳚ । च॒कृ॒॑वान् । इ॒न्द्र॒ । भूरि᳚ । अप᳚रि॑इतः । ज॒नुषा᳚ । वी॒र्ये᳚ण ।
या । चि॒त् । नु । व॒ज्रि॒न् । कृ॒णवः᳚ । द॒धृ॒ष्वान् । न । ते॒ । व॒र्ता । तवि᳚ष्याः । अ॒स्ति॒ । तस्याः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र अपरीतः शत्रुभिरपरिगतस्त्वं जनुषा जननसिद्धेनात्मीयेनवीर्येणबलेनभूरि भूरीणि बहूनिएता एतानि प्रत्यक्षेणोपलभ्यमानानि विश्वा विश्वानि व्याप्तानि भुवनजातानि चकृवान् कृतवान् हेवज्रिन् वज्रवन्निन्द्र दधुष्वान् सपत्नान् धर्षयंस्त्वं नुक्षिप्रं याचित् यानिच विश्वानि कृणवः कुर्याः तेत्वदीयस्यतस्यास्तविष्याः तस्यबलस्यवर्ता निवारयिता नकोप्यस्ति ॥ १४ ॥

5.29.15 समानपद
इन्द्र॒ ब्रह्म᳚ क्रि॒यमा᳚णा जुषस्व॒ या ते᳚ शविष्ठ॒ नव्या॒ अक᳚र्म ।
वस्त्रे᳚व भ॒द्रा सुकृ᳚ता वसू॒यू रथं॒ न धीर॒ः स्वपा᳚ अतक्षम् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । ब्रह्म᳚ । क्रि॒यमा᳚णा । जु॒ष॒स्व॒ । या । ते॒ । श॒वि॒ष्ठ॒ । नव्याः᳚ । अक᳚र्म ।
वस्त्रा᳚॑इव । भ॒द्रा । सु॑कृ᳚ता । व॒सु॒॑युः । रथ᳚म् । न । धीरः᳚ । सु॒॑अपाः᳚ । अ॒त॒क्ष॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशविष्ठ बलवत्तम शूरतमवेन्द्र ते तुभ्यं या यानि स्तोत्राणि नव्याःनूतनाः अद्यतनावयं अकर्म हेइन्द्र त्वं क्रियमाणा अस्माभिः क्रियमाणानि ब्रह्म ब्रह्माणि तानि स्तोत्राणि जुषस्व सेवस्व धीरोधीमान् स्वपाःशोभनकर्मा वसूयुर्धनकामोहं वस्त्रेव वस्त्राणीव भद्रा भद्राणि भजनीयानि सुकृता सुष्ठुकृतानि स्तोत्राणि रथंन रथमिव अतक्षं अकरवं स्तोत्राण्युपसंहारवद्भाह्याणीत्यभिप्रायेण वस्त्रनिदर्शनमुक्तं रथदृष्टान्तस्तु आगमनसाधनत्वप्रतिपादनाय स्तोत्राणिस्वीकृत्यमह्यंधनंप्रयच्छेत्यर्थः ॥ १५ ॥

क्वस्यवीरइतिपंचदशर्चंषोडशंसूक्तं अत्रानुक्रमणिका-क्वस्यबभ्रुरृणंचयोप्यत्रराजास्तुतइति । बभ्रुरृषिः अनुक्तत्वान्त्रिष्टिप् इन्द्रोदेवता ऋणंचयनामराजापिक्वचित्स्तूयते अतःसोपिदेवता तीव्रसोमाख्येएकाहेमरुत्वतीयशस्त्रेइदंसूक्तंनिविद्धानं सूत्रितंच तीव्रसोमेनान्नाद्य -कामःक्वस्यवीरइति ।