मृ॒ळत᳚ नो मरुतो॒ मा व᳚धिष्टना॒स्मभ्यं॒ शर्म᳚ बहु॒लं वि य᳚न्तन ।
अधि᳚ स्तो॒त्रस्य᳚ स॒ख्यस्य᳚ गातन॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ॥
अधि᳚ स्तो॒त्रस्य᳚ स॒ख्यस्य᳚ गातन॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ॥
पदपाठः (Word-by-word)
मृ॒ळत᳚ । नः॒ । म॒रु॒तः॒ । मा । व॒धि॒ष्ट॒न॒ । अ॒स्मभ्य᳚म् । शर्म᳚ । ब॒हु॒लम् । वि । य॒न्त॒न॒ ।
अधि᳚ । स्तो॒त्रस्य᳚ । स॒ख्यस्य᳚ । गा॒त॒न॒ । शुभ᳚म् । या॒ताम् । अनु᳚ । रथाः᳚ । अ॒वृ॒त्स॒त॒ ॥
अधि᳚ । स्तो॒त्रस्य᳚ । स॒ख्यस्य᳚ । गा॒त॒न॒ । शुभ᳚म् । या॒ताम् । अनु᳚ । रथाः᳚ । अ॒वृ॒त्स॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः नोस्मान्मृळत सुखयत मावधिष्टन असम्यक्करणादिजनितेनकोपेन मावधिध्वं किंतु अस्मभ्यं शर्म सुखं बहुलं अत्यधिकं विय- न्तन कुरुत किंच स्तोत्रस्यस्तोत्रं सख्यस्य सख्यं अधिगातन अधिगच्छत स्तुतिमनुभूयास्मासुसख्यंकुरुतेत्यर्थः ॥ ९ ॥