श्रवणम्

5.55.2
स्व॒यं द᳚धिध्वे॒ तवि᳚षीं॒ यथा᳚ वि॒द बृ॒हन्म᳚हान्त उर्वि॒या वि रा᳚जथ ।
उ॒तान्तरि᳚क्षं ममिरे॒ व्योज᳚सा॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ॥
▶ पदपाठः (Word-by-word)
स्व॒यम् । द॒धि॒ध्वे॒ । तवि᳚षीम् । यथा᳚ । वि॒द । बृ॒हत् । म॒हा॒न्तः॒ । उ॒र्वि॒या । वि । रा॒ज॒थ॒ ।
उ॒त । अ॒न्तरि᳚क्षम् । म॒मि॒रे॒ । वि । ओज᳚सा । शुभ᳚म् । या॒ताम् । अनु᳚ । रथाः᳚ । अ॒वृ॒त्स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमरुतोयूयं स्वयंअसहायेनैव दधिध्वे धारयध्वे कुरुध्वइत्यर्थः किं तविषीं बलं सामर्थ्यं यथाविद जानीथ अप्रतिबद्धसामर्थ्याइत्यर्थः हेमहान्तोयूयं उर्वियाउरवः सन्तोविराजथ उतापिचान्तरिक्षं ओजसा बलेन विममिरे व्याप्नुथ शुभमित्यादिगतम् ।