श्रवणम्

5.55.3
सा॒कं जा॒ताः सु॒भ्व᳚ः सा॒कमु᳚क्षि॒ताः श्रि॒ये चि॒दा प्र᳚त॒रं वा᳚वृधु॒र्नरः᳚ ।
वि॒रो॒किण॒ः सूर्य᳚स्येव र॒श्मय॒ः शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ॥
▶ पदपाठः (Word-by-word)
सा॒कम् । जा॒ताः । सु॒॑भ्वः᳚ । सा॒कम् । उ॒क्षि॒ताः । श्रि॒ये । चि॒त् । आ । प्र॒॑त॒रम् । व॒वृ॒धुः॒ । नरः᳚ ।
वि॒॑रो॒किणः᳚ । सूर्य᳚स्य॑इव । र॒श्मयः᳚ । शुभ᳚म् । या॒ताम् । अनु᳚ । रथाः᳚ । अ॒वृ॒त्स॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

साकं सहैवजाताउत्पन्नाः सुभ्वः सुष्ठुभवन्तः महान्तइत्यर्थः तथैवसाकंसहैवउक्षिताः सेक्तारोवर्षकाः श्रियेचित् शोभायैएव प्रतरं प्रकृष्टतरं आसर्वतोव्वृधुरवर्धयन् नरः कर्मणांनेतारः विरोकिणः विरोचमानाः सूर्यस्येवरश्मयः सूर्यरश्मयइवशुभमित्यादिगतं ॥ ३ ॥