न पर्व᳚ता॒ न न॒द्यो᳚ वरन्त वो॒ यत्राचि᳚ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् ।
उ॒त द्यावा᳚पृथि॒वी या᳚थना॒ परि॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ॥
उ॒त द्यावा᳚पृथि॒वी या᳚थना॒ परि॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ॥
पदपाठः (Word-by-word)
न । पर्व᳚ताः । न । न॒द्यः᳚ । व॒र॒न्त॒ । वः॒ । यत्र᳚ । अचि᳚ध्वम् । म॒रु॒तः॒ । गच्छ᳚थ । इत् । ऊं॒ इति᳚ । तत् ।
उ॒त । द्यावा᳚पृथि॒वी इति᳚ । या॒थ॒न॒ । परि᳚ । शुभ᳚म् । या॒ताम् । अनु᳚ । रथाः᳚ । अ॒वृ॒त्स॒त॒ ॥
उ॒त । द्यावा᳚पृथि॒वी इति᳚ । या॒थ॒न॒ । परि᳚ । शुभ᳚म् । या॒ताम् । अनु᳚ । रथाः᳚ । अ॒वृ॒त्स॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः वोयुष्मान् पर्वताः शिलोच्चयानवरन्त नवारयन्तु तथा नद्यश्च नवारयन्तु किन्तु यत्र यस्मिन् यज्ञादिस्थाने अचिध्वं जानीथ- संकल्पयथ तत्स्थानं गच्छथेदु गच्छथैव उतापिच द्यावापृथिवीच परि परितोयाथनयाथ वृष्ट्यर्थमिति ॥ ७ ॥