ईय᳚न्ते॒ अश्वै᳚ः सु॒यमे᳚भिरा॒शुभि॒ः शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ॥
पदपाठः (Word-by-word)
ईय᳚न्ते । अश्वैः᳚ । सु॒॑यमे᳚भिः । आ॒शु॑भिः᳚ । शुभ᳚म् । या॒ताम् । अनु᳚ । रथाः᳚ । अ॒वृ॒त्स॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
प्रयज्यव: प्रकर्षेणयष्टारोभ्राजदृष्टयोदीप्तायुधाः मरुतः बृहत् प्रभूतम् वयोयौवनलक्षणं प्रभूतमन्नंवा दधिरे धारयन्ति रुक्मवक्षसोहा- रायतवक्षस्काः तेमरुतः सुयमेभिः सुखेननियमितुंशक्यैः आशुभिः शीघ्रगैरश्वैरीयन्तेप्राप्यन्ते शुभं शोभनंयथाभवतितथा यद्वोदकमभिल- क्ष्य यातां गच्छतां मरुतांरथाअप्यन्ववृत्सत अनुवर्तन्ते ॥ १ ॥