श्रवणम्

5.55.6
यदश्वा᳚न्धू॒र्षु पृष᳚ती॒रयु᳚ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्का{4}॒ अमु᳚ग्ध्वम् ।
विश्वा॒ इत्स्पृधो᳚ मरुतो॒ व्य᳚स्यथ॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ॥
▶ पदपाठः (Word-by-word)
यत् । अश्वा᳚न् । धूः॒॑सु । पृष᳚तीः । अयु᳚ग्ध्वम् । हि॒र॒ण्यया᳚न् । प्रति᳚ । अत्का᳚न् । अमु᳚ग्ध्वम् ।
विश्वाः᳚ । इत् । स्पृधः᳚ । म॒रु॒तः॒ । वि । अ॒स्य॒थ॒ । शुभ᳚म् । या॒ताम् । अनु᳚ । रथाः᳚ । अ॒वृ॒त्स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतः यूयं यद्यदाश्वान् धूर्षु रथसंबन्धिनीष्वयुग्धवं योजितवन्तःस्थ कीदृशानश्वान् पृषतीः पृषत्योमरुतामित्युक्तत्वात् पृषद्वर्णाव- डवाः सारंगीर्वात्राश्वशब्दवाच्या हिरण्ययान् हिरण्यवर्णान् अत्कान् कवचान् प्रत्यमुग्ध्वं प्रत्यमुंचत एवंकृत्वा विश्वाइत्स्पृधः सर्वानपि- संग्रामान् हेमरुतः व्यस्यथ विक्षिपथ शुभमित्यादिगतं ॥ ६ ॥