श्रवणम्

5.55.10
यू॒यम॒स्मान्न᳚यत॒ वस्यो॒ अच्छा॒ निरं᳚ह॒तिभ्यो᳚ मरुतो गृणा॒नाः ।
जु॒षध्वं᳚ नो ह॒व्यदा᳚तिं यजत्रा व॒यं स्या᳚म॒ पत᳚यो रयी॒णाम् ॥
▶ पदपाठः (Word-by-word)
यू॒यम् । अ॒स्मान् । न॒य॒त॒ । वस्यः᳚ । अच्छ᳚ । निः । अं॒ह॒ति॑भ्यः᳚ । म॒रु॒तः॒ । गृ॒णा॒नाः ।
जु॒षध्व᳚म् । नः॒ । ह॒व्य॑दा᳚तिम् । य॒ज॒त्राः॒ । व॒यम् । स्या॒म॒ । पत᳚यः । र॒यी॒णाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोयूयमस्मान् वस्योव्सीयोधनं स्वर्गादिलक्षणंस्थानंवा अछ अभिलक्ष्य नयत प्रापयत किंच अंहतिभ्यः पापेभ्योनिर्णयत निर्गम- यत गृणानाः स्तूयमानाः कर्मणिकर्तृप्रत्ययः जुषध्वं सेवध्वं नोस्माकं हव्यदातिं हविर्दानवन्तंयज्ञं हेयजत्राः यष्टव्यायूयंवयंच रयीणां बहु- विधा नांधनानां पतयः स्याम भवेम ॥ १० ॥